________________ 25 व्याख्यानयोपेतप्रकाशबोधनोयुते न्यायकुसुमाअलौ [ 1 कारिकाव्याख्यायो प्रकाशः। यदि प्रमात्वमेव, तदाऽऽत्माश्रयः। अन्यच्चेत् , तदेव प्रामाण्ये लिङ्गमस्तु, उपजीव्यस्वात् / न च तृणारणिमणिन्यायेन व्यक्तावेज कार णत्वं गृहीत्वा समर्थप्रवृत्तिजनकत्वग्रहः, प्राहकाभावात् / न च प्रत्यक्षमेव तनाहकम् / तद्धि न बहिरिन्द्रियजन्यम् / आन्तरत्वात् / नापि मान. सम् / तद्धि समर्थप्रवृत्तेः प्रगुत्तरकालं वा ? नायः / समर्थप्रवृत्तेरभावात्तद्वैशिष्टयाग्रहात् / नान्स्यः / ज्ञानस्य नष्टत्वेन मनसा प्रत्यासत्यभावात् / नाऽपि तज्जातीयत्वं लिङ्गम् / तद्धि करचरणवति शरीरज्ञानत्वादि / तत्र करचरणाद्यन्तरवति करचरणाद्यन्तरवत्त्वज्ञाने व्यभिचारः / तत्रापि शरीराशे प्रमात्वमेवेति चेत् , तर्हि, करचरणादीति व्यर्थम् / शरीरभ्रमेऽपि कस्याश्चि. च्छरीरव्यक्ते नात् , तत्र तस्य प्रामाण्यात् / अन्यथा शरीरत्वस्यैव भानायोगात् / करचरणादिशन्ये यच्छरीरत्वेन ज्ञानं तव्यावृत्त्य तदिति चेत् / करचरणादिमत्त्वमुपलक्षणं विशेषणं वा? नायः। व्यावृत्तोपलक्ष्याभावात् / नान्त्यः। विषयतया हि न ज्ञानविशेषणत्वं करचरणवत्वप्र. कारकज्ञानविषयस्वस्य व्यभिचारात् , अशरीरेऽपि ताशभ्रमसम्भवात् , शरीरज्ञाने तदसिद्धेच / विषय विशेषणत्वे च करचरणवद्विषय कशरीरज्ञानत्वस्य व्यभिचारात् / शरीरभ्रमस्यापि। टिप्पणी। विनेति / अवच्छेदकरूपग्रहं विनेत्यर्थः / तदाऽऽत्माश्रय इति / जनकताया जनकताव. च्छेदकरूपत्वाभिमानेनात्माश्रय इत्यन्यथान्योन्याश्रयो बोध्यः। श्रान्तरत्वादिति / कार्यकार: णयोः प्रवृत्तिप्रमयोबहिरिन्द्रियाप्राह्यत्वेन तस्कार्यकारणभावस्यापि तत्त्वादित्ययः / वैशिष्टयाग्रहादिति / सम्बन्धप्रहस्य सम्बन्धिप्रहसापेक्षत्वेन प्रवृत्तेरप्रहे तत्सम्बन्धस्य कारणत्वघटकस्य कार्यकारणमावस्य वा ग्रहीतुमशक्यत्वादित्यर्थः। शानस्य नष्टत्वेन इति। प्रवृत्युत्तर. क्षणस्य प्रमातृतीयक्षणत्वेन तदानीं तत्र विशेष्यसन्निकर्षाभावादित्यर्थः / करचरणवतीति / अत्र सप्तम्या विषयत्वमात्रपरत्वाभिप्रायोऽवासेयः / इदं ज्ञानं शरीरप्रमात्ववत् करचरणादिम. द्विषयकशरीरज्ञानत्वादित्यनुमाने तच्छरीरे तच्छरीवृत्तिकरचरणज्ञ नस्य भ्रमत्वेन साध्यामाववत्व मभिमस्य दोषमाह / तति उक्तज्ञानस्य भ्रमत्वेऽति करचरणादिमत्त्वांश एव न तु शरीराशे, विशेष्याशे सर्वज्ञानस्य प्रमात्वाभ्युपगमात् , साध्यञ्च शरीरश्मात्वमेवेति कुतो व्यभिचार इत्याशङ्कते / तत्रापि शरोरांश इति। शरीरभ्रमेऽपोति / शरीरत्त्वविशिष्टशरीरविषयकभ्रमेऽपीत्यर्थः, न तु शरीरवत्त्वेन भ्रमेऽपीत्यर्थः, तस्य शरीरविषयकस्यापि सम्भवात् / करचरणादोति / शरीरप्रमात्वञ्च शरीरत्ववति शरीरत्वप्रकारकज्ञानत्वं तदेव साध्य, हेतुधटकं शरीरज्ञानञ्च न शरीरत्वविशिष्टविषयकज्ञानत्वं किन्तु शरीरत्वप्रकारकज्ञानत्वमेव तस्य च स्थाण्वादौ शरीरभ्रमे सत्त्वेन व्यभिचारः स्यादिति करचरणादिमद्विशेष्यकत्वमुपादेयमित्याह / करेत्यादि। व्यावृत्तोपलक्ष्याभावादिति / अविद्यमानेन येन यदितरतो व्यावय॑ते तदुपलक्षमुपरञ्जकच्चाच्यते दशाविशेषे करचरणादिशून्यस्या शरीरव्यावृत्तस्याभावात् कथमुपलक्षणस्यादिति भावः। विषतया हीति करचरणवतीत्यत्र सप्तम्या आधेयत्वमर्थः, प्रकारतया करचरणववृत्तिशरीरत्वप्रकारकज्ञानत्वं हेतुःपर्यवसितः। करचरणवत्त्वप्रकारकेति। "करचरणवत्त्वप्रकारकशरीरत्वज्ञानस्य व्यभिचारादिति" क्वचित् पाठःविषयत्वस्य व्यभिचारादिति। विषय तया शरीरस्वप्रकारकप्रमाव्यभिचारादित्यर्थः। तथा च स्थाणुविषयके करचरणादिमदिदं शरीरमिति भ्रमेऽपि हेतोः सत्त्वेन साध्यस्य तत्राभावात् व्यभिचार इति भावः / शरीरशानेऽपीति / इदं शरीरमिति प्रमायाः करायप्रकारकत्वेन तत्र भागासिद्धेरिति भावः / शरीज्ञानत्वस्येति / करचरणवद्विषयकरबे सति शरीरत्वप्रकारकज्ञानत्वस्येत्यर्थः / शरीरभ्रमस्यापीति / स्थाणुशरीरयोः शरीरस्वस्थाणुत्व