________________ 204 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 19 कारिकाव्याख्याया सच क्वचिदन्वयब्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात् प्रमाणात्। अन्यथा कार्यात् कारणानुमानं क्वापि न स्यात् / तेन तस्यानुविधानानुपलम्भात् / उपलम्भे वा कार्यलिङ्गानवकाशात् , प्रत्यक्षत एव तत्सिद्धः। तजातोयानुविधानदर्शनात् सिद्धिरन्यत्रापि न वायते / तथापि वस्तुगत्यानुविहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्धयेत्, अन्यत्र तथा दर्शनादिति चेन्न / बाधेन सङ्कोचात् / विपक्षे बाधकाभावेन चाव्याप्तः। दर्शनमात्रेण चोत्कर्षसमत्वात् / अस्य चेश्वरे विस्तरो वक्ष्यते / सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्राविशेषे कारणत्वप्रसङ्गो बोधनी। दित्यादिकं व्याचष्टे-स च-इति / तुरीयपादं व्याचष्टे-अन्यथा-इति / कुत इत्यत आहन-इति / येन कार्येण लिङ्गेन कारणमनुमीयते तेन तसिद्धेः, तस्य कारणस्य सिद्धेरिति / यद्यप्यनु. मित्सिते विशेषे अन्वयव्यतिरेकयोरनुपलम्भस्तथापि तज्जातीयेषु विशेषान्तरेषु तदुपलम्भादन्यत्रापि तज्जातीयदर्शनेन तज्जातीयकारणविशेषानुमान सिम्यतीत्याशङ्कयाह-तजातीय-इति / अन्यत्रापि व्यतिरेकविरहिण्यपि आत्मादावपि समवायिकारणवद् रूपादिषु गृहीतान्वयव्यतिरे। कस्य तज्बातीयज्ञानादिकार्यदर्शनात्समवायिकारणत्वेनात्मनोऽनुमानं सुकरमिति भावः / यथप्य. नपलब्धान्वयव्य तिरेकस्यापि कारणस्यानुमानं स्यात् / तथापि वस्तुगत्यानविहितान्वयव्यतिरेक. मेव कारण कार्यात् अनुमीयते रूपज्ञानादिना चतुरायनुमाने तथादर्शनादित्याह-तथापि-इति / न-इति / अन्वयन्यतिरेकवतः कारणत्वमिति व्याप्तेरदृष्टचरस्य धर्मिणः सिद्धिर्न स्यादिति बाधकतण नित्य विभुकारणव्यतिरिक्तविषयत्वेन संकोचादिति / न परं संकोचः व्याप्तिरेव नास्ति, व्यतिरेकविरहिणः कारणत्वे बाधकामावादित्याह-विपक्ष-इति / अन्यत्र तथा दर्शनादिति यदुक्तं तत्राह-अन्यत्र-इति / विपक्षे बाधकमन्तरेण साहचर्यदर्शनमात्रेण साध्वधर्मिणि धर्मान्तरापादन उत्कर्षसमा नाम जातिरिति / एतदेव कथमित्यत आह-अस्य च-इति / क्षित्या. दिकं सकर्तृकं कार्यत्वाद्धटवदितीश्वरानुमाने तत एव शरीरिकर्तृकं स्यादिति प्रसङ्ग उत्कर्षसमा जा. तिरिति प्रतिपादयद्भिर्याप्तिमन्तरेण साहचर्यमात्रदर्शनेन धर्मान्तरोत्कर्षस्य जातित्वं तत्र विस्तरेण वक्ष्यत इति नेदानी प्रपन्च्यत इति / यद्वा, किमिदानीमयं न प्रपञ्च इत्यत्राह-मस्य-इति / नन्वस्ति बाधकं नित्यविभूनां सर्वकार्य प्रति कारणत्वप्रसङ्गः, अन्वयमात्रस्याविशेषात् , तेन प्रकाशः। जनीयम् / तन्निश्चये हेतुमाह-धर्मिधीरिति / बुद्धयादिभिः कार्यैः समवायिकारणतयाss. स्मादयोऽवगम्यन्त इति धर्मिग्राहकमानादेव तेषां कारणत्वग्रह इत्यर्थः / तेनेति / कार्यव्यक्तया. ऽनुमेयकारणव्यक्तरन्वयाद्यनुविधानादर्शनादिस्यर्थः / अथ कार्यकारणव्यक्स्योरन्वयव्यतिरेकाभ्यान तयोः कारणत्वं गृह्यते / तत्तज्जातीयस्यान्वयव्यतिरेकाभ्यामिति स्वगुणान् प्रति घटादे. रन्वयव्यतिरेकज्ञाने घटत्वादिकं न प्रयोजकम् , किन्तु द्रव्यत्वमेव / तयन्वयव्यतिरेकवज्जा. तीयत्वं गुणान् प्रति नित्यविभोरप्यस्तीत्याह-तजातीयेति। बाधेनेति। धर्मिप्राहकमाने. नात्मादीनां स्वनिष्ठकार्य गुणेषु कारणस्वप्रहाद् बाधोनीतपक्षेतरत्वोपाधेाप्त्यभावादिति भावः / विपक्षेति / दृष्टान्ते तथास्वदर्शनेऽपि तद्रूपं न प्रयोजकं गौरवादित्यर्थः / अन्यत्र तथा दर्शनादित्यत्राह-दर्शनमात्रेणेति / नन्वबाधकाद् गुरोरपि प्रयोजकत्वमित्याशयेन बाधकमाहसर्वेति / व्यतिरेकासम्भवेऽन्वयमात्रस्यैव कारणताप्राहकत्वे तदविशेषात् सर्वत्र कार्ये नित्य उत्कर्षसमत्वात् / उत्कर्षसमजात्युत्तरत्वात् दृष्टान्तधर्मस्य व्याप्तिं विना पक्षे प्रसजनमत्कर्मसमा जातिः, शब्दो यदि कृतकत्वेनानित्यः स्यात् कृतघटादिवदेव रूपवान् स्यादित्यत्रसा अस्याश्च व्याप्तिं बिना प्रसजनीयत्वेनादोषत्वम् / इति धर्मदत्तोपाध्याय (प्रसिद्धवच्चाझा) कृतकुसुमाञ्जलिप्रथमस्तवकटिप्पणी समाप्ता॥