________________ 213 द्वितीयस्तवके ] प्रमास्वतस्त्वखण्डनम् / मावत् / यदि च तावन्मात्राधीना भवेदप्रमापि प्रमैव. भवेत् / मस्ति हि तत्र ज्ञानहेतुः। अन्यथा शानपि सा न स्यात् / सानत्वेऽप्यतिरिक्तदोषानुप्रवेशाद. प्रमेति चेत् / एवं तहिं दोषाभावमधिकमासाद्य प्रमापि जायेत नियमेन तदपेक्ष. णात् / अस्तु दोषाभावोऽधिको, भावस्तु नेष्यते इति चेत् / भवेदप्येवं, यदि बोधनी। बाधकं तकमाह-यदि-इति / तावन्मात्राधीना-ज्ञानसामान्यहेतुमात्राधीनेति / कुत इत्यत आह-अस्ति हीति / यदि तत्र ज्ञानहेतुर्न स्यात् तदा कारणाभावेन कार्य ज्ञानमपि न स्यादि. त्याह-अन्यथा-इति / ज्ञानत्वेऽपि-इति ज्ञानत्वाभ्युपगमेन तद्धत्वम्युपगमं सूचयतिएवं तहि-इति / यदि दोषान्वयादप्रमा स्यात् तर्हि तद्विरोधिनी प्रमा दोषाभावादेव भवेदित्यधिक हेतुरङ्गीकृतः स्यादिति। प्रस्तु-इति। एवमनित्यस्यापि वेदस्य प्रामाण्यं सिद्धयतीति भावः। भवे प्रकाशः। यदोति / यद्यप्यप्रमायां प्रमावापादने प्रमावृत्ति ज्ञानमात्रहेस्वधीनत्वं व्यधिकरणम् , तथापि प्रमात्वं यदि ज्ञानसामग्रीमात्र प्रयोज्यवृत्ति स्याद् अप्रमावृत्ति स्याद् अप्रमात्ववदित्यापादनीयम् / अप्रमायाः प्रमित्यजनकदोषजन्यवादापादकमसिद्धमित्याह / ज्ञानत्वेऽपोति / तर्हि प्रमात्वमपि न ज्ञानमात्रसामग्रीप्रयोज्यम् , अतिरिक्तदोषाभावापेक्षणादित्याह / एवन्तीति / युक्तच.. तत् / अन्यथा प्रमासामन्यामधिकदोषानुप्रवेशादप्रमाऽपि प्रमाविशेषः स्यात् , वृक्षसामन्यामधिककारणानुप्रवेशारिछशपा वृक्षविशेष इवेति भावः / अस्त्विति / न चैवमप्रमित्यजनकज. न्यत्वे परतस्त्वमिति वाच्यम् / भागन्तुकभावानपेक्षज्ञानसामग्रीजन्यत्वमेव स्वतस्त्वमिति विवक्षितत्वात् / तथा च गुणाजन्यत्वेन प्रमाया नेश्वरसिद्धिः। भवेदप्येवमिति / ननु पीतः शल इत्यत्र विशेषदर्शनेऽपि भ्रमाद्यभिचारेण न विशेषादर्शनं भ्रमहेतुः, यत्र वा विशेषदर्शनमपि भ्रमस्तत्र तज्जन्यज्ञानस्यापि भ्रमत्वान्न विशेषदर्शनं प्रमात्वप्रयोजकम् / मैवम् / यद्विशेषदर्शनं प्रकाशिका / इति वाच्यम् / तत्तत्साक्षात्कारे तत्तदवयवानामनुगतस्वाभावाद् यथार्थपरामर्षादेरपि तत्तद्विष. याननुगमेनाननुगतत्वात् / एतेन विशेष्यवृत्तिविशेषणज्ञानमेव प्रमामात्रेऽनुगतो गुणो प्राह्यः, यथार्थज्ञानं वेत्यनित्यप्रमात्वमेव पक्ष इत्यपास्तम् / विषयाननुगमेनाननुगतत्वात् / तथापि घटप्रमायाँ घटवृत्तिविंशेषणज्ञानं घटाग्रमायां घटावृत्तिविशेषणज्ञानं जनकमिति तत्तस्प्रमात्वत. तदप्रमास्वयोरेव पक्षदृष्टान्तत्वे / एवं विशेषयोः कार्यकारणभावग्रहे शाब्दप्रमायामपि विशेषत एव कार्यकारणभावग्रहे तदनुरोधादेवेश्वरसिद्धिरित्यत्र तात्पर्य्यम् / यद्यपि घटविशेष्यकत्वे सति पटत्व प्रकारकत्वमित्येव घटप्रमात्वमित्यर्थवशसम्पन्नमेतदुभयमिति न विशिष्टनियामकगुणसिद्धिः, न वा घटप्रमात्वं जन्यतावच्छेदक नीलघटत्ववदिति / तथापि समूहालम्बनव्यावृत्तय एकावच्छिन्नापरस्यैव मकरन्दः। प्रमात्वावच्छिन्ने कथमनुगतहेतुसिद्धिरिति चेन्न। अनित्यप्रमात्वपदेनानित्यसाक्षात्कारिप्रमात्वादे. रेव विवक्षितत्वात् / तत्र च भूयोऽवयवेन्द्रियसनिकर्षायनुगतहेतुसत्त्वादित्येके / शाब्दप्रमायो प्राह्यविशेषस्य वाक्यार्थस्य प्रमा हेतुरिति प्रमासामान्य प्राह्यप्रमासामान्यमीश्वरस्यैव गुणः / यद्विशेषयोरिति न्यायात् / न च प्राह्यमात्रस्यातिप्रसक्ततया यत्र यद् प्राह्यं तत्र तत्पमा हेतुर्वाच्यः / तथा च तद्ग्राह्यप्रमायां 'तद्ग्राह्यप्रमा हेतुरित्यननुगम एवेति वाच्यम् / एवं तत्साक्षात्कारे तदि. न्द्रिय सन्निकर्षों हेतुरिति विशेषेऽप्यननुगमापत्तेः। यदि च विशेषे विशेषस्य प्रयोजकत्वेऽपि सामान्ययोरपि तथात्वं, तदा प्रकृतेऽपि तुल्यमित्यन्ये / स्वाविषयकप्रमाजनकत्वम् गुणत्वम् / स्वा