________________ 215 द्वितीयस्तवके] प्रमारवतस्त्वखण्डनम् / स्यादेतत् / शब्दे तावद्विप्रलिप्सादयो भावा एव दोषाः, ततस्तभावे स्वत पोधनी। अस्स्वेव प्रत्यक्षे विशेषादर्शनादेरभावस्य दोषत्वं, न तु प्रमाणान्तर इत्याह-स्यादेतत् इति / शब्दे तावद्भावात्मकदोषाभावे सति स्वत एवातिरिक्तभावानपेक्षाज ज्ञानकारणादेव शन्दात्प्रमोत्पद्यत इति दृष्टम् / शब्दे तावदेवम् , अनुमानादावपि तथा द्रष्टव्यमिति तावच्छब्दस्यार्थः / प्रकाशः। मैवम् / प्रमामात्राहेतुत्वेऽपि संशयविपर्ययोत्तरप्रमायो तस्य हेतुत्वात् / तत्र विशेषाद. र्शनस्य दोषत्वेनान्यत्रापि तथात्वात् / पित्तायुत्कर्षस्यापि भूयोविशेषदर्शनप्रतिबन्धकत्वेनान्यथा. सिद्धत्वात् / ननु प्रत्यक्षप्रमादौ गुणजन्यत्वेऽपि वेदे भ्रमावभावचतुष्टयं प्रमाहेतुः / लोके भ्रमायभाव एव प्रमोत्पत्तेः / न तु वक्तृवाक्यार्थयथार्थज्ञानवत्त्वादिर्गुण इत्याह___ स्यादेतदिति / लिङ्ग सादृश्यादिभ्रमरूपदोषाभावमात्रानानुमित्यादिः प्रमेति लिङ्गसाहश्यादियथार्थज्ञानमपि गुणस्तद्धेतुरिति शाब्दप्रमायामपि दोषाभावे सति यथार्थवाक्यार्थज्ञानं प्रकाशिका / संशयविपर्ययोतरप्रमायामिति / विशेषादर्शनप्रयोज्यसंशयविपर्ययोत्तरप्रमायामित्यर्थः / तेन नान्धकारकालीनधटसंशयोत्तरप्रत्यक्षे मालोकसमाधानमात्रजन्ये व्यभिचारः। ननु संशयोत्तरं यत्र न प्रत्यक्षं तत्र संशयायनुत्तरप्रत्यक्षसामग्रीसत्त्वे तत्प्रत्यक्षमेव कुतो न जायते तदसत्व तत एव न प्रत्यक्षमिति न विशेषदर्शनं कारणम् कार्यव्यतिरेकप्रयोजकव्यतिरेकाप्रतियोगित्वादिति चेत्। न। तदनुत्तरकालीनप्रत्यक्ष प्रति तदनुत्तरकालीनस्य कारणतया तदभावादेव तादृशप्रत्यक्षसा. मग्रीविरहात् / न च विशिधाभाव एव विशेषादर्शनविशिष्टप्राह्यसंशयाभावरूपः कारणमस्तु न तु विशेषदर्शनं कारणम् / अत एव न सिद्धयुत्तरानुमित्तौ सिषाधयिषाविशेषसामप्रीति वाच्यम् / विशेषदर्शनोत्तरजायमानप्रत्यक्षस्य विशेषविषयत्वनियमेन तत्र विशेषणज्ञानतया विशेषदर्शनस्य जनकत्वे विशेषरूपेणापि तस्यैव कारणता कल्प्यते तद्धर्मिणः कारणस्वकल्पनात् / अत एव निश्चयोत्तरसंशयं प्रति प्रामाण्यसंशयः कारणं कोटिज्ञानत्वेन तत्र तस्य कारणतावश्यकत्वात् , सिषाधयिषा तु न केनापि रूपेणानुमिति प्रति कारणत्वेन क्लुप्तेति न तत् प्रतिबन्दिरिति दिक् / ननु निहेतुके मूलेऽभिधानं स्वत इति न युक्तमात्माश्रयादतो व्याचष्टे / ननु प्रत्यक्षप्रमादाविति / शाब्दप्रमायां गुणकारणत्वापेक्षायामनुमितिप्रमादौ तदुपपादनमान्तरमत आह / लिङ्गेति / मकरन्दः। संशयविपर्ययोत्तरेति / यद्यपि संशयोत्तरप्रत्यक्षमा विशेषदर्शनं न हेतुः, अन्धकारे घटसंशयोत्तरप्रत्यक्षस्य तद्विनाऽप्यालोकसमवधानमात्रेणैवोपपत्तेः / तथापि यत्र विशेषादर्शनादि दोषाधीनः संशयस्तदुत्तरप्रत्यक्षे तस्य हेतुत्वम् / उक्तस्थले च व्यजकाभावाधीनः स इति भावः / ननु तत्रापि विशेषदर्शनं न हेतुः, संशयानुत्तरप्रत्यक्षसामग्रीसत्त्वे तदुत्पत्त्यापत्तेः / तदसत्त्वे तय तिरेकादेव तद्यतिरेक इति किं विशेषसामग्यन्तरकल्पनयो ? / अत एव सिद्ध्युत्तरानुमितिस्वावच्छिन्ने सिषाधयिषा न विशेषसामग्री, किन्तु तद्विरहविशिष्टसि व्यभावः सामान्यसामग्री। तद भावादेव तदा नानुमितिरिति चेत् / तर्हि तद्वदेव विशेषदर्शनविरहविशिष्टसंशयाभावः सामान्य. मामप्रीत्यत्रैव तात्पर्यमित्याहुः / विस्तरस्त्वनुमानप्रत्यक्षप्रकाशयोरनुसन्धेयः / लिङ्गसादृश्येति / यद्यपि परामर्शादिरूपसामान्यसामग्रीविरहादेव तत्र नानुमित्यादिः,