________________ 216 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [1 कारिकाव्याख्यायो एव शाब्दी प्रमेति चेन्न / भनुमानादौ लिङ्गविपर्यासादीनां भावानामपि दोषत्वे तदभावमात्रेण प्रमाऽनुत्पत्तः। अन्यत्र यथा तथाऽस्तु, शब्दे तु विप्रलिप्साद्यभावे वक्तगुणापेक्षा नास्तीति चेन्न / गुणाभावे तदप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् / अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेको बोधनी। न-इति / अनुमाने लिङ्गविषयविपर्यासविरुद्धत्वादीनां भावानां दोषत्वे सत्वेऽपीत्यपिशब्दो भिन्नक्रमः, अवधारणे वा / भावरूपदोषाभावमात्रेण लैङ्गिकज्ञानहेतोष्टसहचाराद् दृष्टव्यभिचारालिशायाप्तिलक्षणगुणाभावे प्रमानुत्पत्तेस्तवापीटत्वात् / न च व्याप्तिरप्यनुमितिज्ञानमात्रे हेतुर्न प्रमाया इति युक्तम् / व्याप्त्यभावेऽपि मैत्रीतनयत्वादेवानुमितिज्ञानोत्पत्तेः / अत्रादिशब्दाभ्यामपत्तिमनुपपद्यमानविपर्यासं च संगृह्णाति / अन्यत्र-इति। अनुमानादावतिरिक्तभावापेक्षाऽस्तु मावा, न हि नस्तत्र निर्भरः, शब्दे तु दोषाभावे सत्यपि न स्वतः प्रमोत्पत्तौ गुणापेक्षाऽस्तीति नः समाहित वेदप्रामाण्योपयोगादिति / तदेतदनिष्टप्रसङ्गमुद्भाव्य शङ्कितं, तत्समाधिमत्रापि समीकुर्वन् परिहरति-गुणाभाव इति तुल्यत्वादित्यन्तेन / तर्हि पौरुषेयवाक्ये गुणान्वयव्यतिरेकदर्शनात् तदधीनमस्तु प्रामाण्यम्, अपौरुषेये तु वेदे तदसंमवादोषाभावमात्राधीनं प्रामाण्यमङ्गीकर्तव्यभि. प्रकाशः। गुणो हेतुरित्याह / अनुमानादाविति / ननु यथार्थवाक्यार्यज्ञानादौ गुणे सत्यपि करणापा. टवाद् यत्रान्याभिधित्सिते अन्यद् ब्रूते तत्र वाक्यं न प्रमाणम् , दोषाभावस्य तु प्रमाहेतुत्वे करणापाटवान सोऽस्तीति तत्र न प्रामाण्यमुपपद्यते इति शङ्कते। अन्यत्रेति / वक्तृदोषे सत्यपि भ्रान्तविप्रलम्भकवाक्ये संवादात् प्रामाण्यदर्शनादोषोऽपि नाप्रामाण्यप्रयोजकः / तात्पर्यविषये स्वप्रामाण्यमेवेति प्रामाण्येऽपि . तुल्यमिति परिहरति / गुणाभाव इति / प्रकाशिका। तथा च दृष्टान्तार्थ तदुपपादनमिति भावः / न च लिङ्गादिज्ञानाभावदशायां सामान्यसामग्रोविरहादेव न प्रमेति वाच्यम् / एवं पति यत्र सामान्यमित्यादिन्यायेन यथार्थपरामर्शादेरेव प्रमाहे. तुरत्वे सिद्धेऽनुमित्यादिदृष्टान्तेन शाब्देऽपि गुणजन्यस्वमुपपादितमेवेति शङ्कवेयं तुच्छेत्यतस्तां दीपयति / ननु यथार्थेति / तात्पर्य्यविषये विति / यद्यपि न'भ्रान्तप्रतारकस्थले तात्पयविषयघटसत्ता प्रामाण्यं तथाप्यन्यथाबुद्धमन्यथा बोधयामीति यत्तत्र तात्पर्य्य तद्विषयोभूतबु. व्यंशेऽप्रामाण्यमस्त्येवेति भावः। प्रामाण्येऽपि तुल्यमिति। यद्यपि करणापाटवस्थले तात्पर्य विषये. न प्रामाण्यं तात्पर्यस्यैवाभावादिति न तौल्यार्थः। तथापि भ्रान्तप्रतारकस्थलेऽपि नाप्रमाजनकत्वं व. स्तुत इति / यथुपनीतभानस्थलेनैवपूर्वग्रन्थे मयाप्येवमुपगन्तव्यमिति तुल्यार्थः, वस्तुतः करणापा. प्वस्थले प्रकृतबाक्यार्थयथार्थज्ञानाभावादेवाप्रामाण्यं भ्रान्तप्रतारकवाक्यस्थले चाहार्यसंसर्गज्ञानस्यैव. यथार्थस्य सत्त्वात् प्रामाण्यमित्यभिसन्धिः / ननु युज्यता तथैव विभाग इत्युपेक्षाज्ञानादपि प्रवृत्ति मकरन्दः। तथापि यत्सामान्ये यत्सामान्यमिति न्यायोत् प्रमारूपानुमित्यादिविशेषे सत्यपरामर्शादिविशेषस्य हेतुस्वमिति भावः / तात्पर्यविषये विति। अघटे घटवत्त्वं तत्तात्पर्यविषयस्तत्र च प्रमा नो. त्पन्नवेत्यर्थः / प्रामाण्येऽपीति / यद्यपि तात्पर्यविषयीभूतेऽर्थे करणापाटवस्थलेऽपि प्रामाण्य. मेवेति न तौल्यार्थस्तत्र प्रामाण्याभावात् , तथापि प्रकृतवाक्यार्थगोचरयथार्थज्ञानलक्षणो गुणएव तत्र नास्तीति भावः /