________________ द्वितीयस्तषके ] प्रमास्वतस्त्वखण्डनम् / 211 __ तथा हि / प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना, कार्यत्वे सति तद्विशेषत्वात् मप्र बोधनी। प्रमापारतन्त्र्यं तावदनुमानेनोपपादयति-तथाहि इति। प्रमात्वं नामोपाधिकसामान्यविशेषः / तस्य नित्यत्वेनानुत्पाद्यत्वात् , तदाश्रयो यथार्थानुभवलक्षणो ज्ञानविशेषः प्रमाशब्देन पक्षीक्रियते। शप्तिपक्षे च विरोधात् प्रामाण्यशब्देन प्रमाणत्वमेव पक्षीकरिष्यते, सेयं प्रमाप्रमासाधारणशानसामान्यहेत्वधीना भवति, कार्यत्वे सति ज्ञानविशेषत्वादप्रमावदिति / व्याप्तिद्वयमत्राभिसंहित-यो यत्कार्यविशेषः स तत्सामान्यहेस्वतिरिक्तहेवधीनः, यथा कलमाङ्कुरः, न ह्याकुरविशेषः कलमाकुरोऽकु. रसामान्यहेतो/जादेव भवति किन्तु तद्विशेषात् कलमबीजात्, कार्यविशेषश्चयंप्रमा तस्मात् तथेत्येका सामान्यव्याप्तिः / अपरा च-यो ज्ञानविशेषः स ज्ञानसामान्यातिरिक्तहेतुको यथाऽप्रमेति विशेषव्याप्तिरिति / ज्ञानं नाम ज्ञानस्वाभिव्यजिका विषयप्रवणा व्यक्तिः, तद्विशेषत्वमनुभवादीनामिति / अत्र द्रव्यविशेषस्याकाशादेः, ज्ञानविशेषस्य चेश्वरप्रमाया नित्यत्वाद्धवपेक्षैव नास्ति, दूरेत त्सामन्यातिरिक्तहेत्वधीनत्वम् / ततश्च तद्विशेषत्वमनेकान्तिक मा भूदिरयुक्त-कार्यत्वे सति-इति / पक्षीकृतस्यापि कार्यस्वेन विशेषणान्नेश्वरप्रमोशे बाधादयः प्रादुष्यन्ति / अनुमानस्य विपक्षे प्रकाशः। प्रामाण्यस्य गुणजन्यत्वं साधयति / प्रमेति / हेत्वधीनत्वे ज्ञानहेत्वधीनत्वे च साध्ये सिद्ध. पाधनं स्यात् , अतो ज्ञानहेत्वतिरिक्तहेत्वधीनेति साध्यम् / ननु प्रमाया ज्ञानत्वेन तद्धतुजन्यत्वेन बाधः, ज्ञानाजनकजन्यस्वे विरोधः / अप्रमायां तदसिद्धेदृष्टान्तासिद्धिः, व्यर्थविशेष्यत्वं च, घटा. दावपि साध्यसत्त्वेन कार्यस्वस्यैव व्याप्तिमत्त्वात् / व्यर्थविशेषणत्वं च, व्यावत्यैश्वरज्ञानस्य परं प्रत्यसिद्धः / नापि ज्ञानसामान्यहेत्वन्यहेतुजन्येति साम्यम् , उक्तदोषात् / ज्ञानसामान्यं च ज्ञानत्वं वा सर्वज्ञानव्यक्तयो वा ? आद्ये हेत्वसिद्धिः। अन्त्य इन्द्रियादिभिः सिद्धसाधनम् / नापि ज्ञानत्वावच्छिन्नकार्यत्वान्यकार्यत्वप्रतियोगिककारणजन्येति साध्यम् / ज्ञानत्वस्य नित्या. नित्यवृत्तितया कार्यत्वानवच्छेदकत्वात् / जन्यत्वेन ज्ञान विशेषणे प्रत्यक्षायात्मकज्ञानविशेषजनकैरिन्द्रियादिमिः सिद्धसाधनम् / अत एव, प्रमात्वं ज्ञानत्वावच्छिन्न कार्यत्वनिरूपितकारणताभिन्नकारणताप्रतियोगिककार्यतावच्छेदक, ज्ञानस्वसाक्षाद्व्याप्यधर्मत्वात् , अप्रमात्ववदिति निरस्तम् / प्रकाशिका / शानाजनकेति / ज्ञानाजनकत्वं च पारिमाण्डल्यादौ प्रसिद्धम् / मिश्रास्तु विरोधः = प्रतिज्ञावि. रोधः, तथा च ज्ञानहेस्वजन्यत्वे बाधः प्रागुक्तः, इदानीन्तु साध्याप्रसिद्धया प्रतिज्ञाया विरोधे वाक्यार्थाधाजनकत्वं. पारिमाण्डल्यादेरप्यभावसाक्षात्कार प्रति प्रत्यासत्तिघटकतया जनकस्पेन ज्ञानाजनकत्वाप्रसिद्धरिति विकल्प्य योजयन्ति / हेत्वसिद्धेरिति / ज्ञानस्वकारणाप्रसिद्धरित्यर्थः / तथा च सायाप्रसिद्धिरिति भावः / नित्यानित्येति / अनित्यपदमत्र सम्पातायातम् / एवम. न्यत्रापीदृशस्थले। छानस्वसाक्षादिति / ज्ञानत्वसाक्षाद्विभाजकधर्मत्वादिस्यर्थः / विद्या चाविद्या चेति प्रथमं विभागादेतस्योपपत्तिः, यदि च प्रमात्वं चाप्रमात्वञ्चानुभवत्वव्याप्यमेव मकरन्दः / साभ्यार्थविवरणपूर्वकं विरोधमपि हेत्वाभासमाह / शानाजनकेति / एतेन बाधविरोधयोरु. भयत्रापि सत्त्वाद्विकल्प्य विरोधाभिधानमसातमित्यपास्तम् , एकत्रैव साम्ये दोषद्वयस्योकत्वात् / हेत्वसिद्धिरिति / ज्ञानत्वहेत्वप्रसिद्धिरित्यर्थः / तथा च तद्धटितसाध्यस्याप्रसिद्धिरिति भावः / शानत्वसाक्षादिति / ज्ञानसाक्षाद्विभाजकोपाधिस्वादित्यर्थः / एतेन, ज्ञानत्वव्याप्यज्ञानान्यान्यत्वव्याप्यत्वेन प्रमात्वस्यासिद्धिः / तस्याप्यजास्यव्याप्यस्वगर्भस्वे प्रमाऽप्रमाऽन्यतरवादी व्यभिचार