________________ 208 व्याख्यानयोपेतप्रकाशबाधनोयुते न्यायकुसुमाअलौ [ 20 कारिकाव्याख्याय। इत्येषा सहकारिशक्तिरसमा माया दुरुनीतितो मूलत्वात् प्रकृतिः प्रबोधभयतोवियेति यस्योदिता // देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहला साक्षात्साक्षितया मनस्यभिरति बन्नातु शान्तोमम॥२०॥ इति श्रीन्यायकुसुमाअलौ प्रथमः स्तबकः // 1 // . बोधनी। दयन्नुत्तरोत्तरं समीचीनतरन्यायपरिस्फूर्तये स्वचेतसि भगवतः सान्निध्यं प्रार्थयते-इत्येषाइति। इति एवमुपपादितैषा असमा प्रत्यात्मसमवेतत्वेनासाधारणीविचित्रा धर्माधर्माख्या शक्ति या. यिकदेवस्य सहकारिशक्तिरिति व्युत्पादिता / जीवादृष्टसापेक्षो भगवान जगन्ति निर्मिमीत इति तेषा च स्थितिः / माध्यमिकैस्तु दुरुन्नीतितः स्वरूपसामर्थ्यादेवमियमित्युन्नेतुमशक्यत्वाद् इन्द्रजाला. दिमायासादृश्यान्मायेति / सांख्यैस्तु मुलकारणत्वात्प्रकृतिरिति, ते हि प्रकरोति प्रपञ्चमिति प्रकृ. तिशब्द निराहुः / वेदान्तवादिनस्तु प्रबोधात्तत्वसाक्षात्काराद्विभेति तिरोधत्ते इत्यविद्येति / यथा हि मिथ्याज्ञानं तत्त्वज्ञानेन विनश्यति तथा धर्माधर्मावप्युत्पन्नतत्त्वज्ञानस्य भोगद्वारेण विलीयतें, ततस्तयोरेवाविद्यात्वादविद्यामात्रविलसितः प्रपञ्च इति तेषामाघोषः। एवं तत्तत्प्रवृत्तिनिमित्तवशेन मायादिशब्दरुदिता यस्य सहकारिशक्तिरसौ देवो गुणतयाधिष्ठानमतीत्यावस्थित एवोपरतजगन्निमाणादिव्यापारः सोऽस्मदीयं समस्तव्यापारं साक्षात् कुर्वन्मम चेतसि संनिधत्तामिति // 20 // उदयनगम्भीरभावप्रकटननिपुणेन वरदराजेन / व्याख्यात एव गहनः कुसुमाञ्जले: प्रथमखण्डः // इति श्रीमद्रामदेवमिश्रसूनोर्वरदराजस्य कृतौ न्यायकुसुमाञ्जलिटीकायो प्रथमः परिच्छेदः // प्रकाशः योपाधेः साण्याव्यापकत्वात् // 19 // साधनमात्रसमर्थनेऽपि प्राधान्याददृष्टं स्तबकार्यमुपसंहरन् मायिकायागमाविरोधमाहइत्येषेति / प्रथम इतिशब्द उपसंहारे / यस्य देवस्य एषा अदृष्टरूपा सहकारिशक्तिः सहकारि. कारणम् असमा मायेत्युदिता / “यन्मायाप्रभवं विश्वमित्यत्र मायाशब्देनादृष्टस्याभिधानात् / असमरवे हेतु:-दुरुन्नीतितः। अदृष्टमाययोमहाविचारोन्नेयत्वात् / "प्रकृतिप्रभवं विश्वामित्यत्राप्यागमेऽदृष्टरूपा शक्तिरेव प्रकृतिरुदिता / कुतः / मूलत्वात् / मूलकारणमेव प्रकृतिश. ब्दार्थः / अष्टश्च तथा / अविद्याप्रभवत्वागमे सेवावियेत्युदिता। यतः ,प्रबोधात तत्त्वज्ञानादुभः योरपि भीतिः। अविद्यावत्तजनकादृष्टस्यापि ततो भयात् / तत्त्वज्ञाने तदनुत्पत्तेः // प्रपः = प्रतारणा, तद्रचनायाः कल्लोल:=परम्परा, तस्य कोलाहला=किंवदन्ती स विरतो यस्य, स शान्तोद्वेषादिहीनो मम मनसि / अभिरति विजातीयज्ञानानन्तरितचिन्ता स्वविषयाम् / साक्षात् साक्षितया तत्र प्रत्यक्षेण साक्षीभवन् / बध्नातु-दृढीकरोत्वित्यर्थः // 20 // इति श्रीमहामहोपाध्यायश्रीवर्द्धमानविरचिते न्यायकुसुमाजलिप्रकाशे प्रथमः स्तवकः // 1 // प्रकाशिका। शातिपरिहाराय मात्रेति / तथा च चेष्टादावेव साधनाव्यापकत्वमिति भावः // 19-20 // इति श्रीभगीरथविरचितायो कुसुमाजलिप्रकाशिकायो प्रथमः स्तवकः // 1 // णाय-मात्रेति / तथा च चेष्टादावेव साधनाव्यापकत्वमिति भावः / न च मात्रपदं विनापी. श्वरज्ञानादिरूपव्यधिकरणगुणजन्यशब्दजशन्दे साधनाव्याप्तिरिति वाच्यम् / मूर्त्तवृत्तिस्वस्य कार्यविशेषणस्य प्रागेवोत्तत्वात् / अन्यथा तत्रैव व्यभिचारापत्तेरिति // 20 // इति श्रीमहामहोपाग्यायदेवदत्तात्मजमहामहोपाध्यायश्रीरुचिदत्तकृतौ कुसुमाजलिमकरन्दे प्रथमः स्तबकः // 1 //