________________ न्यायकुसुमाञ्जली [प्रथम: बोधनी। 'अघं क्लेशः यथा तन्न स्याद् यथा च विघ्नो न स्यात् तथा रमयतु / अक्लिष्टमविहतश्रद्धायुक्तं यथा स्यात्तथा करोत्वित्यर्थः / प्रकाशः। नयोः, साध्याभावसाधनाभावयोर्वा, आपाधापादकयोश्च, तेन बद्धः = स्थिरीकृत उत्सवआनन्दो येन स तथा / नित्यसापेक्षत्वादसमर्थेऽपि समासः। तेनान्वयव्यतिरेकिणि सपक्षासपक्षयोः सत्त्वासत्त्वे केवलव्यतिरेकिणि च विपक्षासत्त्वं दर्शितमिति व्याप्यत्वासिद्धिसव्यभिचारविरुद्धनिरासः / विमर्दनं = तद्विषयीभूतप्रमाणविरोधिप्रमाणप्रदर्शनम् , तेन न विम्लानो न कार्याक्षम इति सत्प्रतिपक्षविरहो दर्शितः। ___ ननु तथाविधप्रमाणव्युत्पादनं न स्वतः प्रयोजनं, प्रयोजनवत्सन्निधावश्रवणाच्च न तदङ्गमित्यत आह / अमृतेति / अमृतं = मोक्षः, तत्र रस = इच्छा। रस्यमानममृतमिति यावत् / "कृदभिहितो भावा द्रव्यवत् प्रकाशते” इति न्यायात् , तस्य प्रस्यन्दः= असम्बद्धसम्बन्धोप प्रकाशिका। प्रतिबन्धपदार्थानन्वयापत्तेः / अत एव साध्याभावसाधनाभावयोरित्यपि युज्यते। अन्यथा सपक्षे सत्तयेत्यनेनास्यानन्वयात् , तत्र च हेतोरित्यध्याहारेण सङ्गतिः, न च तथापि व्यतिरेकव्याप्तिस्थले हेतोः सम्बन्ध इत्यनेनानन्वय एवेति वाच्यम्। विपक्षव्यावृत्तेरेव सम्बन्धत्वात् तदिदमुक्तं विपक्षेचासत्तयेति / ननु बद्धशब्दोऽसमस्तेन सतामितिपदेन सापेक्ष इत्युत्सवपदेनासामर्थ्यान्न समासोचित इत्यत आह / नित्येति। तथाचासमस्तसाकाङ्क्षतायाः समस्यमानापरपदाकाङ्क्षाविच्छेदकत्वेन दूषणत्वं-तच्चात्र नास्ति, बद्धशब्दस्य सम्बन्धवाचकतयोभाभ्यां प्रतियोग्यनुयोगिवाचकपदाभ्यां सह नित्यसाकाङ्क्षतयोत्सवपदेन निराकासत्वाभावादित्यर्थः। असमर्थेऽपीति / असमस्तपदसाकाङ्क्षऽपीत्यर्थः। कृदभिहित इति / कृदन्तपदविशेष्यीभूतद्रव्यवाचकपदोपस्थाप्यद्रव्यवत्प्रत्ययविषयो भवति विशेष्यीभूतकृदन्तपदाभिहितोऽपि भावः, तेन रस्यमानममृतमित्यत्रेवामृतरस इत्यत्रान्वय इति भावः / इयञ्च व्युत्पत्तिस्तात्पर्याधीना न तु सर्वत्रेत्यवधेयम् / असम्बन्धेति(१)। प्रस्यन्द मकरन्दः / नित्येति / सामर्थ्य समासात् सापेक्षमसमर्थं भवतीति यद्यपि सापेक्षे न समासः, तथापि नित्यसापेक्षे तदनिषेधादस्य च तथात्वादत्र समास इत्यर्थः / कृदभिहित इति / कृदभिहितो भावो द्रव्यवत् प्रकाशते, कृदभिहितद्रव्यवद् भासते। तेन रस्यमानममृतमिति यथा कृदभिहितद्रव्ये प्रत्ययस्तथा द्रव्यसमभिव्याहृतकृदभिहितभावेऽपीत्यर्थः / इदञ्च तात्पर्य्यवशादित्यवधेयमित्याहुः॥ असम्बद्धेति / आद्यक्षणेत्यर्थः / इहापि कृदभिहित इति न्यायात् प्रस्यन्दमानेत्यर्थः / तेन टिप्पणी। स्यात्। साध्यसाधनयोरित्यादेरपि प्रतिबन्धपदार्थ एव निरूपितत्वेनान्वयः / सपक्षे सत्तयेत्यादिना साध्यसाधनयोरित्यस्यान्वयसम्भवेऽपि साध्याभावसाधनाभावयोरित्यस्यान्वयासम्भव एवेति। साध्या भावसाधनाभावयोरिति तु केवलव्यतिरेक्यभिप्रायेण, तत्र प्रथमं तयोर्व्याप्तिं गृहीत्वानन्तरं साध्यसाधनयोस्तद्ग्रह इति ध्येयम् / कृदभिहितो भावोद्रव्यवत्प्रकाशते इति न्यायादिति (1) असम्बद्धेति प्रकाशे पाठः /