________________ मेघठक्कुररचितप्रकाशिका(जलद )युतेन रुचिदत्तोपाध्यायकृतमकरन्दोद्भासितेन झोपाख्यधर्मदत्तनिर्मित टिप्पण्यन्वितेन वर्धमानोपाध्यायकृत प्रकाशेन वरदाराजकृतबोधन्या च सहितः / महामहोपाध्यायश्रीमदुदयनाचार्यप्रणीतः न्यायकुसुमाञ्जलिः बोधनी। विशदयितुमर्थतत्त्वं विनिहन्तुं चान्तरीयसन्तमसम् / मम मनसि सन्निधत्ता नरहरिशबलाकृति ज्योतिः // 1 // विश्वं यो विदधात्यदृष्टसचिवः सत्सम्प्रदायो यतः प्रामाण्यं लभते श्रुतिर्गुणवतो वक्तुर्यतो नान्यतः / यस्मिन् बाधकशङ्कयापि विगतं-माता च मानं च यः .. सिद्धो यः श्रुतिनीतिसम्प्लवशतैस्तं मन्महे मानतः // 2 // प्रकाशः। भक्तानां कामदस्तुष्टो रुषा कामं दहन्नपि / प्रकाशिका। भासयद्भक्तजनताचेतःकमलकोरकान् / __ वन्दे सन्देहतिमिरविच्छेदमिहिरं महः // 1 // यः कैशोरे विश्वविख्यातकर्मा धर्माचार्यः श्रीमहादेवशर्मा। तत्सोदो वर्द्धमानस्य सूक्तौ भावं मेघः सम्यगाविष्करोति // कामद इति / कामः = काम्यं काम्यत इति व्युत्पत्त्या, अथ च कामः = कन्दर्पः, कामं मकरन्दः / भूतप्रभूतविकटध्वनिभीतिमत्या मानग्रहं मनसि धर्तुमपारयन्त्या। आलिङ्गितो गिरिजया चिरमस्मदादेरङ्गेषु मङ्गलमनङ्गरिपुर्दधातु // 1 // . कुसुमाञ्जलिमकरन्दः श्रीरुचिदत्तेन भण्यते कृतिना। स्तबकोपमईभाजां बुधमधुपानां विनोदाय // 2 // * कामं दहन्नपि कामद इति विरोधाभासः / कामः= काम्यम् , अर्शआदित्वात् कर्मणि टिप्पणी। श्रीगणेशाय नमः / भक्तानां कामद इति / काम्यत इति कामः, काम्यम् / कामं