________________ पीयूषवर्षजयदेवापरनाम्नो पक्षधरमिश्रस्य प्रधानोऽन्तेवासी नव्यन्यायप्राचीनन्याययोस्तत्त्वज्ञस्तत्कालिकनैयायिकेष्वतीवप्रसिद्धनैयायिको बभूवेति / अत एवोक्तं तत्त्वचिन्तामणिप्रत्यक्षखण्डपुष्पिकायां अधीत्य रुचिदत्तेन जयदेवाज्जगद्गुरोः। चिन्तामणौ ग्रन्थमणौ प्रकाशोऽयं प्रकाश्यते // इति / . .. तथा 'श्रीदेवदत्ततनयो विनयोपगूढः श्रीरेणुकाविरलगर्भपुटोपजातः / 'श्रीशक्तिदत्तमतिदत्तसहोदरो यः सोऽमुं चकार रुचिदत्तकृती प्रकाशम् // इति श्रीसोदरपुर कुलसमुद्भूतमहामहोपाध्यायश्रीरुचिदत्तविरचिते तत्त्वचिन्तामणिप्रकाशे। अनेन न्यायकुसुमांजलिप्रकाशे मकरन्दव्याख्या, तत्त्वचिन्तामणिप्रकाशः, तपादः, तर्कसारश्च स्वतंत्रो व्यरचीति प्रसिद्धिः / एतत्समयविषये त्वनेक्रमतानि प्रतीयन्ते, तद्यथा सुरेन्द्रनाथगुप्तमहोदयमतेनायमीस्वीयत्रयोदशशताब्द्यां 1275 वर्षे बभूवेति / सार्धदशकोत्तरं त्रयोदशशताब्दिमध्येऽस्य स्थितिरासीदिति च तार्किकरक्षायां वाराणसेयभूतपूर्वराजकीयसंस्कृतमहाविद्यालयीयप्रधानाचार्या महामहिमशालिनो डॉ० वेनिसमहाशया दर्शयन्ति स्म / वस्तुतस्त्वनेकशाखाविस्तृतस्य नव्यन्यायशास्त्रस्य बीजाधानं विदधतः श्रीगङ्गेशोपाध्यायस्य शिष्येण पुत्रेण च प्रकाशकों द्वादशशताब्द्यां वर्तमानेन सुयोग्यस्तात्कालिको यज्ञपतिरध्यापितः / यज्ञपतिशिष्यश्च हरिमिश्रस्तस्य च पक्षधरमिश्रः / तेन च वासुदेव-रुचिदत्त-चन्द्रपतिरिति त्रयो. ऽन्तेवासिनः प्राधान्येन न्यायशास्त्रमध्याप्य भारतं वर्षं स्वनामकीर्तिपताकया समलङकृतमभूत् / तेषु रुचिदत्तमिश्रस्य शिष्यो महेशठक्कुरो महामहिम्नो अकबरनाम्नो यवनराजस्य समये ई० 1556 हायने शोडशशताब्यामेवाभूदतत्समय एव रुचिदत्तस्य स्थितिरासीदिति सिद्धान्तः। * अयं च सिद्धान्तो वेदैर्वाणयुतैः सशंभुनयनस्संख्यां गते हायने . श्रीमदौडमहीभुजो गुरुदिने मार्गे च पक्षेऽसिते। षष्ठ्यां ताममरावतीमधिवसन् या भूमिदेवालया। श्रीमत्पक्षधरः सुपुस्तकमिदं शुद्धं व्यलेखीद्रुतम् // इति च वचनेन 1451 A. D.-1465 A. D. समयस्थितिकस्य पक्षधरमिश्रस्य समयनिर्धारणेन परिपुष्टो भवतीति सुधीभिर्विभावनीयम् / टिप्पणीकारा धर्मदत्तापरपर्यायश्रीबच्चामांमहोदयास्तु मिथिलाप्रदेशान्तर्गतनवानीनाम्निग्राम 1917 वैक्रमाब्दे दरभंगाधीश्वरश्रीरुद्रसिंहमहाराजराजपण्डितानां रत्नपाणिझामहोदयानां तनुजन्मनो पं० दुर्गादत्तझानाम्नी विदुषः पुत्रः सुगृहीतनामधेयो धर्मदत्तनाम्ना बच्चामापरपर्यायेण प्रथितो बभूव / स च गृह एव प्रारंभिकमध्ययनं समाप्य ठाढीग्रामनिवासिनो विद्वन्मूर्धन्यस्य पं० विश्वनाथभाविदुषः समीपे किंचित्का लमध्ययनं कृत्वा तत्कालीनप्रसिद्धनैयायिकप्रवरस्य पं० ववजनमाविदुषः प्राधानान्तेवासित्वमवाप्य न्यायवैशेषिकशास्त्रे व्युत्पत्तिमावाप्तवान् / पश्चाद्वाराणस्यां