________________ द्वितीयस्तबके ] प्रामाण्यस्वतस्त्वखण्डनम् / 216 मानवत् सत्प्रतिसाधनोक मुचितमिति चेत् / न / गुणनिवृत्तिनिबन्धमायाः शकायाः सुलभत्वात् / तस्याः केवलाया भप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेद्, बोधनी। ततो नेदमपेतवतृदोषत्वं सप्रतिसाधनीकर्तुं युक्तमिति / न-इति। दोषाभावे तद्दोषनिबन्ध नाप्रामाण्यशद्वानिवृत्तावपि प्रामाण्यहेतुगुणनिवृत्तिनिवन्धनायास्तस्याः स्वस्थत्वात् / न हि स्वतः प्रामाण्य निश्चय इत्यने निवेदयिंच्याम इति भावः / तस्या-इति / न तावदोषसंसर्गमन्तरेण प्रकाशः। धूमभ्रमावह्निमत्येव वह्नयनुमितिर्वा कथं प्रमा, यथार्थलिझज्ञानाजन्यस्वात् / न च वह्नयन्तरमेव तद्विषयः / प्रत्यभिज्ञानात् / गोस्वाद्यकव्यक्तिके तदभावाच्च / उच्यते / शुकादिवाक्ये भ्रान्त. प्रतारकवाक्ये च प्रमाणशब्दत्वेनाप्तोत्तरवाद्वैदवदीश्वरस्यैव यथार्थवाक्यार्थज्ञानं गुणो हेतुः, तस्य कार्यमात्रकर्तृत्वात् / शुकादिवाक्ये वेदतुल्यतया दोषाभावादिनाऽपि मन्तव्यत्वात् / न चैवं शब्दाभासोच्छेदः, तस्यापोश्वरकर्तृकत्वादिति वाच्यम् / तद्वाक्यार्थस्यासत्त्वेनेश्वरज्ञानाविषयत्वात् / एवं लिमाभासजन्यप्रमायामपीश्वरस्यैव यथार्यलिङ्गज्ञानं गुणः। एवं प्रमाया गुणजन्यतया शान्दप्रमाया अपि गुणजन्यतया वेदे वक्त्रन्तरस्याभावात् तदा प्रकाशिका। तुल्यत्वात् / ईश्वरस्यैवेति / भ्रान्तप्रतारकवाक्य आहार्यसंसर्गज्ञानमेव यथार्थ गुणः सम्भवति तथापि शुकादिवाक्यसाधारण्यार्थमिदमेवोक्तम् / केचित्तु भ्रान्तप्रतारकस्येव वाक्यं भ्रान्तप्रतारक. वाक्यं तथा च भ्रान्त एवान्यस्मिन् वकव्ये यत्रान्यद् वदति तत्संवादिवाक्यमत्र तत्पदेनोक्तमिस्याहुः। न च भ्रान्तप्रतारकवाक्ये गुणसत्वेऽपि दोषसत्त्वात् कथं प्रमेति वाच्यम् / भ्रमस्य भिन्नविषयस्वात् / प्रतारणायाश्वो सदवस्तुप्रतिपादनेच्छायास्तत्राभावात् / एवं लिङ्गाभासेति / अत्रापि शुकादिवाक्यसाधारण्यार्थमीश्वरज्ञानानुसरणम् / वस्तुतः पक्षतावच्छेदकविरोधिसाम्यनिष्ठप्रकृतहेतुप्रतियोगिकव्यापकताविषयत्वमेव परामर्शप्रयोजकमिति कूटलिपरामर्श एव तत्र गुणः / मत एवायथार्थोक्तपरामर्षरूपदोषसत्त्वात कथं प्रमेति निरस्तम् / निरुक्तयया विरोधिन एवायाथार्थयाप्रमाप्रयोजकत्वात / प्रकृते च तदभावादितिदिक / शाब्दप्रमाया मपीति / यद्यपि शाब्दप्र. मकरन्दः। भ्रान्तप्रतारकवाक्य इति / अत्राहार्यारोपं विना प्रतारणाया अभावात् स एव विषयाबाधात् प्रमारूप इति तमादाय यद्यपि गुणजन्यत्वमप्रत्यूह तथापि समाधिसौकर्यादेतदुक्तम् / यद्वा, भ्रान्तप्रतारकस्येव वाक्यं भ्रान्तप्रकारकवाक्यं, तथा च बाधितमन्यदवगत्या. न्यदवाषितं यत्र दैववशाद् ब्रूते, तत्र भगवद्बुद्धगुणस्वमिति वयं पश्यामः। अत एवो. कगुणजन्यस्वेऽपि प्रमादिदोषजन्यस्वादप्रामाण्यमपि स्यादित्यपास्तम् / भ्रमस्य भिन्नविषयत्वेन तवाक्याजनकत्वात् , प्रतारणायाश्चाभावात् / केचित्त विप्रलिप्सा विसंवादिप्रवृत्तिजनकेच्छा, टिप्पणी। वह्नयन्तरमेव तद्विषय इति / धूमसंसग्येव वह्निधूमलिगकानुमितौ विषयः सप वह्निस्तत्र नास्त्येव यश्चास्ति स धूमसंसर्गिबहेविभिन्न एवेत्यर्थः / यद्यपि पहिरवेन गृहीतवह्निव्याप्तिकस्य लिङ्गस्य वहि सामान्यानुमिती सामर्थ्यम् तथा च तत्रत्यवतिभाने न क्षतिः / तथाप्येत्तदुरे सत्येव, यः पूर्व धूमसम्बन्धित्वेन गृहीतः, तस्यैव धूलिपटलेन धूमत्वेन गृहीतेनानुमितो भाने तद्वहेधूमसंम्बन्धिभिन्नत्वस्य प्रत्यभिज्ञानवाधितत्वादित्युत्तरं मौका थार्थमाह / प्रत्यभिज्ञानति / विशिष्टबुद्धौ विशेषणज्ञानस्य हि हेतुत्वमनभ्युपगम्येदम् /