________________ स्तवकः ] - व्याख्यात्रयोपेतप्रकाशबोधनीयुते प्रकाशः। सिद्धिभागासिद्धयो निरस्ताः / तर्कपक्षे सन् = निर्दोषः / पक्षप्रसरः = पक्षव्यापकोऽनिष्टप्रसञ्जनरूपस्तों यस्मात् / सतां परामर्श कुशलानाम् / परितः= सपक्षे सत्तया विपक्षे चासत्तया यो मलः = सम्बन्धो व्याप्तिरूपस्तस्य यः प्रोद्बोधः = अबाधितप्रतिबन्धनिश्चयः साध्यसाध प्रकाशिका। चाबाधितेऽपि वाधावतारान्न्यायाभासेऽतिप्रसङ्गः। तस्य व्यतिरेकनिश्चयेनापक्षतया पक्षपदेनैव वारणात् , तस्य सन्न्यायत्वाद्वा / न च भागासिद्धेऽपि व्याप्तया ज्ञानमस्त्येवेति तदव्युदासः, प्रकर्षण व्याप्त्यालक्षितस्येत्यर्थात् ज्ञानपदस्य प्रमापरत्वाद्वा, प्रकर्षस्यैव व्याप्तिप्रामाण्योभयरूपत्वाद्वा / सन्निर्दोष इति / न चाग्रे परिमलेत्यादिनापाद्यापादकव्याप्तिप्रदर्शनेन मूलशैथिल्यस्य विमईनाभावेन मिथो विरोधस्य च निरसनात् पौनरुक्त्यमिति वाच्यम् , निर्दोषपदस्य तदतिरिक्तदोषाभावपरत्वात् , सामान्याभावे विशेषाभावस्येतरसहकृतस्य हेतुतया हेतुहेतुमद्भावेनान्वयाद्वा / सपक्षे सत्तयेति / न च सपक्षे नावश्यं हेतोः सर्वतः सम्बन्ध इति वाच्यम् , साध्याभावासामानाधिकरण्यसहकारस्यैव सर्वतः पदार्थत्वात् / पदार्थविचारपर्यवसितमर्थमाह / अवाधितेति / अन्यथा मकरन्दः / व्युदासः / धर्मिणि हेतूभूतधर्मवतीति स्वरूपासिद्धिव्युदासः / प्रकर्षेण व्याप्त्या, तेन भागासिदिव्युदासः / ज्ञानं हेतोरित्यर्थात् / न चाबाधितेऽपि बाधावतारात् तन्नायाभासस्य न व्युदास इति वाच्यम् / व्यतिरेकनिश्चये सिषानयिषाविरहेण पक्षपदादेव तन्निरासात् / तस्य न्यायत्वादेव वा। निर्दोष इति / नचाने आपाधापादकव्याप्तिप्रदर्शनेन मूलशैथिल्यस्य विमर्दनाभावेन मिथोविरोधस्य च निरसनात् पुनरुक्तिरिति वाच्यम् / विशेषाभावस्य सामान्याभावोपपादकतया हेतुहेतुमद्भावेनान्वयादित्येके / निर्दोषपदं तदतिरिक्तदोषाभाववत्परमित्यन्ये / एतावता पर्यवसितमर्थमाह / अबाधितेति / अन्यथा प्रतिबन्धपदार्थानन्वयापत्तेः / टिप्पणी। विवक्षणे धम्मिणीत्यस्य वैयापत्तिः स्यात् , स्वरूपासिद्धिनिरासाय हेतुमतीत्यर्थकत्वमपि तस्य न सम्भवति, तावतापि भागासिद्धरनिरासेन प्रशब्दज्ञानशब्दाभ्यां हेतोरित्यस्य शेषेण चावच्छेदकावच्छेदेन हेतुप्रमाज्ञानस्यावश्य विवक्षणीयतया तेनैव स्वरूपासिद्धरपि निरासादिति / अथ किं प्रन्थकृदेवं विधं शब्दमुक्तवान् यत् सत्त्वासत्त्वयोरपि तुल्यैव गतिरिति चेत् / सत्यम् / तुल्यैव, परन्तु केवल मसन्देहार्थं तात्पर्यग्रहार्थञ्च, ततश्च सिषाधयिषितसाध्यके इत्युक्ते ह्रदादावपि सिषाधयिषितवह्नयादिसांध्यकानुमित्युत्पादाद् बाधादिनिरासो न स्यादर्थान्तरे तु स वार्थोऽयं वार्थ इति सन्देहः स्याद् , धर्मिणीत्युक्तावुपस्थितत्वात् साध्यरूपधर्म एव गृह्यते, तथा सति साध्यवत्त्वस्य तत्राभिप्रेतत्वमवगत्य तत्पदस्यैव तादृशार्थे तात्पर्यमवधारणीयं भवेदिति / साध्यधर्मक इत्यत्र धर्मपदोपादानं साध्ये प्रामाणिकत्वलाभाय, तेन साध्याप्रसिद्धिनिरासः / आश्रयासिद्धिपदं साध्याप्रसिद्धतादेरप्युपलक्षकमिति ध्येयम् / सन्निर्दोषः पक्षप्रसर इत्यादि / न चाग्रे परिमलेत्यादिनापाद्यापादकयोर्व्याप्तिप्रदर्शनेन मूलशैथिल्यनिरासात् निर्दोषपदेन पौनरुक्त्यमिति वाच्यम् / अत्र दोषपदस्य तदितरदोषपरत्वात् सामान्यपरत्वेऽपि अग्रे विशेषाभावस्य तत्प्रयोजकतया विवक्षणे क्षत्यभावः / प्रोद्बोधोऽबाधितप्रतिबन्धनिश्चय इति / प्रतिबन्धो व्यातिः तस्यावाधितनिश्चयः प्रमात्मकनिश्चयः, नायं प्रोद्बोधपदस्यैवार्थः, अपि तु प्रोद्बोधान्तस्य पर्य्यवसितार्थः। अन्यथा परिमलपदार्थानन्वयप्रसङ्गः