________________ [प्रथमः न्यायकुसुमाञ्जली ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रमचेतो मे रमयत्वविनमनघो न्यायप्रसूनाञ्जलिः // 1 // बोधनी / दुपादित्साप्रयोजिकामभिमतफलसाधनतां सूचितवानिति / अन्यत्र अमृतसमरसस्य प्रस्यन्दमानस्य मकरन्दस्य भूमिरिति / एवमनघः विशुद्धः, न्यायो नीयते ज्ञाप्यते विवक्षितार्थोऽनेनेति न्यायः परार्थानुमानं, स एव प्रसूनाअलिः / यद्वा न्यायाः प्रसूनानीव तेषामञ्जलिः, विधेयनिषेध्यविषयलिङ्गात्मककरतलद्वयगोचरत्वेन न्यायानामञ्जलित्वमिति / ईशस्य-परमात्मनः परापररूपात्मनि पदयुगे निवेशितः / यद्वा, पद्यते गम्यतेऽनेनेति पदं, तवयमागमप्रामाण्यलिङ्गं कार्यलिङ्गं च तद्विषय इति / अन्यत्र सुगमम् / यथा कुसुमाजलौ भ्रमति भृङ्गः तथा स्वस्मिन् मदीयं साभिलाषमन्तःकरणमविघ्नं रमयतु / यद्वा भृङ्गायमाणं यथा मधुमत्यमधुमति च कुसुमे विवेकानवधारणेन चञ्चलश्चञ्चरीकः, तथा तत्त्वेऽतत्त्वे च वर्त्तमानं सन्दिहानमित्यर्थः, भ्रमच्च क्वचिदतत्त्वमेव तत्त्वतयाध्यवस्यन् मदीयं चेतो रमयतु संशयविपर्ययनिरासेन तत्त्वास्पदं करोत्विति / अनघमिति व्यस्तपाठे चेतोविशेषणं, स्वारसिकश्रद्धावत्त्वेन निष्पापं चेत इति; क्रियाविशेषणं वा, प्रकाशः। न्तरव्युत्पादनस्याप्यत्र तदर्थत्वादिति भावः / न तु शब्दानुमानरूपं पदयुगमत्र विवक्षितम् , श्रुतो हि-इत्यादिना तदतीतत्वोपदर्शनविरोधात् , ग्रन्थे च शब्दोपदर्शनस्याऽनुमाने तदविरोधमात्रप्रदर्शनतात्पर्य्यकत्वात् / अनघत्वं न्यायानामुपपादयन्नाह / सत्पक्षेति / सतिप्रामाणिके, पक्षे सिषाधयिषितसाध्यधर्मके धम्मिणि, प्रकर्षण सरो ज्ञानं यस्मात् / अनेनाश्रयासिद्धिबाधसिद्धसाधनस्वरूपा प्रकाशिका। सप्तमी साधुरिति वाच्यम्। निवेशितो निवेशनां प्रापित इत्यन्तर्भावितकर्मतया तद्योगोपपत्तेरिति भावः। अनुमान इति / इदमुपलक्षणम् “अहं सर्वस्य प्रभवः' इत्यादेः क्षित्यादिसकर्तृकत्वानुमानोत्थापकतातात्पर्यकत्वस्यापि भावात् / प्रामाणिक इति / पक्षतावच्छेदकवतीत्यर्थः / तेन काञ्चनमयाद्रिः सकतक इत्यादिन्यायाभासव्युदासः / आश्रयासिद्धरपि तत्रैव भावात् , असत्पक्षत्वे त्वपार्थकतयाऽनघपदादेव व्यावृत्तिः / सिषाधयिषितेति / सिषाधयिषा सिद्धीच्छा सा च साध्यसिद्धिनिवर्तनीयेति सिद्धसाधनव्युदासः / धम्मिणीति साध्यरूपधर्मवतीत्यर्थः, तेन बाधव्युदासः। न च साध्यधर्मवतीत्यर्थकेन प्रथमपदेनैव तद्व्युदासः। तस्य सिषाधयिषारूपसम्बन्धमात्रतात्पर्यकत्वात् / अन्यथा धर्मिमणीत्यस्य वैयर्थ्यापत्तेः / न च तस्य हेतुरूपधर्मवतीत्यर्थकस्य स्वरूपासिद्धिव्युदासे तात्पर्यम् , भागासिद्धिवारणार्थोपात्तव्याप्त्यर्थकप्रशब्देनैव तस्य व्युदासात् ज्ञानं हेतोरित्यर्थात् / न मकरन्दः। सप्तमी साधुरिति वाच्यम् / निवेशितो निवेशनां प्रापित इत्यन्तर्भूतकर्मतया तद्योगबलादुपपत्तेरित्याहुः / प्रामाणिक इति / पक्षतावच्छेदकवतीत्यर्थः / तेन पक्षविशेषणाप्रसिद्ध्याऽऽश्रयासिद्धिः परिहृता / अन्यथाऽव्यावर्त्तकतापत्तेः / अप्रामाणिकपक्षत्वेऽपार्थकतयाऽनघपदादेव व्यावृत्तेः / प्राचीनमतेनेदमित्यन्ये // सिद्धसाधनवारणायाह / सिषाधयिषितेति / सिषाधयिषितं साध्यं धर्मो यस्येति * बाध टिप्पणी। न तु शब्दानुमानरूपमित्यादि / सिषाधयिषितेति अत्र सिषाधयिषितसाध्यवत्त्वपर्य्यन्त