________________ 214 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [1 कारिकाव्याख्यायो नियमेन दोषैर्भावरूपैरेव भवितव्यम्, न त्वेवम् / विशेषादर्शनादेरभावस्यापि दोषत्वात् / कथमन्यथा ततः संशयविपर्ययो / ततस्तदभावो भाव एवेति कथं स नेष्यते / बोधनी। दपि-इति / भावात्मनोऽधिकस्यानङ्गीकारो भवेदपोति / कथमन्यथा-इति / विशेषादर्शनस्यादोषत्वे कथं ततो विशेषादर्शनादप्रमात्मको संशयविपर्ययौ स्यातामिति वककोटरादेः शुक्तिकात्वस्य विशेषस्यादर्शने हि तयोरुत्पत्तिरिति / सन्तु तह्य भावा अपि दोषाः ततः किमित्य. त्राह-तत:-इति / अभावात्मनो दोषस्याभावो भव एवेति / कथं स भावः प्रमाहेतुर्नेष्यत इति / प्रकाशः। हि भ्रमविरोधि तदभावोऽप्रमाहेतुः / प्रत्यक्षभ्रमे च प्रत्यक्षविशेषदर्शनं विरोधि दिमोहादौ गौरोऽहमिति भ्रमे च तथा दर्शनात् / तच्च दोषात् तत्र नास्ति, प्रमारूपमेव च विशेषदर्शनं गुण इति तदभाव एव दोषः। ननु विशेषादर्शनं न दोषः, किन्तु विशेषदर्शनप्रतिवन्धकाः पित्तादयो दोषाः, आवश्यकस्वात् / न च तेषां नानात्वेन विशेषदर्शनप्रतिबन्धकतयाऽनुगमे लाघवाद्विशेषादर्शनमेव हेतुरिति वाच्यम् / क्वचित् कश्चिद्दोष इत्यनुगमात् / अन्यथा पित्तादितोऽप्यप्रमा न स्यात् , अननुग. 'मात् / पित्तायुत्कर्षेण भ्रमोत्कषोच्च / पित्तादेरदोषत्वे च विशेषप्रमेव कुतो न भवति / यदि च विशेषस्य विशेषान्तरादर्शनात् , तदाऽनवस्था। किञ्च, विशेषदर्शनं न प्रमामात्रे, न वा प्रत्यक्ष. प्रमायां हेतुः, व्यभिचारात् / तत्रैव तद्धेतुत्वेनानवस्थानाच / प्रकाशिका। प्रमावशरीरत्वेन तस्य नार्थवससम्पन्नतेतिबोध्यम् / प्रत्यक्षविशेषदर्शनमिति। प्रत्यक्षविपरीतदर्थनमित्यर्थः / केचित्तु विशेषपदेनात्र व्याप्यविशेषोऽप्युक्तः स च प्रतिबन्धरूपफलोग्नेयः, प्रतिबन्धकाननुगमस्तुन दोषाय / मत एव शो प्रत्यक्षे सतिं श्वैत्ये न पीतत्वारोपः, कालपृष्ठत्वप्रत्यक्ष पति शुक्तौ न रजतत्वारोप इत्याहुः। क्वचित् कश्चिदिति / विशेषस्याप्यन गतत्वेन स्वयाप्युक्तगतेरेवानुसरणीयत्वादिति भावः / भन्यथेति / यद्यपि विशेषादर्शनमेव दोष इति वादिनोऽष्टापत्तिः, तथापि विशेषाप्रमापि पित्तादित एवेत्यभिप्रायेणेदम् / अत एवाग्रे भावाविष्करणं पित्तादेरदोष. स्वे चेति / भ्रमोत्कर्ष इति / उत्कर्षश्चात्र बहुकालावच्छिन्नसजातीयधारानुवृत्तिलक्षणः / विषयकभ्रमजनकत्वञ्च दोषस्वमिति तदुभयं निर्वाच्यम् / एवञ्च तत्तत्प्रमादौ यथार्थपरामर्शत्वादिना हेतुत्वप्रहानन्तरं प्रमासामान्य प्रत्युत्तगुणत्वेन कारणत्वग्रहः। एवं दोषत्वेनापीत्याहुः / बिस्तरस्तु प्रत्यक्षप्रकाशे / प्रत्यक्षविशेषदर्शनमिति / प्रत्यक्षविपरीतदर्शनमित्यर्थः / टिप्पणी। क्वचित् कश्चिद् दोष इति / क्वचिद् भ्रमविशेषजातीये कश्चिद् दोषजातीयः कारणमेतावदेवानुगमस्यैष्टत्वात् / तवापि विशेषदर्शनस्य व्याप्यव्यापकभेदेने करूपतायाः सर्वत्रासम्भवादित्यर्थः / भप्रमा न स्यादिति / विशेषप्रमा न स्यात् , तत्र विशेषादर्शनस्यानवस्थाभयेनाहेतुत्व स्यानुपदं वक्ष्यमाणत्वात् / एतेन विशेषादर्शनहेतुतामते पित्तादेरहेतुत्वादिधापत्तिरिति शङ्का निरस्ता। उक्तपित्तादेहेतुत्वं व्यवस्थापयति / पित्ताधुत्कर्षेणेति / यस्योत्कर्षेण यस्योत्कर्षः, तत् तत्कारणम् , अकारणोरकषस्य प्रयोजकत्वेऽतिप्रसादिति भावः। पित्तादभ्रमकारणत्वसाधकमनिष्टप्रसङ्गमाह / पित्तादेरदोषत्वे चेत्यादि / दोषो हि प्रमाप्रतिबन्धको भ्रतजनकश्च, स चेद् विशेषदर्शनाभावस्तदानवस्थेत्याह / यदीत्यादि / मकरन्दः।