________________ 206 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 19 कारिकाव्याख्यायो पेक्षणीयः स्यात् / तथा च सामान्यतो देशसिद्धावितरपृथिव्यादिवाधे तदतिरितसिद्धि को वारयेत् / एवमसमवायिनिमित्ते चाहनीये // 16 // बोधनी। कार्येण, स एव नः समवायिकारणमिति / नन्वस्तु तावता समवायिनः सिद्धिः किमायातमात्मसिद्धरित्याह-तथा च-इति / सामान्यतस्तावत्कश्चिद्देशो भवतैवाभ्युपगतः, तत्र ज्ञानादयः पृथिव्यायष्टद्रव्याश्रया न भवन्ति मानसप्रत्यक्षत्वात् , य उक्तसाध्या न भवन्ति न त उक्तसाधना यथा रूपादयः पृथिव्या इत्यनेन पृथिव्याद्याश्रयत्वस्य बाधे सति सामान्यतो दृष्टानुमानपू. . कात् परिशेषानुमानादष्टद्रव्यातिरिक्तद्रव्य सिद्धः को वारयिता, न कश्चित् / तथा हि ज्ञानादयः क्वचिदाश्रिताः कार्यस्वाद्रूपादिवदिति सामान्यत आश्रयसिद्धौ ज्ञानादयोऽधद्रव्यातिरिक्तद्रव्याश्रया. स्तदाश्रयत्वबाधे सति कार्यत्वात् , न यदेवं न तदेवं यथा रूपमिति / समवायिवदसमवायिनि. मित्ते च कारणे बाधकबलादेवोहनीये इत्याह-एवम्-इति / समवायिमात्रकारणत्वेऽपि तन्नि. त्यत्वात् कार्यस्य सततोत्पत्त्यादिप्रसङ्गः, असमायिमात्रकारणत्वे इन्द्रियार्थपन्निकर्षे विनापि आत्ममनःसंनिकर्षादेव बाह्यार्थविषयज्ञानोत्पादप्रसङ्गः, निमित्तमात्रादुत्पत्तावपि आत्ममनःसंनिकभावेऽपि तदुत्यादप्रसा इत्यादि बाधकमूहनीयम् // 19 // प्रकाशः यिस्वादित्यर्थः / तथापि समवायिविशेषसिद्धिः कुत इत्यत माह / तथा चेति / प्रसिद्धसम. वायिवृत्तित्वबाधकसहकृतं समवायिवृत्तिरवसाधकमेवाप्रसिद्धसमवायि विषयीकरोति / सामा. न्यग्राहकस्यापि मानस्य सहकारिविशेषाद् विशेषे पर्यवसानदर्शनादित्यर्थः / यदा तु समवा. यिवृत्तित्वानुमानानन्तरं बाधकावतारः, तदा केवलव्यतिरेकिणस्तत्सिद्धिरिति भावः / एवमिति / तदन्यतराभावेऽपि कार्योत्पत्तिप्रसङ्गेनेत्यर्थः / वस्तुतः समवायिकारणत्वप्रहे प्रकाशिका। प्रतीति / स्वरूपसम्बन्धात्मककारणताया मानाभावे सत्येवं . कल्पनादिति भावः / प्रसिद्धसमवायीति / सामान्यतो दृष्टानुमानमेव वाधकोपनीतं पृथिव्यायन्यत्वं समवायिनि विध. यीकरोति सामान्यत एवोपनयस्य प्रमाणमात्रे सहकारित्वादिति मावः / यद्वा सामान्येनैव रूपेण तन्मात्रं विषयोकरोति सामान्यतो दृष्टं बाधकावतारे, तदनवतारे तु. तमन्यश्च विशेष विषयीकरोतीति भावः / केवलेति। केवलव्य तिरेकिण एवाष्टद्रव्यातिरिक्तद्रव्यप्रकारसिद्धिरिति भावः / वस्तुत इति / अत्र केचित, इदश्चापाततो भरस्तु प्रथमकल्प एव, तथा हि समवायिकारणत्वं विशिष्टं तत्र च समवायित्वं मानान्तरेण गृहीत्वोक्तप्राहकेन कारणतापहे सत्यर्थसमाजमहिम्नैव विशिष्टग्रहः, अन्यथा समवायिकारणत्वस्यापि विशिष्टस्य ग्राह्यस्वे प्राहकान्तरमाश्रियैत / न हि तत्र संसर्गाभावः प्रयोजको निमित्तसाधारण्यात् , नाप्यन्योन्या. भावः, तदधिकरणे कार्यानुत्पादेन तस्य तत्राभावात् / किञ्चान्योन्याभावात्मकन्यतिरेको न समवायिकारणताप्राहको निमित्तीभूतकालादिसाधारण्यात् / न च यत् कपालं तत्र समवायेन घट इत्येवमात्मकस्यान्वयस्य यन्न कपालं न तत्र समवायेन घट इत्येवं रूपस्य च व्यतिरेकस्य सम. मकरन्दः / श्रयान्तर्भाव इति भावः। तथापीति / असमवायिनोऽप्यधारत्वसम्भवादिति भावः। वस्तुत इति / यद्यपि समवायित्वसमानाधिकरणं कारणत्वमेव समवायिकारणत्वम् / तच्च विशिष्टं न प्राचं, किन्तु गोत्वादिसमवायित्वसाधारणसमवायित्वप्राहकसमाजात् कारणत्वग्राहका. देवार्थसमाजमहिम्ना विशिष्टसिद्धिः / अन्यथा समवायिकारणत्वस्यापि विशिष्टस्य ग्राह्यत्वे प्राहकान्तरसम्बन्धमनुस्रियेत / न हि तत्र संसर्गाभावग्रहः प्रयोजकः। निमित्तसाधारणत्वात् / नाप्यन्योन्याभावग्रहः / तदधिकरणककार्यानुत्पादेन तस्य तत्राभावात् / यदि च कारणत्वमात्रमेव ततो प्राह्य तस्य निमित्तसाधारणतया ग्राहकस्य निमित्तसाधारण्यं न दोषस्तदा प्रकृतेऽपि सख्यम् / किञ्च संसोभावग्रहस्य निमित्तसाधारणतया यदि न तदुप्राहकत्वं, तदा निरुक्तस्यापि