________________ न्यायकुसुमाञ्जलौ [प्रथमः बोधनी। कण्ठतः कुण्ठनम् / अनध्यवसितसव्यभिचारयोविरुद्धस्य चार्थतो निरासः। अन्यत्र, सतां श्लेष्माद्यनुपहतघ्राणानां सौरभोद्गारेण विहितप्रीतिः स्वस्मिन् बद्धेच्छो वा। प्रतिप्रमाणैः प्रतितकैश्च विम प्रकाशः। न्यायः= समस्तरूपोपपन्नलिङ्गबोधकवाक्यजातम् , स एवाह्लादकतया प्रसूनम् ; तदेवावान्तरवाक्यघटितत्वेन अञ्जलिः / मम चेतः, अविघ्नं यथा स्यादेवं रमयतु = दुःखसामग्रीविहीनं करोतु / ईशस्य पंदयुगे रमयतु = तदेकामं करोत्विति वा / मनः कीदृशम् ? भृङ्गायमाणम् , भृङ्ग इव मकरन्दे संसारिणां दुःख विगमोपाये सतष्णम् भ्रमद=अनुसरत् / दुःखविगमोपायम् इत्यर्थात् , तत्र सतृष्णस्य तदन्यानुसरणानौचित्यात् , तत्साधनानुसरणस्यापि तदर्थतया तदनुसरणरूपत्वात् / परदुःखं दृष्ट्वा दुःखितस्य कारुणिकस्य तन्निदानोच्छेदे तृष्णा भवत्येवेत्यनुभवसिद्धम् / __ यद्वा, मम चेतो रमयतु = सफलयतु / परोपकारकरणाद् भृङ्गायमाणम् उपकारलुब्धम् / भ्रमत् = दुःखितमुपकर्तुं व्याप्रियमाणमित्यर्थः / / तथापि भूयसो धूमादिविषयस्य न्यायस्य सत्त्वात् किमनेनेत्यत आह-ईशस्य पदयुगे= प्रकाशिका। न रूढ्यर्थ इति भावः। विवक्षितार्थप्रतिपादकत्वमपि न साक्षादिति द्वाराकाङ्क्षायामाह समस्तेति / अवान्तरेति / वाक्यपदमत्र प्रकृताभिप्रायम् ,अवान्तरघटितत्वमात्रं विवक्षितम् , अन्यथा प्रसूनाञ्जलावनन्वयापत्तेः। प्रकृतन्यायस्य मोक्षजनकत्वात् सुखजनकत्वमसम्भवीत्यन्यथा व्याचष्टे। दुःखसा मकरन्दः। समस्तेत्यादिना विषयशुद्धरपि लब्धत्वात् पूर्वार्द्धवैयर्थ्यम्। तत्त्वेन बोधकस्याभाससाधारणस्य विवक्षितत्वादिति भावः / केचित्तु एकविशेषाभावस्य पूर्वाद्धेनैव लब्धत्वादपरविशेषाभावमात्रलाभार्थं वाक्यपदम् / नचैवमनघत्वमित्याद्यग्रिमग्रन्थविरोधः / अनघपदेन विषयाशुद्धेरप्रतिपादितत्वात् , अर्थदोषनिरासार्थमित्यस्यैव वक्तुमौचित्यात् / शब्ददोषद्वैविध्येनार्थदोषनिबन्धनशब्ददोषाभावस्य ततः सम्भवादित्याहुः / अनघत्वपदं यत् कवित्वेऽस्ति तद्भिन्नमनघत्वं स्वातन्त्र्येण लिखितं परग्रन्थे / तत्रापि सामान्यशब्दस्यानघत्वमित्यस्य वक्ष्यमाणस्यार्थदोषरहितत्वमिति विशेषपरत्वादित्यर्थः। अवान्तरघटितत्वमात्रं प्रयोजकं, वाक्येति प्रकृताभिप्रायकम् / विशिष्टस्य प्रसूनाजलाव भावाद्। रागित्वनिरासार्थमाह / दुःखेति / तर्हि तत्साधनं नानुसरेदित्यत आह / तत्साधनेति / टिप्पणी। मपि न्यायस्य न साक्षादतो द्वाराऽऽकाङ्क्षायामाह-समस्तेति / द्वारत्वं प्रतिपत्त्यन्तस्यैव, प्रतिपत्तिरत्र मानसी, तजनकवाक्यजातमित्यन्तग्रन्थस्तु न्यायपदेन वाक्यसमूहरूपग्रन्थातिरिक्तस्यापि च प्राप्ततया तव्यवच्छेदार्थ इति ध्येयम् / प्रकृत उक्तन्यायस्य मोक्षोपायत्वेन सुखजनकत्वमसम्भवीत्यन्यथा व्याचष्टे / दुःखसामग्रीत्यादि / दुःखविगमोपायमिति / अत्र उपाय पर्यन्तोपादानं मकरन्दसाम्याय उपायानुसरणे तत्र सतृष्णस्येत्यादेः साम्मुख्येन सङ्गमनाय चेति / अनुसरणकर्मणोऽनुक्तत्वात्तदाकाङ्क्षायामाह / दुःखेत्यादि / अर्थतस्तल्लाभे हेतुमाह / तत्रेत्यादि / दुःखनाशे सतृष्णस्य तत्रानुसरणासम्भवेन तदुपायानुसरणात् उक्तन्यायविरोध इत्यत आह ! तत्साधनेति / तथा च तदुपायानुसरणं न तदन्यानुसरणमिति भावः / व्याप्रियमाणमिति अतिशयेन व्यापारयुक्तमित्यर्थः / तद्विषय उत्पादित इति विषय