________________ ( 10 ) सुप्रथितचिदुषो महायोगिनः श्रीविशुद्धानन्दसरस्वतीमहोदयस्य चरणचंचरीकतामंगीकृत्य पूर्वोत्तरमीमांसाहार्द विज्ञाय सुप्रौढपाण्डित्यं लेभे। पश्चान्मिथिलाप्रचलितां स्वगृहे एव चतुष्पाठीमुद्घाट्याध्यापनं चकारेति वदन्ति तत्रस्थाः। तत्रभवतोऽध्यापनचातुरीमाकर्ण्य देशान्तरस्थाश्छात्रगणा यन्निकटेऽधीत्य देशान्तरेऽपि यत्कीर्तिपताकां प्रकाशितवन्तः। कदाचिद्यत्पाण्डित्यसंतुष्टा द्वारिकापीठाध्यक्षाः शंकराचार्या अपि सादरमाहूय यत्समीपे शास्त्राध्ययनमकुर्वन्त / 'सूरत'इत्यत्रायोजितेऽखिलभारतीयपण्डितसमाजेऽपि प्रधानपदं येनालङ्कृतमभूत् / भृतकवृत्तिमपहृवानेनापि येन मिथिलाधीशश्रीरमेश्वरसिंहराज्ञामनुरोधेन धर्मसमाजसंस्कृतकालेजमुजफ्फरनगरप्रधानाचार्यपदमलंकृतम् / स चायं वैकमे 1978 वर्षे देवपुरातिथिबभूव बच्चामामहोदयः / अयं च कविताशक्तिप्रतिभया सुलोचनामाधवचंपूनामकं चंपूकाव्यमपि निर्ममे / एतत्कृतग्रंथाः 1. व्याप्तिपंचकटीका। . 2. अवच्छेदकत्वनिरुक्तिविवेचनम् / 3. व्युत्पत्तिवादगूढार्थतत्त्वालोकः / 4. सव्यभिचार टिप्पणम् / 5. खण्डनखाद्यटिप्पणम्।। 6. न्यायभाष्यटीका। 7. सिद्धान्तलक्षणविवेचनम् / 8. व्याप्त्यनुगमविवेचनम् / ... 9. शक्तिवादटिप्पणम् / 10. सत्प्रतिपक्षटिप्पणम् / 11. कुसुमांजलिप्रकाशटिप्पणम् / 12. अद्वैतसिद्धिचन्द्रिकाटिप्पणम् / सोऽयं कुसुमांजलिग्रन्थोऽद्य यावदप्रकाशिताभ्यां जलदापरपर्यायप्रकाशिकाटिप्पणीभ्यां सह महता श्रमेण यथामति संशोध्य विदुषामग्रे उपस्थापितः। अत्र च पंचमस्तबकान्ते प्रकाशिकायां मकरन्दे च पृष्ठे प्रदर्शितस्य वक्तरोति, आगन्तुकेति च प्रतीकद्वयस्य मुद्रितप्रकाशपुस्तकेऽदर्शनाल्लिखितादर्शप्रकाशपुस्तकप्राप्त्यर्थमस्माभिः प्रयत्नो विधे, किन्तु वाराणसेयसरस्वतीभवनाख्यराजकीयपुरतकालयेऽपि केवलमेकं चतुर्थस्तबकमात्रस्य पुस्तकं वर्तते न तु पूर्णमेकमपि। मकरन्दप्रकाशिकयोश्चादर्शपुस्तके वंगाक्षरे वरीवर्तेते, तयोरपि चोक्तप्रतीकद्वयमुपलभ्यतन्निर्धारितं यत्प्रकाशस्थोयमन्तिमो भागोऽवश्यं भ्रष्टो नोपलब्धः पूर्वप्रकाशकैरिति स्वयमूहनीयं नैयायिकप्रवरैः। निरीश्वरवादिमतोन्मूलनक्षमस्यैकमात्रस्यास्य महानिबन्धस्य संशोधनकार्य मादृशामल्पबुद्धीनां यद्यप्यडपेन सागरतितीर्षोरिवोपहासकरन्तथापि प्रातःस्मरणीयानां गुरुचरणानामसीमानुग्रहवलादेव यथाकथंचित्पूर्णतां गतमिति तदुपकृतीभूमिकालेख़ने ऐतिह्यसाहाय्यं ददतां वाराणसेयराजकीयसंस्कृतमहाविद्यालयप्रधानपुस्तकालयाध्यक्षाणां डॉ. सुभद्रमामहोदयानां चोपकारान् . यावज्जीवं न कदापि विस्मरिष्यामः / .. .... विदुषामनुचरः वाराणसेयागस्त्याश्रमवासी ... कार्तिकपूर्णिमा ... ... 2013 13 ) दुण्डिराजशास्त्री।