________________ स्तवकः ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते विम्लानो न विमईनेऽमृतरसप्रस्यन्दमाध्वीकभूः / बोधनी। दने पीडने सति न म्लायति न दूष्यते, तेषां हीनाङ्गत्वेन दुर्बलत्वादिति भावः। अनेन प्रकरणसमः प्रतितर्कप्रतीघातश्च घातितः। अन्यत्र करतलादिमर्दने न म्लानः तदभावादेव न प्रत्यग्रापचित इत्यर्थः / यद्वा पुष्पाञ्जलिसाधर्म्यप्रसक्तविमर्दनासहत्वनिवारणेन न्यायस्य तद्वैधघूमनेन प्रदयेते, यथा विमर्दने सति पुष्पाञ्जलित्यति नायं तथेति। अमृतं ब्रह्म, रसयतीति रसस्तद्विषया बुद्धिः, तस्य प्रस्यन्दः = प्रवाहः ध्यानमिति यावत् / तेन यत् तस्य साक्षात्कारि ज्ञानं तवारं निर्वाणं वा, तदेव माध्वीकमिवाव्यवहितपुरुषार्थतया माध्वीकमिति गौणो वादः, तस्य भूहेतुः / श्रवणानन्तरं न्यायावधृतपरमात्मतत्त्वानां तत्त्वानुचिन्तनेन साक्षात्कार उत्पद्यते ततोऽपवर्ग इति स्थितिः / अथवा अमृतं मोक्षः, तत्र रसः तद्गोचरेच्छा, तस्य प्रस्यन्दोऽविच्छेदेन प्रवाहः, स एव माध्वीकं, तस्य भूर्भूमिरिति / श्रवणसञ्जातां मुमुक्षां नास्तिककुतर्कापादितशैथिल्यापनयेन वर्द्धयतीत्यर्थः / अनेन न्यायस्य फलवत्ताप्रदर्शनेन तद्व्युत्पादकस्य प्रकरणस्यापि प्रेक्षाव प्रकाशः। पद्यते ज्ञायतेऽनेनेति व्युत्पत्त्या प्रत्यायकयुगे प्रमाणतर्करूपे / निवेशितः= तद्विषये उत्पादितः / अन्वयि व्यतिरेकि वा पदयुगम् / वेदस्य पौरुषेयत्वे केवलस्य व्यतिरेकिणोऽपि दर्शयिष्यमाणत्वात् / यद्वा, पदं = ज्ञानं तयुगं तदुभयोत्पादितम् , निमित्तसप्तम्या ज्ञानद्वयार्थमित्यर्थः। प्रमाणा . प्रकाशिका। मग्रीति / तर्कविषयो न न्याय इत्यरुचेराह / अन्वयीति / वेदस्येति / अत्र मिश्राः सम्भवप्राचुर्यादिदमुक्तम् अन्वयव्यतिरेकिणोऽप्युदाहरणद्वयभेदेन न्यायभेदस्य सर्वसम्मतेः। नचैवमपि विषयिणो न्यायस्य भेदेऽपि तद्विषयस्य प्रमाणस्य न भेद इति वाच्यम् / अन्वयव्यतिरेकव्याप्तिद्वयविशिष्टप्रमाणस्यापि भेदादित्याहुः / तच्चिन्त्यम्। तत्र व्यतिरेकव्याप्त्युपदर्शनाभावेन तादृशन्यायाप्रदर्शनेन "तत्परतायामेष' इति मूलविरोधात् तादृशन्यायतात्पर्यस्य च कल्पने गौरवात् / ननु पदयुग इतीयं यद् विषयसप्तमी तद्विषयप्रतिपत्तिजनकत्वमाह, नचेह प्रमाणप्रतिपत्तिमात्रं विवक्षितं प्रयोजनास्पर्शा'दंतस्तत्साध्यश्रुतप्रयोजनभगवदनुमितिपरतया पदपदं व्याचष्टे / यद्वति। न च कर्मयोगं विना नेयं मकरन्दः / ननु तर्कविषयो न न्याय इत्यरुचेराह / अन्ययीति / वेदस्येति / इदञ्च सम्भवसौकर्यादुक्तम् / वस्तुतोऽन्वयव्यतिरेकिणोऽपि उदाहरणादिभेदेन न्यायभेदस्य सर्वसम्मतत्वादिति वदन्ति / तच्चिन्त्यम् / एवमपि विषयिणो भेदेऽपि विषयस्यैक्यमेवेति युगत्वानुपपत्तेः / * व्यक्तिभेदविवक्षया तथात्वेऽप्यनुपपत्तेः। आनन्त्यात् / निमित्तेति / न च कर्मयोगाभावान्नेयं टिप्पणी। सप्तमीमनुसृत्येदम्। तद्रूपविषयार्थ तयोर्वा विषयाथ सन्दर्भित इत्यर्थः / न चेह प्रमाणप्रतिपत्तिमात्रं विवक्षितम् , प्रयोजनास्पर्शनादतस्तत्साध्यश्रुतप्रयोजनभगवदनुमितिपरतया पदपदं व्याचष्टे / यद्वेत्यादि / नन्वनुमितेः कथमुभयत्वमित्यत्राह। तदुभयेति। यतस्तदुभयोत्पादितं तत् अतः, तथा चोत्पादकयोरन्वयिव्यतिरेकिणोरुभयत्वादेवानुमितावपि तदिति भावः। पर्य्यवसितार्थ सप्तम्या सहाह / ज्ञानद्वयेति / अत्र ग्रन्थे शब्दादिप्रमाणान्यपि व्युत्पादितानि सन्तीति कथमस्यानुमिति * मात्रार्थत्वमत्राह / प्रमाणान्तरेति / तान्यपि साक्षात्परम्परयानुमितावेवोपयोगीनीत्यत्र व्युत्पा- . दनतात्पर्य्यम् / अथ शब्दादयोऽपि कथं न स्वतन्त्रप्रमाणतया व्युत्पादनीया इत्यत्राह