________________ प्रथमस्तवके ] विभुनः कारणत्वसमर्थनम् / . 207 बोधनी। “एवं भगवतः परमेश्वरस्य विचित्रविश्वप्रसङ्गेन प्रपञ्चरचनायो सहकारिकारणं तदुपज्ञसंप्रदायक च धर्माधर्माख्यमलौकिकं हेतुं प्रसाध्य परिच्छेदार्थमुपसंहरनयमेव, भगवतः सहकारिशक्तिनियमेऽपि च तत्तद्वादिभिः तत्तत्प्रवृत्तिनिगित्तयोगेन मायादिशन्दैर्जगत्कारणत्वेनाभिलप्यत इति प्रतिपा प्रकाशः। अन्योन्याभावरूपव्यतिरेक एव प्रयोजको, न तु संसर्गाभावग्रहः / निमित्तसाधारणत्वात् / यत् कपालं तत्र घटो, यन्न कपालं तत्र नेतिवद् य आत्मा तत्र ज्ञानादि, यन्नात्मा तत्र तद् नेति तदग्रहस्य सत्त्वात् / तथापि घटादिकं प्रति आत्मनो निमिसकारणत्वग्रहः कुतः। तत्रोक्तगत्यभावात् / इत्थं, प्रयत्नवदात्मसंयोगश्चेष्टाद्वारा घटहेतुरिति प्रयत्नवदात्माऽपि तद्धतः / न चेवमपि संयोगो हेतु त्मेति वाच्यम् / संयोगमात्रस्याहेतुत्वेन संयोगिविशेषितस्यैव हेतु. स्वात् / अन्यथा दण्डसंयोगस्यैव पटहेतुत्वेन दण्डस्यातत्त्वप्रसङ्गात् / अथात्मसंयोगोऽपि हेतुरसिद्धः / तदभावन कार्याभावादर्शनादिति चेन्न। व्यधिकरणगुणजन्यकार्यत्वेन तत्समानाधिकर. णगुणजन्यत्वानुमानात् / स्पर्शवद्वेगवद्व्याभिषातजक्रियायो तथादर्शनात् / न च मूर्तमा. असमवेतासमवायिकारणकत्वमुपाधिः / कार्यकारणभावेन हेतोः साम्यव्याप्यतया तदव्यापकत. प्रकाशिका। वायिकारणताप्राहकत्वमिति वाच्यम् / तथा पति समवायित्वस्य प्रथमत एव प्रहे कार. णतामात्रमेव सिद्धमिति , सिद्धं नः समीहितमिति वदन्ति / तत्तुच्छम् / एवमपि अधि. करणस्य समवायिनः तद्भिन्नस्य वा कारणतान्योन्याभावात्मकन्यतिरेकग्राह्येत्यत्र वाधकानुपन्यासात् / एवञ्च समवायिकारणताग्रह इत्युपळक्षणमधिकरणनिष्ठकारणताग्रह इति द्रष्ट. व्यम् / अत एव कालादेरप्येवमेव कारणताग्रहो न तु संसर्गाभावग्रह इत्यात्मादावसम्भवादिति शेषः / नन्वेवं संसर्गाभावः क्वापि न कारणताप्राहको नेत्याह / निमित्तसाधारणत्वा. दिति / निमित्तासमवायिसाधारणत्वात् / संसर्गाभावस्येति शेषः। तथापीति / यद्यप्यदृष्टा धारत्वमात्मनः प्रकृतं तच्च समवायिकारणत्व सिद्धयेव बोधितम तथापि शिष्यहितैषितया विचारोऽयम् / नन्वेवं संयोगिनोऽवच्छेदकत्वमस्त्वित्यत आह / अन्यथेति / यद्यपि संयोग्यवच्छेदकत्ववादिनोऽष्टापत्तिः। तथापि कारणसंयोगाश्रयस्यावश्यं कार्यजनकत्वमिति नियमाभिप्रायेणेदम् / व्यधिकरणगुणेति / प्रयत्वस्यान्वयव्यतिरेकाभ्यां चेष्टाकारणत्वे सिद्धे यः स्पन्दो यदीयव्यधिकरणगुणजन्यः स तस्संयोगजन्य इति व्याप्तथाऽऽत्मसंयोगस्य स्पन्दजनक. स्वमित्यर्थः / फलगुरुत्वजन्योत्पतने व्यभिचार इति स्वव्यधिकरणेति / षटजन्यतरस्पन्दे व्यभि. चार इति गुणेति / कपालरूपजन्ये घटरूपे व्यभिचार इति कार्यपदस्य स्पन्दपरत्वम् / ईश्वरसंयोगस्यापि घटादिकर्मजनकत्वमिति नेश्वरज्ञानादिजन्यघटादिकर्मणि व्यभिचारः / न च फलकान्तरवृत्तिद्रव्यगुरुत्वजन्यायो फलकान्तरवर्तिद्रव्योर्ध्व क्रियायां व्यभिचार इति वाच्यम् / गुरुत्वाधारद्रव्यफलकर्सयोगस्यापि तुलादण्डपटितसम्बन्धेन तस्क्रियाजनकत्वात् विपक्षवाधकश्चात्र कारणप्रत्यासत्तः कारणत्वावश्यकत्वमेवाप्रत्यासन्नजनकत्वेऽतिप्रसङ्ग एवेति / न चेति / साधन मकरन्दः। तथास्वं न स्यात् / तस्यापि देशकालरूपाधिकरणात्मकनिमित्तसाधारणत्वात् / न च यत् कपाल तत्र समवायसम्बन्धेन घटः, यन्न कपालं न तत्र समवायेन घट इति विवक्षितमिति वाच्यम् / तर्हि समवायित्वं प्रथमत एव ग्राह्यमिति कारणत्वमात्रमेव तद्ग्राह्यमिति सिद्ध नः समीहि तम् / सम्बन्धान्तरगर्भस्य च तस्य देशादिकारणत्वग्राहकत्वं कल्प्येत / तथापि विशिष्टं न प्राचं, किन्तु समवायिनः कारणत्वम् / एवमपि प्रायमित्यत्र पूर्वकल्प एव वा तात्पर्यम् / __ नन्वेवं संयोगिनोऽवच्छेदकत्वमेवास्त्वित्यत आह-अन्यथेति / यद्यपि संयोगावच्छेदक. स्ववादिनस्तुल्यमिदं, तथापि कारणसंयोगाश्रयस्यावश्यं कारणत्वमिति नियमाभ्युपगमावधम्भेने. दम् / ब्यधिकरणगुणेति / एतच्च प्रागेव व्याख्यातप्रायम् / न चेति / साधनव्यातिवार