________________ 220 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 1 कारिकाव्याख्यायां दोषनिवृत्तेरपि केवलायाः प्रामाण्यं प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुमिति। . एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात्. मप्रामाण्य बोधनी। केवलाया गुणनिवृत्तेप्रामाण्यहेतुत्वं लोके दृष्टं, न चापौरुषेये दोषः सम्भवति / तेन गुणनिवृत्ति. मात्रेण नाप्रामाण्यशङ्केति / दोषनिवृत्तरपि इति / गुणसहिताया एव दोषव्यावृत्तः प्रामा. एयहेतुत्वं लोके दृष्टमिति न दोषनिवृत्तिमात्रेणाप्रामाण्यशङ्का निवर्तत इति / ___ यच्च ज्ञानानां स्वरूपात्स्वग्राहकाद्वा प्रामाण्यं ज्ञायते नान्यस्माद् गुणसंवादादिज्ञानादिति स्वतःप्रामाण्यमुक्तंपरैस्तदपि निराकुर्वन्नुत्पत्तिवज ज्ञप्तिरपि परत इत्याह / एवम् इति। स्वविष प्रकाशः। श्रयेश्वरसिद्धिरित्युक्तम् / सम्प्रति प्रमात्वग्रहोऽपि न स्वतः, अपि तु परत इति वैदिकप्रमाया अपि तत्त्वमाप्तोक्तवाक्यजन्यत्वेन प्राह्यमिति ततोऽपीश्वरः सिद्धयतीत्याह___ एवमिति / अत्र यद्यपि ज्ञानप्रामाण्यं ज्ञानप्राहकसामग्रीग्राह्यं न वेति. न संशयः, परतः पक्षेऽपि ज्ञानस्यापि पक्षतया प्रमात्वानुमितेर्ज्ञानप्राहकत्वात् , अप्रामाण्यस्यापि स्वतो ग्राह्यत्वापत्तेश्च / तथापि तज्ज्ञान विषयकज्ञानाजन्यज्ञान ग्राह्यं न वेति संशयः। स्वतः पक्षे प्रामाण्यवत एव ज्ञानस्य ग्रहात् / परतः पक्षे ज्ञात एव ज्ञानेऽनुमित्या प्रामाण्यमहात् / तत्र तेनैव प्रामाण्यप्रह इति प्राभाकराः / ज्ञानस्यातीन्द्रियतया तदनुमित्या तद्ग्रह इति भाट्टाः / मनसैव ज्ञानस्व. रुपयत् तत्प्रामाण्यमह इति मुरारिमिश्राः / त्रितयसाधारणं च स्वतस्त्वं निरुक्तमेव / पूर्वपक्षस्तु, यद्यपि विशेष्यावृत्त्यप्रकारकत्वम् , अगृहीतग्राह्यत्वं वा, प्रभाकरपक्षे स्मृत्यन्य ज्ञानत्वं विशिष्टज्ञानत्वं वा प्रामाण्यं नानुव्यवसायग्राह्यम् ,, विशेषणज्ञानं विना विशिष्टज्ञानाभावात् / तथापि तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं प्राह्यम् , निष्कम्पप्रवृत्त्यात्वाल्लाघवाच्च / तच्च ज्ञानप्राहकसामग्रीप्राह्यमेव / तथा हि / विशेष्ये तद्धर्मवत्त्वं तत्प्रसारकत्वं च व्यवसायस्यानु. प्रकाशिका। मायां यथार्थयोग्यताज्ञानमेव गुणः सम्भवतीति न तदर्थ वक्तुरपेक्षा वेदे, तथापि विशेष्यवृत्तिवि. शेषणज्ञानं गुणः प्रमासामान्यप्रयोजक इत्यभावत्वप्रकारकप्रथमाभावप्रमायामीश्वरीयमभावत्वज्ञानं तदंशप्रमात्वनिष्यत्तये गुण इत्याशयेनेदमुक्तम् / सम्प्रतोति / तथा च प्रमायाः परतन्त्रत्वादिति.कारिकाया परतन्त्रत्वमुत्पत्तिज्ञप्त्योविवक्षितमिति ध्येयम् / तज्ज्ञानविषयकेति। पक्षश्च ज्ञानप्रामाण्यमित्यनुषज्यते। अनुव्यवसायेन गृह्यत इति / तज्ज्ञानविषयकसमानाधिकरणसमानकापापि यथार्थव दोषः, तादृशी च तत्र नास्त्येवेत्याहुः / वस्तुतो गुणविरह एव दोषः, स च तत्र नास्तीति / अत एव लिङ्गभासजन्यप्रमायामीश्वरयथार्थलिङ्गज्ञानजन्यत्वेऽप्ययथार्थलिङ्ग ज्ञानरूप. दोषजन्यतया व्यापकांश एव भ्रमत्वमपि स्यादित्यपास्तम् / एतदपि सम्प्रदायानुरोधादुक्तम् / वस्तुतोऽसङ्कीर्णबाधस्थले बाधानवतारकाले यथार्थपरामर्शादप्ययथार्थनुमित्युत्पत्तेरवाधितत्वप्रमा गुणः, तभ्रमो दोषः / शब्दे च वाक्यार्थभ्रमो दोषस्तत्प्रमा गुणः, योग्यताप्रमो दोषस्तत्प्रमा. गुण इति वा विवक्षित मिति सर्वेमवदातम् / / तज्ज्ञानविषयकेति / पक्षश्च ज्ञानप्रामाण्यमित्यनुषज्यते / प्रत्यक्ष प्रकाशे चैतदनुसन्धेयम् / टिप्पणी। तत्र तेनैवेति / ज्ञानस्यातीन्द्रियेति / ज्ञानत्वेन ज्ञाततास्वे सामान्यतो व्याप्तिज्ञानादेव तज्ज्ञानानुमितिरिति कारणीभूतज्ञाने तज्ज्ञानस्य विषयत्वान्न निरुक्तस्वतस्त्वानुपपत्तिरिति भाषः। व्यवसायस्यानुब्यवसायेनेति / ज्ञानविषयकज्ञानेनेत्यर्थः / तेन गुरुमतस्यापि मकरन्दः /