________________ प्रथमस्तवके ] विभुनः कारणत्वसमर्थनम् / 205 बाधकमिति चेत् / न / मन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशेघेऽनतिप्रसङ्गात् / तथा हि, कार्य समवायिकारणवद् इष्टमित्यदृष्टाश्रयमपि तज्जातीयकारणकम् , अाश्रयाभावे किं प्रत्यासन्नमसमवायिकारणं स्यात् , तद्भावे निमित्तमपि किमुपकुर्यात् ? तथा चानुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्तिर्वा स्यात् / एवमपि निमित्तस्य सामर्थ्यादेव नियतदेशोत्पादे स एव देशोऽवश्या बोधनी। व्यतिरेकवत एव कारणस्वमिति व्याप्तिः सिद्धयतीस्याह-सर्वव्यापकानाम्-इति / न-इति / कपादिकार्य प्रति यज्जातीयं कारणं घटायन्वयव्यतिरेकवद् दृष्टं, ज्ञानादिकार्यस्यापि तज्जातीयमेव कारणमनुमीयते / तज्जातीयत्वं नाम समवायिकारणजातीयत्वं सहकारिसमवधाननिवन्धनका. रणयोगित्वं च / तत्र समवायिकारणत्वं द्रव्यस्यैव न गुणादेरिति ज्ञानादीनां द्रव्याश्रयत्वं ताव. स्विष्यति / न चातिप्रसक्तिः, द्रव्यान्तरस्याकाशादेः सहकारिसन्निधिकृततत्कारणाभावात् , बतस्तद्वयतिरिक्तद्रव्यभेदस्यैव ज्ञान कारणत्वेन सिद्धिरिति तदेवोपपादयति-तथा हि-इति / तजातीयकारणमिति दृष्टसमवायि कारणजातीयकारणकमित्यर्थः / अनुमातव्यमिति शेषः। असमवायिनिमित्ताभ्यामेव कार्योत्पत्तौ किं समवायिनेत्यत्राह-प्राश्रय-इति / समवायि प्रत्यासन ह्यसमवायिकारणं, कथं तत्तदभावे भविष्यतीति मा भूत्समवायिवदसमवाय्यपीस्यत्राह-तभावेइति / असमबायिकारणोत्पादकस्य हि निमित्तत्वम् , अतस्तदभावे तदपि न स्यादिति / तथापि / किमायातमित्यत्राह-तथा च-इति / कारणमात्रस्याभावे कार्यस्योत्पत्तिरेव न स्यात् , निरपेक्षस्यैवोत्पत्तौ तस्य कादाचिस्कत्वक्वाचिस्कत्वे अपि न स्यातामिति / तर्हि निमित्तकारणमेवास्तु मा भूतो समवाय्यसमवायिनी तत्सामर्थ्यादेव देशकालनियतोत्पत्तिर्भविष्यतीत्यत्राह-एवम्-इति / समवाय्यसमवायिनोरभावे निमित्तमपि न स्यादित्युक्तम् / एवमपि यदि निमित्तसामर्थ्यादेव निय. तदेशोत्पत्तिः कार्यस्याभ्युपगम्येत भवत्वेवं, तथापि यस्मिन्देशे कार्यमुत्पद्यते स देशोऽपेक्षणीयः प्रकाशः। . विभोः कारणत्वप्रसङ्ग इति व्यतिरेकोऽपि तत्प्रयोजक इत्यर्थः। मन्वयेति / रूपादिकार्य प्रति घटाद्यन्वयव्यतिरेकवद् दृष्टं, तज्जातीयश्चात्मा ज्ञानादिकं प्रति, समवायिकारणजातीय इति यावत् / यद्वा अन्वयव्यतिरेकवति कारणे सहकारिसाकल्यासाकल्याभ्यां कार्यकरणाकरणे दृष्टे / तद्वदत्राप्यन्वयव्यतिरेकवजातीयत्वम् / न चैवमतिप्रसङ्गः / व्योमादेर्शानासमवायित्वात् / तथास्वे चाकाश विशेषगुणतया ज्ञानस्य श्रौतत्वप्रसङ्गात् / दिक्कालविशेषगुणत्वे चाप्रत्यक्षत्वप्रसङ्गः / अत एव तत्र कार्याजनने सहकारिवकल्पमतन्त्रम् / न चैवमपि व्योमादेः कार्यमा निमित्तत्वापत्तिः / अन्यथासिद्धत्वात् / शब्द प्रति पूर्ववर्तित्वग्रह एवान्यकार्य प्रति तद्ग्रहात् / अन्य प्रति पूर्ववर्तिवग्रह एव यस्य यं प्रति तद्ग्रहः, तदन्यथासिद्धमिति प्रागुक्तमित्यर्थः। विपक्षेति / यदीदं कार्यमेतदाश्रयोत्पत्तिप्रयोजकजन्यं न स्यादन्यदेश स्यात् / एवं कालेऽपीति सर्वत्रोत्पत्तिसततोत्पत्तिशब्दवाच्येन तणेत्यर्थः / उभयं क्रमेण विकृणोति-तथा होति / आश्रयाभाव इति / समवायिकारणवृत्तेरेवासमवायिकारणत्वादित्यर्थः। ननु निमित्तवति निय. तदेश एव कार्योत्पत्तिरिति किं समवायिनेत्यत आह-एवमपीति / पाश्रयदेशस्यैव समवा. प्रकाशिका / माह।यद्वेति / तथा च व्योमार्ज्ञानं प्रति निरुक्तमन्वयव्यतिरेकवजातीयस्वमिति भावः / मन्य मकरन्दः / अन्वयव्यतिरेकवजातीयत्वमतिप्रसमित्यनुशयादाह-यद्वा, मन्वयव्यतिरेकवतीति / अत एवेति / तथा च ज्ञानं प्रति व्योमादेन निरुक्तमन्वयव्यतिरेकवज्जातीयत्वमिति भावः। समवायिकारणवृत्तेरेवेति / स्वस्वाश्रयान्यतरसमवायिकारणवृत्तेरेवेत्यर्थः / तथा चोभया