________________ 210 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [1 कारिकाव्याख्यामा ननु नित्यनिदोषवेदवारको योगकर्मसिद्धसर्वशद्वारको वा धर्मसम्प्रदायः स्यात् , किं परमेश्वरकल्पनयेति चेत् / अत्रोच्यते प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् // तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः // 1 // बोधनी। मत्रान्यथासिद्धिं मीमांसकः शकते / नन्विति / नित्यत्वेन पुरुषानुप्रवेशाभावात् निर्दोष स्वतः सिद्धप्रामाण्यं च वेदमेव मूलमवलम्ब्यायं धर्मसंप्रदायोऽस्तु, तनित्यत्वासिद्धावपि सांख्यादिमतावलम्बनेन कर्मयोगसिद्धसाक्षात्कारविषयीकृतधर्माधर्माः कपिलादय एव सन्तु मूलमस्य, किमनेन परमेश्वरेणानपेक्षितसमुद्रवालुकाकीटसंख्वादिसर्वविषयज्ञानेनेति तदुत्तरत्वेन परिच्छेदप्रतिपाद्यमर्थ संकलथ्याह-उच्यते प्रमायो-इति / न तावत् स्वतः प्रामाण्यं, प्रमायाः कारणगुणतन्त्रत्वात् / न च वेदस्य नित्यत्वं शब्दस्यैवानित्यत्वात् / परतन्त्रपुरुषपरतन्त्रतया प्रवाहाविच्छेदलक्षणं नित्यस्वमस्तीति चेत्तदपि नास्ति सर्गप्रलययोः सम्भवेन प्रवाहस्यैव परिच्छेदात् / न च कपिलादिद्वारा सम्प्रदायसिद्धिः, ततः परमेश्वरादन्यस्मिन् कपिलादौ प्रमाणत्वेन विश्रम्भाभावात् / न हि योगबलप्रभाविता भावना प्रमात्मकमेव साक्षात्कारं करोतीति नियमः, ततो नित्यसर्वशसिद्धिरिति // 1 // प्रकाशः। अत्रासिद्धिमाह / नन्विति / वक्तृदोषेणाप्रामाण्यशड्या निष्कम्पप्रवृत्तिनं स्यात् / सा च नित्यत्वादवक्तके वेदे नास्तीति तत एव प्रामाण्यं किं वक्तृगुणेनेत्यर्थः / वक्तृगुणजन्यत्वेऽप्यन्यथासिद्धिमाह / योगेति / योगकर्मभ्यां ये सिद्धाः सर्वज्ञास्त एव वेदकाय अदृष्टाधिष्ठातारश्चेति. न नित्यसर्वज्ञसिद्धिरित्यर्थः / यद्यप्यन्यथासिद्धिरपि प्रमाणाभाव एव पर्यवस्यति, तथापि साक्षात् प्रमाणाभावोऽग्रे दूष्यः, अन्यबासिद्धिद्वारा स्वत्रेत्यर्थभेदः / प्रमामात्रे गुणजन्यत्वसिद्धौ शान्दप्रमायामपि तज्जन्यत्वसिद्धिर्भविष्यतीत्याशयेनाह / प्रमा. या इति / अनित्यप्रमाया इत्यर्थः / ननु नित्यत्वाद् वेदाना, कर्तृजन्यत्वेऽपि महाजनपरिप्रहात् प्रामाण्यं निश्चित्य यागादौ प्रवृत्तिर्भविष्यतीत्यत आह / सर्गेति / तथा च वेदमहाजनयोरभा. वात् केन कस्य परिग्रह इति भावः। द्वितीयामन्यथासिद्धिं निरस्यति / तदन्यस्मिन्निति / भनित्यज्ञानवत्त्वेन भ्रमादिशाकलङ्कितत्वेन नित्यसर्वज्ञपूर्वकस्वाद न प्रकारान्तरसम्भव इत्यर्थः / प्रकाशिका। प्रामाण्यमेव तस्य न स्यादित्यवश्यमुपदेष्टुरपेक्षेति भावः। अत्रेति / प्रमायो गुणजन्यत्वमेव न, दोषाभावेनैवान्यथासिद्धरित्यर्थः / वक्तृगुणजन्यत्वेऽपीत्युपलक्षणमहाधिष्ठानेऽपीति द्रष्टव्यम् / पर्यवस्यतीति / तथा च द्वितीयपष्चमयोराभेद इति भावः / अग्रे पञ्चमस्तवके / अन्यथा. सिद्धिद्वारा यः प्रामाण्याभावः सोऽत्र दूष्योऽन्यथासिद्धिनिराकरणेनेत्यर्थः / ननु नित्यत्वादिति / नित्यस्वे प्रमाणसिद्धे दोषाभावादेव प्रामाण्यं महाजनपरिग्रहेण निश्वेय मिति भावः। तथा चेति / नित्यवश्व न प्रामाणिकमिति भावः / माध्यस्यार्थानुवादपुरःसरं विरोधमपि हेत्वाभासमाह / मकरन्दः। अप्रे-पश्चमस्तवके / अन्यथासिद्धिद्वारा तनिराकरणद्वारेत्यर्थः /