________________ श्रीगणेशाय नमः॥ न्यायकुसुमाञ्जली द्वितीयस्तबकः। तदेवं सामान्यतः सिद्धेऽलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम् / न च तच्छक्यमस्मदादिभिद्रष्टुम् / नचादृष्टेन व्यवहारः / ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते / बोधनी। अथ द्वितीयं परिच्छेदमारभमाणस्तनिराकरणीयामाशङ्कामुत्थापयितुं यथा साधितपूर्वेणापूर्वेपेश्वरसिद्धिस्तद्दर्शयति-तदेवम्-इति / तदिति वाक्योपक्रमे, एवमित्युक्तप्रकारपरामर्शः, सामान्यतः सामान्यतो दृष्टेन पूर्वोत्तानुमानेन / अलौकिके हेतौ अदृष्टे सिद्धे कार्यस्वात्तस्य साधनेन ज्योतिष्टोमादिनाऽवश्यं भवितव्यम् / न च तत्साधनमस्मदादिभिः पिशितलोचनैः शक्यदर्शनम् / न च तथाज्ञदृष्टेन तेनानुष्ठानरूपो व्यवहारः सम्भवति / तस्मादतीन्द्रियार्थसाक्षात्कारकक्षमः सर्वातिशायी कश्चिदस्ति यदुपज्ञोऽयमर्वाचीनानो तद्विषयो व्यवहार इति / ' प्रकाशः। द्वितीयो विप्रतिपत्तिमुत्थापयितुं भूमिकामारचयति / तदेवमिति। तस्य च जन्यतया तत्कारणयागादिदी कश्चित् स्वीकर्तव्य इत्यर्थः / न चेति / यागादिस्वर्गसाधनत्वस्याती न्द्रियवादित्यर्थः। तद्दयभावे दोषमाह / न चेति / व्यवहारश्च यागादिस्वर्गसाधनताबोधक. शन्दरूपः, अदृष्टाधिष्ठानरूपश्च / तदुभयमदृष्टसाक्षात्कारं विना न सम्भवतीत्यस्मदादिविलक्षणः सर्वज्ञः कल्प्यत इत्यर्थः। वेदवाक्यजज्ञानस्य हि प्रामाण्यमनिश्चित्य बहुधनव्ययाऽऽयाससाध्ये मागादौ प्रवृत्तिनं स्यात् / प्रामाण्यं च गुणजन्य, गुणश्च शाब्दे ज्ञाने प्रयोगहेतुवाक्यार्थयथार्थज्ञानवत्त्वमिति भावः। प्रकाशिका। .. तस्य चेति / यागादिजन्यतया तस्य तस्कारणत्वे यागादिदर्शी कश्चित् स्वीकरणीय इत्यर्थः / शब्दरूप इति। शब्दप्रयोगस्यापि व्यवहारविशेषत्वादिति भावः। अदृष्टाधिष्ठानेति / कारणस्याचेतनस्य चेतनाधिष्ठान विना कार्याजनकत्वादिति भावः। दुभयमपीति / यद्यपि स्वर्गकामो यजेतेत्यादिशब्दप्रयोगे नादृष्टज्ञानापेक्षा, एतद्वाक्यार्थस्यादृष्टाघटितत्वात् / तथापि स्वर्गसाधनत प्रतीत्य तादृशवाक्यप्रयोगः, स्वर्गसाधनताप्रतीतिचाहद्वारवाऽऽशुविनाशियागादेरिति भगवतोऽदृष्टसाक्षात्कार आवश्यकः, ज्ञानान्तरस्य तत्रासंभवादिति भावः / ननु यागादेः स्वर्गसाधनताबोधकोऽनादिरेव वेद इति कथमुपदेष्टुरपेक्षेत्याशायाह / वेदवाक्यजशानेति / तथा चानादित्वे मकरन्दः। तस्य चेति / तस्य जन्यतया तत्कारणं यागादिः स्वीकर्तव्यः, ततः स्वर्गसाधनत्वेन तदुपदेशकतथा तथात्वेन तद्दी कश्चित् स्वीकर्तव्य इत्यर्थः / तदुभयमिति / यद्यपि तद्विना. ऽपि तादृशरूपो व्यवहारः सम्भवत्येव, तथाऽप्यतीन्द्रियसाक्षात्कारं विनेत्यर्थ इत्येके / तदीय. स्वर्गसाधनतासाक्षात्कारोऽदृष्टविषयतानियत इत्याशयेन तथोक्तमित्यन्ये / ज्ञानान्तरस्यासम्भवात् साक्षात्कार विनेत्युक्तम् / उत्तरप्रन्यमवतारयितुमाह / वेदवाक्यजेति / 27 न्या००