________________ द्वितीयस्तवके] . प्रामाण्यस्वतस्त्वखण्डनम् / .. . 217 स्त इति चेन्न / प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् / पौरुषेयविषये इयमस्तु. व्यवस्था, मपौरुषेये तु दोषनिवृत्त्येव प्रामाण्यमिति चेन्न / गुणनिवृत्त्याऽ. प्रामाण्यस्यापि सम्भवात् / तस्या अप्रामाण्य प्रति सामय नोपलब्धमिति चेत् / दोषनिवृत्तेः प्रामाण्यं प्रति व सामर्थ्यमुपलब्धम् ? / लोकवचसीति चेत् / तुल्यम् / तदप्रामाण्ये दोग एव कारणं, गुणनिवृत्तिस्त्ववर्जनीयसिखसन्निधिरिति चेत् / प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् / गुणानां दोत्सारणप्रयुक्तः सन्निधिरिति चेदु, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु / निःस्वभावत्वमेवमपौरु. षेयस्य वेदस्य स्यादिति चेत्, मात्मानमुपालभस्व / तस्माद्यथा द्वेषरागाभावाविनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषका रणकत्वं, न तु निवृत्तिप्रयत्नो द्वेषहेतुका, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुवि. बोधनो। स्थाह-पौरुषेय-इति / तदेतत्परिहरन् प्रसङ्गं तावदाह-गुणनिवृत्ति-इति / तत्समाधिमाशङ्कय साम्यापादनेन परिहरति-तस्था:-इति / यदि लोकवचसि दोषनिवृत्तेः प्रामाण्ये हेतुत्वमुपलब्धं तर्हि गुणनिवृत्तरप्रामाण्यहेतुत्वमपि तत्रैवोपलब्धमिति शङ्कोत्तराभ्यामाहलोक-इति / ननु तस्य लोकवचसोऽप्रामाण्ये दोषा एव कारणमनन्यथासिद्धान्वयव्यतिरेकत्वात्, गुणनिवृत्तिस्तु विरोधिदोषसंनिधाननान्तरीयकेत्याह-तदप्रामाण्य-इति / तर्हि प्रामाण्यकारणेषु गुणेषु सत्सु तद्विरोधिनी दोषाणां निवृत्तिरप्यवर्जनीयसंनिधिरिति स्यादित्याह-प्रामाण्यं प्रति-इति / यदि गुणानामन्यत्रोपक्षयेण प्रमायामहेतुत्वं तर्हि दोषाणामपि तथात्वे नाप्र. मायामहेतुत्वं भवेदिति शङ्कोत्तराभ्यामाह-गुणानाम्-इति / ननु प्रामाण्याप्रामाण्ययोरेवं वक्तृगुणदोषाधीनत्वे सति वक्तृविधुरस्य वेदस्योभयोरप्यभावेन प्रामाण्याप्रामाण्ययोरन्यतरस्व भावत्वमपि न स्यादित्याद-नि:स्वभावत्वम् इति / आत्मानम् इति / अपौरुषेयं वेद. मातिष्ठमानमिति शेषः, न तु गुणवद्वक्तत्वेन वेदस्य प्रामाण्यमीकुर्वतोऽस्मानिति भावः / उक्तमर्थ दृष्टान्तमुखेन विशदयन्नुपसंहरति-तस्मात्-इति / द्वेषरागाभावाविनाभावेऽपीत्यस्य - प्रकाशः। निःस्वभावत्वमिति / वेदे प्रमाणत्वाप्रमाणत्वप्रयोजकगुणदोषयोरभावादित्यर्थः / तस्मादिति। यथा प्रवृत्तौ द्वेषाभावहेतुकस्वे निवृत्तौ रागाभावहेतुकत्वे सत्यपि उपेक्षाज्ञानादपि प्रवृत्तिनिवृत्ती स्यातामिति रागद्वेषयोः प्रवृत्तिनिवृत्तिहेतुत्वमित्येकै काभावोऽन्यथासिद्धः, तथा प्रमाऽप्रमयोरपि गुणदोषौ, न तु दोषाभावगुणाभावावित्यर्थः / प्रकाशिका। प्रसङ्गेन पूरयित्वा व्याचष्टे / यथा प्रवृत्ताविति। न च तत्रोक्तातिप्रसङ्गातथास्तु प्रकृते तु न किश्चिदनिष्टमिति वाच्यम् / प्रकृतेऽपि सुषुप्तिदशायामेव प्रमाद्युत्पत्तिप्रसङ्गस्यानिष्टत्वात परामर्शा. देश्व सामान्यसामप्रीत्वे तद्विशेषस्यैव प्रमाहेतुत्वादियुक्तत्वात / रागद्वेषयोरिति / न च प्रवृत्यभाव एव निवृत्तिरिति नोक्तविभागसातिरिति वाच्यम् / परोल्यापत्तेः / न च सुषुप्तिदशायामप्येवं प्रबृत्तिसत्वे तत्कार्य चेष्टापतिरिति वाच्यम् / शरीरमनःसयोगाभावेनैव तद्विरहोपपत्तेः / न चैवं सुषुप्तिदशाया प्रवृत्तोऽयमिति व्यवहारप्रसन्न इति वाच्यम् / निवृत्तव्यवहारस्यापि तदाभावेन मकरन्दः / .. रागद्वेषयोरिति। अत्रेदं चिन्त्यम् / प्रवृत्तिविरह एव निवृत्तिरिति न प्रयमद्वैविध्यं, मानाभावात् / न च वैपरीत्यापत्तिः। सुषुप्तिदशायामपि निबृत्तिविरहस्य सत्त्वेन प्रवृत्तिसाम्य२८ म्या००