________________ 212 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाअलौ [ 1 कारिकाव्याख्याया. प्रकाशः। प्रमावस्य नित्यानित्यवृत्तित्वात् / अनित्यप्रमात्वं कार्यतावच्छेदक कार्यमात्रवृत्तिधर्मत्वात् , अप्र. मात्ववदित्यपि नीलघटस्वादिनाऽनैकान्तिकम् / तत्र विशेषद्वयकारणेनान्यथासिद्धत्वात् / प्रमा. ऽप्रमाकार्यवैचित्र्यं च, यथैकजातीयसामग्रीव्यक्तिभेदाद् घटद्वयं जायते तद्वदेव ज्ञानसामग्रीव्यक्तिभेदादुपपन्नम् / वैजात्यमपि तुल्यजातीयसामग्रीजन्यत्वेऽपि यमजवैधय॑वत् स्यात् / न च प्रमात्वावच्छिन्नकार्यत्वं कथमननुगतहेतुकमिति वाच्यम् / उक्तयुक्त्या तस्य कार्यतानवच्छेदकत्वात् / अनित्यप्रमा प्रमाऽप्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वादप्रमावदिति चेन्न / कारणव्यक्तिभेदजन्यत्वेन सिद्धसाधनाद् , भप्रमायो तदसिद्धेश्च / न चाप्रमायो दोषजन्यत्वात्तथा / दोषस्य पित्तादेः स्वविषयप्रमायामपि हेतुत्वात् / भनित्यप्रमा स्वविरोध्यनुभवप्रतिबन्धकजन्या अनित्यानुभवत्वात् , अप्रमावत् / यता, अनित्यप्रमा प्रमाऽप्रमान्यतरप्रतिबन्धकजन्या प्रमाऽप्रमान्यतरत्वादप्रमावदिति चेद् ,न। प्रमाजनकासाधारणव्यक्तिविशेषस्याऽप्रमाप्रतिबन्धकरवं प्रमाजनकत्वं चेति सिद्धसाधनात् / अत्रास्मपितृचरणाः / एवमप्रमाऽपि स्वत एव स्याद् , न परतः, प्रमावदसाधारणकारणादेव तदुत्पत्तौ दोषस्य तत्राहेतुत्वापत्तेः / यदि च ज्ञानसामग्या सत्या विशेषादर्शनादेदोषस्यान्वयाद्यनुविधानाद्दोषो हेतुः, तर्हि विशेषदर्शनादेर्गणस्यान्वयाद्यनुविधानात् प्रमायामपि गुणो हेतुरिति तुल्यम् / अपि च, यत्कार्य यस्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यं, यथा घटविजातीयः पटः, अन्यथा कार्य जात्य स्याकस्मिकत्वापत्तेः। घटज्ञानमपि कार्य तद्विजातीयकार्यकारणविजातीयकारणअन्यमिति न व्यभिचारः / एवं प्रागुक्तानुमानेष्वपि न सिद्धसाधनम् / अनुगतस्थ प्रमाहेतुत्वेनासाधारणव्यक्तिभेदस्याहेतुत्वात् / एवमनित्यप्रमात्वमनित्यज्ञानत्वावच्छि नकार्यत्वप्रतियोगिककारणताभिन्न कारणताप्रतियोगिककार्यतावच्छेदकम् , अनित्यज्ञानत्वव्याप्यकार्यतावच्छेदकधर्मत्वाद् , अप्रमात्ववदित्यनित्यप्रमायामप्रमासाधारणहेतुव्यावृत्तानुगतहेतुसिद्धिः / प्रकाशिका। तवाभिमतं तदा ज्ञानपदमनुभवपरमिति स्मर्त्तव्यम् / प्रमावस्येति / स्वन्मत इति शेषः तथा च वाध इति भावः / इदं च दूषणं ज्ञानपदस्यानित्यज्ञानपरत्वे, यथाश्रुते ज्ञानत्वस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वेन साध्याप्रसिद्धिरेव दूषणम् पूर्वहेतोरत्र पक्षेऽसम्भवादन हेत्वन्तरमाह / कार्य मात्रति / वैजात्यं वैचित्र्यम् / दोषस्य=पित्तोदेरिति / वस्तुतोऽप्रमाया उभयरूपतया न तादृशहेतुजन्यत्वमिति भावः / अप्रमाप्रतिबन्धकत्वमिति / अनेनानुमानेन सिद्धस्यैव प्रतिबन्धकत्वं विषयीक्रियतामित्यर्थान्तरमिति भावः। घटज्ञानमिति / घटविषयकानित्यज्ञानमित्यर्थः। न च तत्रानुगतकारणासम्भवः / अनुगतभोगजनकादृष्टमत्त्वात् न प्रकृतेऽपि तेनैवार्थान्तरं दृष्टस्यैव. सम्भवात् उक्तव्याप्तिबलेन प्रमात्वस्य कार्यतावच्छेदकरवे सिद्धे विशेषप्रकारकप्रतीत्यर्थमाह / एवमनित्यप्रमात्वमिति / अनित्यज्ञानत्वे व्यभिचार इत्यनित्यज्ञानत्वव्याप्येति / व्याप्यत्वञ्च भेदमात्रम् / अन्यवैयर्थ्यादिति ध्येयम् / अनुगतहेतुसिद्धिरिति / यद्यपि प्रमामात्रेऽनुगतगुणोऽसम्भवी, एवमप्रमायामनुगतो दोषोऽसम्भवीति बाघदृष्टान्तासि. व्यादिः, न चानित्य साक्षात्कारिप्रमात्वमेव पक्षः, तत्तदप्रमात्वमेव दृष्टान्त इति वाच्यम् / तत्रा. प्यनुगतस्य हेतोरभावाद् बाधतादवस्थ्यात् / न च भूयोऽवयवेन्द्रिय सन्निकर्षादिरेवानुगतो गुण इत्यपास्तम् / प्रमावस्येति / त्वन्मते इति शेषः / घटज्ञानमिति। घटविषयकानित्यज्ञानमित्यर्थः / न च तदवच्छिन्न कार्यनिरूपितकारणा. सम्भवः / अनुगतभोजकादृष्टस्य सत्त्वात् / न चैवं प्रकृतानुमाने तेनैवार्थान्तरं, दृष्टस्यैव सम्भवादित्याहुः। अनुगतहेतुसिद्धिरिति / ननु गुणत्वस्यानुगतस्य निर्वक्तुमशक्वत्वादनित्य मकरन्दः।