________________ स्तवकः ] - व्याख्यात्रयोपेतप्रकाशबोधनीयुते बोधनी। मात्मोपासनेच्छा येनेति / एतदुक्तं भवति आगमावगते परमात्मनि व्याप्तिवशेन भूयस्तत्संवादिप्रमित्युत्पादनेन तदुपासने श्रद्धा निश्चलामाबद्धवानिति / अनेन स्वरूपतो ज्ञानतश्च व्याप्यत्वासिद्धः प्रकाशः। वाक्यदोषरहितः, विषया(१)शुद्धेः पूर्वार्द्धनैव निरासात् / नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति प्रकाशिका। नतिवत् स्तुतेरपि मङ्गलत्वमिति भावः / अघशब्दस्य पापवाचकत्वेन प्रकृतासङ्गतिरत आहवाक्यदोषरहित इति / तथापि दोषसामान्यपरतैव किन्नेत्यत आह-विषयेति / तथा च तेन समं पौनरुक्त्यं मा भूदिति विशेषपरतेति भावः। न चैवमनघत्वमित्यग्रिमग्रन्थविरोध इति वाच्यम् / तस्य पूर्वोक्तमनघत्वन्नार्थः, किन्तु दोषसामान्याभाव एव, तथा च श्लोकस्थानघशब्देन वाक्यदोषाभावे पूर्वार्द्धन चार्थदोषाभावे लब्धे भवति सामान्याभावलाभ इति तदर्थात् , अत एव तत्रोक्तमुपपादयन्निति न तूपपादयितुमिति / केचित्तु वाक्यपदं सम्पातायातं, कथं दोषसामान्याभावलाभ इत्यपेक्षायां विषयाशुधेरिति फक्किका। न चैवमपि शब्ददोषाभावालाभादयुक्तता, न्यायपदेन नीयत इति व्युत्पत्त्या बोधकमात्रपरेण तल्लाभादिति न पूर्वोत्तरग्रन्थविरोधशङ्केति वदन्ति / न्यायपदस्यानुमितिचरमकारणलिङ्गपरामर्षप्रयोजकशाब्दज्ञानजनकवाक्यपरतायां पौनरुक्तयमनघपदेन समं शब्दतोऽर्थतो वा स्यादत आह नीयत इति। तथा च योगार्थ एव न्यायपदेन विवक्षितो - मकरन्दः / - अनघत्वमपापत्वमत्राप्रकृतमित्यत आह / वाक्यदोषेति, वाक्येति स्वरूपनिर्वचनम् / तथाच दोषराहित्यमात्रमत्र विवक्षितम् / तत्र दोषो द्विविधो वाक्यस्य, अर्थगतो वाक्यगतश्च, तत्र पूर्वार्द्धइलोकेन आये निरस्तेऽपि अन्त्यस्य निरासो न लभ्यत इत्यर्थः / नन्वेवमर्थदोषनिबन्धनदोषविशेषाभावे लब्धेऽपि तत्सामान्याभावो न लब्धः, शब्ददोषात्मकविशेषाभावस्याप्रातत्वादित्यत आह / नीयत इति / तथाच बोधकत्वेन सोऽपि सूचित इति भावः / नचैवं - टिप्पणी। रहित इति। अघशब्दस्य दोषविशेषपरत्वे हेतुमाह। विषयेति / तथा च सामान्यपरत्वे पूर्वाढेन सममनघपदस्य पौनरुक्त्यं, पूर्वार्द्धस्य प्रयोजनशून्यतापि स्यादिति भावः / न्यायपदेनानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यस्य विवक्षणेऽयोग्यापार्थकनिराकाङ्क्षादिवाक्याच्छाब्दबोधाभावात् शब्दार्थदोषशून्यत्वलाभाद् विमईन इत्यन्तेनानघपदेन च पौनरुक्त्यं, ग्रन्थे न्यायेतरभागस्यानिवेशप्रसङ्गश्च स्यादित्यत आह / नीयते इति / तथा च स्वार्थस्मृत्युत्पादितमानसद्वारेण क्वचिद्विवक्षितार्थसिद्धिप्रापका यथोक्तशब्दा अपि भवन्तीति तयोरुपन्यास इति न पौनरुक्त्यम् , एवं समुदितग्रन्थस्यैव विवक्षितेश्वरानुमितिप्रापकतया न्यायपदा र्थता, तेन च तर्कपक्ष इत्याद्यग्रिमफक्किकाया अपि नासङ्गतिः / अन्यथा पञ्चावयववाक्यरूपस्य * तर्काप्रतिपादकत्वेन सा स्यात् / एवं यथोक्तन्यायस्य शब्दाप्रतिपादकत्वेन पदयुगस्य शब्दानुमानद्वयपरत्वे बाधितार्थत्वेन तत्र ग्रन्थविरोधलिखनमयुक्तं स्यादित्यपि प्रत्युक्तम् / यद्वा समस्तरूपेत्यादितात्पर्यविषये उचितानुपूर्वाकवाक्यपञ्चकसमुदाये न्यायपदार्थतायानीयत इत्यादिना योगार्थोऽपि प्रदर्शितः / न्यायस्य तर्कविषयत्वासम्भवमाकलय्यवान्वयीत्यादि व्याख्यान्तरानुसरणम् / अत्र न तु शब्देत्यादिग्रन्थस्त्वाचार्याणां शोचनीयतामासादयतीति विभाव्यम् / विवक्षितार्थसिद्धिप्रापकत्व (1) वाक्यजन्यशाब्दबोधविषयार्थस्य अशुद्धः दोषस्य बाधितत्वादेर्हेत्वाभासस्येति यावत् /