________________ 222 व्याख्यात्रयोपेतप्रकाशबांधनीयुते न्यायकुसुमाललो [1 कारिकाव्याख्याको प्रकाशः। तस्य निश्चितत्वेन तथापि व्यभिचारात् / उच्यते / अनभ्यासदशोत्पन्नज्ञानप्रामाण्य न स्वाश्रयग्राह्यं तदन्यप्राचं वा, स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् , प्रकाशिकाः। स्वेनेत्यर्थः / अतो न पक्षदृष्टान्तासिद्धी।न वाले दर्शितव्यभिचारविरोध इत्याहुः। अनभ्यासद. शोत्पन्नेति। इदं च भागासिद्धिवारणाय पक्षविशेषणम् हेत्वोरन्यतरोपलक्षणम् / न स्वाश्रयेति। न यावत्स्काश्रयग्राह्यमित्यर्थः, तेन योगिज्ञानादिप्राह्यत्वमादाय न बाधः, सर्वविशेष्यकत्वे सति सर्व प्रकारकस्वन्तु प्रामाण्यमपक्ष एवेति न निरुतसाध्येऽप्यंशतो वाधः। तदन्येति। यावत्स्वाश्रयप्रा. यत्वे सति स्वाश्रयातिरिकाप्राह्यत्वं साम्यम् / तेन यथाश्रुतेऽनुमितिमादाय सिद्धसाधनं मात्रपदप्रवेशे योगिज्ञानमादाय बाध इति दूषणं निरस्तम् / स्वाश्रयीभूतास्मदादिज्ञानव्यक्तयतिरिक्तमात्रप्रा. यत्वं साध्यम् / तेन नोकदोषावकाश इति कश्चित् / स्वाश्रये सत्यपीति / अपिशब्दो विपक्ष वाधकसूचनाय सतिसप्तमीमहिम्ना सामानाधिकरण्यं लभ्यते तेन स्वाश्रय प्रमानाधिकरणस्वाश्र मकरन्दः। शानस्वे व्यभिचारोपदर्शनपरं तदिति ज्ञानधर्मपरत्वेऽप्यदोष इत्यन्ये / मनभ्वासदशापन्नेति / कर्तव्यहेतुर्यावति तावत एव पक्षत्वमभिमतम् / अनभ्यासदशापन्नेऽपि सर्वत्र न संशय इति यथाश्रुते भागासिद्धितादवस्थ्यापत्तेरिति / न स्वाश्रयेति / न यावत्स्वाश्रयप्रायमित्यर्थः / तेन योगीश्वरज्ञानस्य सर्वप्रामाण्याश्रयतया तग्राह्यत्वेन न बाधः। यद्याप सर्वविषयकज्ञानमात्रवृत्तिप्रामाण्याशे बाधः / तथापि तस्य पक्षबहिर्भाव एवेति बोध्यम् / तदन्येति / स्वाश्रयान्येत्यर्थः / ननु परेषामपि प्रामाण्यस्यानुमिति. प्राह्मत्वाभ्युपगमेन सिद्धसाधनम् / न च स्वाध्यातिरिक्तमात्रग्राह्यत्वमित्यर्थः, उक्तन्यायेन प्रामा. ग्यमात्रस्यैव स्वाश्रयीभूतयोगीश्वरज्ञानादिग्राह्यतया बाधापत्तेरिति चेन्न / स्वाश्रयपदेन स्वाश्रय स्वावच्छिन्नं न विवक्षितं, येनोक्तदोषः स्यात् , किन्तु स्वाश्रयीभूतास्मदादिज्ञानव्यक्तिः, तदति. रिकमात्रग्राह्यमित्यर्थः। ___ स्वाश्रये सत्यपीति / विपक्षबाधकतर्कसुचनायापिशब्दः, सतिसप्तमीमहिम्ना च स्वाश्रयसामानाधिकरण्यं पक्षविशेषणं लभ्यते / तथा च स्वाश्रयसमानाधिकरणस्वाश्रयाधिकरणक्षणावधिकत टिप्पणी। निराशः प्रामाण्यस्याप्युक्तज्ञानत्वात् / तस्य निश्चितत्वेनेति। ज्ञानरूपार्थस्य प्रामाण्याश्रयस्वे नामिमतज्ञानज्ञानप्राह्यत्वेन निश्चितस्वेनेत्यर्थः। न स्वाश्रयग्राह्यमिति / भम्प्रति साधने च स्वाश्रयविषयकयावग्राह्यस्वाभावः साभ्यः। तेनं नेश्वज्ञानमादाय स्वमते बाधः, मीमांसकमात्रं प्रत्येव साधनीयत्वेन गुरुमते स्वाश्रययावग्राह्यत्वस्यैव सत्त्वेन न सिद्धसाधनम् विशिष्य स्वाश्रय विषयकज्ञानाजन्यज्ञानविषयत्वस्य विषयेऽपि सत्त्वादविरोधादित्यर्थः। तदन्यग्राह्यं वेति / मीमांसकसामान्यं प्रत्येव साधनस्य प्रस्तुतस्वेन प्राभाकरमते स्वाश्रयेणापि ग्रहणाद भट्टादिकम्प्रत्येव तथावे जन्यस्वाश्रयातिरिक्तमात्रप्राह्यस्वमित्यर्थः / नातो महादिमते स्वाश्रयातिरिकानुमित्यनुव्यवसायप्राह्यत्वेऽपि सिद्धसाधनम् / यद्वा भट्टादिमतेऽनुमित्यनुव्यवसाययोः स्वातन्त्रेणापि व्यवसायविषययावाहकरवेन तयोस्तदंशे व्यवसायसमानाकारकतया स्वाश्रयत्वेनैव सिद्धसाधनाभावान्मात्रपदन्न देयम् , स्वमते च प्रामाण्यानुमितिद् न व्यवसायसमानाकारिका व्यवसायविषयवहिमपर्वतादेराधेयतया विशेष्यत्वे प्रकारत्वात् पवतादौ बहपधिकरणत्वादेरेव वा प्रमावघटकरवादिति / संशयविषयत्वादिति / स्वाश्रय