________________ [प्रथमः न्यायकुसुमाञ्जली सत्पक्षप्रसरः सतां परिमलपोहोधबद्धोत्सवो.. बोधनी। औदयने पथि गहने विदेशिकः प्रतिपदं स्खलति लोकः।। तस्य कृते कृतिरेषा कुसुमाञ्जलिबोधनी जयति // 3 // प्रारिप्सितप्रकरणव्युत्पाद्यस्य परमात्मविषयन्यायस्य प्रसिद्धसमाराधनसाधनप्रसूनाअलिसाधर्म्यप्रदर्शनेन पंञ्चरूपोपपत्तिसम्पत्तिलक्षणां विशुद्धिं निःश्रेयसात्मकं फलं च प्रतिपाद्य तथाविधन्यायव्युत्पादनेन परमात्मसमाराधनतया परिकल्पितेन परमात्मनिरूपणेन स्वारसिकश्रद्धायुक्तस्य स्वान्तःकरणस्याविहतश्रद्धावत्त्वमारिप्सितग्रन्थाविघ्नपरिसमाप्तिफलमाशास्ते-सत्पक्षप्रसर इति / सति प्रमाणसिद्धे प्रमाणाबाधिते च पक्षेसन्दिग्धसाध्यधर्मवति धर्मिणि प्रसरतीति सत्पक्षप्रसरः। तेनाश्रयासिद्धिकालात्ययापदेशसिद्धसाधनानां मूले निहितः कुठारः। सत्पतेप्रसरः प्रकर्षेण सरणं व्याप्त्या वृत्तिर्यस्येति भागतोऽपि स्वरूपासिद्धरुद्धारः / कुसुमाञ्जलिस्तु सन् शोभनः पक्षप्रसरः पत्रविकासो यस्येति स तथोक्तः / सतामन्वयव्यतिरेकविदामागमावगततत्त्वानां वा परिमलः परिशीलनं. भूयोदर्शनमिति यावत् , तज्जनितः प्रोद्बोधः भूयोदर्शने साहायकमाचरतानुकूलतर्केण निरस्तनिखिलोपाधिशङ्कव्याप्तिज्ञानं, तत्र बद्ध उत्सवोऽपेक्षायेन स तथोक्तः गृहीतव्याप्तिक इति यावत् / यद्वा तेन प्रोद्बोधेन स्वस्मिन् बद्धोत्सवः बद्धापेक्षः अनुमित्सतां गृहीतव्याप्तिकत्वादपेक्षणीय इत्यर्थः / अथवा सामान्यव्याप्तिमत्तया परिशीलनस्य प्रोद्बोधो विशेषेपर्यवसानं, तेन बद्धःस्थिरीकृतः उत्सवः पर प्रकाशः। अपि ज्ञानमयः स्थाणुर्यस्तमीशं स्तुवीमहि // 1 // यतः प्रकाशते ज्योतिरपि वाचामगोचरः / कायेन मनसा वाचा परां वाचं नमामि ताम् // 2. // न्यायाम्भोजपतङ्गाय मीमांसापारदृश्वने / गङ्गेश्वराय गुरवे पित्रेऽत्रभवते नमः // 3 // ___ सदाचारानुमितश्रुतिबोधितकर्त्तव्यताकं प्रारिप्सितप्रतिबन्धकविघ्नविघातकमिष्टदेवताकीर्तनरूपं सच्छब्दप्रयोगरूपञ्च मङ्गलमाचरन्नेव प्रयोजनाभिधेयसम्बन्धानाह / सत्पक्षेति एषोऽनघो= प्रकाशिका / दहन्नपि कामद इति विरोधद्योतनायापिः / ज्ञानमय इत्यभिव्याप्तौ मयट् , यथा जलमयो देश इत्यत्र, व्याप्तिश्च देशकालाभ्याम् , इदञ्चेशस्येश्वराभिन्नत्वपक्षे, अन्यथा शिवस्य संसारित्वेनानुपत्तेः। स्थाणुः शिवः, स्थाणुर्दारुविशेषोऽपि ज्ञानमय इति विरोधद्योतनायापिः, स्तुवीमहीति / मकरन्दः। प्रत्ययाद्वा / स्थाणुः=स्थिरः, अथ च स्थाणो रुविशेषस्य ज्ञानसम्बन्धो विरुद्ध इति विरोधाभासः / यद्यपि वृक्षादेरपि चेतनत्वं, तथापि दारुविशेषे न तथात्वम् / यद्वा ज्ञानमय इत्यभिव्याप्ती मयट् , भगवज्ज्ञानस्य व्याप्यवृत्तित्वादिति विरोधाभासः // टिप्पणी। दहन्नपीति / रोषतोषयोः समानकालिकयोस्तात्त्विक एव विरोधः काम्यकन्दर्पयोरेकशब्दप्रतिपायत्वेन तद्दाननाशकत्वयोरारोपितो विरोधः शतृप्रत्ययेन सहापिनाद्योत्येते, तेन च महिमातिशयो व्यज्यते। इदश्च विग्रहविशेषपक्षे। ईशस्येश्वराभिन्नत्वपक्षे त्वाह / अपीति / मयटोऽभिव्याप्त्यर्थकत्वम् , व्याप्तिर्देशकालाभ्याम् तथा च विग्रहविशेषपक्षे तदभाव इति भावः। अनघोवाक्यदोष