________________ 218 व्याख्यानयोपेतप्रकाशबोधनीयुते न्वायकुसुमाजलौ [1 कारिकाम्याख्यायो धाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात, तथा प्रकृतेऽपि / तथापि वेदानामपौरुषेयत्वे सिद्ध,मपेतवक्तृदोषत्वादेव प्रामाण्यंसेत्स्यति,ततः सिद्धप्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एष हेतुरकारणं गुणा इति चेन्न / मपेतवक्तगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् / स्वत एव प्रामाण्यनिश्चयः, किन्तु शङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात्तस्य तदभावेऽभावात्, अतो नेदमनु बोधनी। प्रवृत्तिनिवृत्तप्रयत्नयोरित्यनेन संबन्धः, न त्वित्यस्य युज्यते इत्यनेन। विशेषाभावादिति / द्वेषानु विधायिनो निवृत्तिप्रयत्नादागानुविधायिनः प्रवृत्तिप्रयत्नस्यैतदनुविधायित्वे विशेषाभावादिति / न चात्र द्वेषाभाव एव प्रवृत्तेः कारणमिति युक्तम् , उपेक्षाज्ञानादपि प्रवृत्तिप्रसङ्गात् / तथा प्रकृते प्रामाण्यविषयेऽपि दोषगुणाभावाविनाभावेऽपि प्रामाण्याप्रामाण्ययोरन्यथासिदगुणदोषानुविधान. नियमात्त तुकत्वम् / न त्वप्रमा दोषहेतुका, प्रमा तु सत्यपि गुणानुविषाने दोषामावहेतुकेति. विभागो युक्त इति / ___ नन्वस्तु गुणानुविधान प्रामाण्यस्य तथापि न तद्धतुकत्वमित्याह-तथापि-इति / वेदानां प्रामाण्यमपौरुषेयत्वं च तावसिद्धं तेन दोषाभावमात्रेण प्रामाण्यं सेत्स्यतीति सिध्यत्येव ततो गुणाभावेऽपि दोषाभावादेव वेदे तत्प्रामाण्यं दृष्टमिति व्यभिचारादकारणं गुणाःसर्वत्र दोषाभावस्तु कारणमन्यभिचारादिति / न-इति / न तावदद्यापि वेदानामपौरुषेयत्वेन प्रामाण्यमिति सिद्धं येन तत्र गुणव्यभिचारो निर्दिश्येत / लोकाधीननिर्णयो हि वेदो लोके चाव्य. भिचाराद् गुणः प्रामाण्यहेतुरिति स्थितम्, तत्र यदि वेदस्यापौरुषेयत्वमाश्रित्य दोषाभावात् प्रामा. एयमुच्येत तदा गुणाभावादप्रामाण्यमपि वक्तुं शक्यत इति / स्वतः-इति / न तावद्वेदान प्रामाण्यमपेतदोषवत्तृत्वेनानुमीयते, स्वतो बोषजनकत्वेन निश्चिते प्रामाण्ये हेत्वन्तरादप्रामाण्यशङ्कायां तनिराकरणमात्रमप्रामाण्यकारणदोषाभावावधारणेन क्रियते। तदाहुः तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धौ प्रमाणता / अर्थान्यथात्वहेतूत्थदोषशानादषोयते / (श्लो० वा, ) इति / प्रकाशः। नन्वन्यत्र गुणस्य प्रमाहेतुत्वेऽपि वेदस्यापौरुषेयतया वक्तृगुणाभावाहोषाभावमात्रप्रयुक्तमेव प्रामाण्यमिति प्रामाण्ये गुणस्य व्यभिचाराद् न हेतुत्वं, किन्तु दोषाभावस्यैवेत्याह / तथा पीति। सिदिप्तिः / सिद्धेः निश्चिते। वेदाः प्रमाणम् , अपेतवक्तृदोषस्वादित्यनुमानादि त्यर्थः। अत्र वेदा न प्रमाणम् , अपेतवक्तृगुणत्वादिति सत्प्रतिपक्षमाह / अपेतेति / ज्ञानप्राहकादेव प्रमात्वं स्वीक्रियते, दोषाधीना तु शहा अपेतवक्तृदोषत्वादेव निरस्येत्याह / स्वत एवेति / तथापि गुणाभावहेतुकोऽप्रमाण्यसंशयस्तदवस्थ एवेत्याह / गुणनिवृत्तीति / तस्या इति / दोषसहितगुणनिवृत्तरेषाऽप्रमात्वहेतुत्वादित्यर्थः / दोषेति / गुणसहितदोषनिवृ. तेरेव प्रमात्वप्रयोजकत्वादित्यर्थः / ननु तथापि शुकादिवाक्यं भ्रान्तप्रतारकवाक्यं च संवादि कथं प्रमाणं, गुणाजन्यत्वात् / मकरन्दः। चेधादिकार्वोत्पत्त्यापत्तेः / न च तदा निवृत्तिरेवेति वाच्यम् , तदा तत्कारणद्वेषाभावेन तदभावातू द्वेषाभावश्च तत्कारणदुःखसाधनत्वज्ञानाभावादिति //