________________ प्रथमस्तवके ] विभुनः कारणत्वसमर्थनम् / 203 तस्योपाधिसम्बन्धेऽप्यनधिकारात् / जनितो हि तेन स तस्य स्यात् , नित्यो वा.? न प्रथमः, पूर्ववत् / नापि द्वितीयः, पूर्ववदेव / तथापि चौपाधेरेव व्यति रेको न तस्य, अविशेषात् / तद्वत इति चेत् / न / स चोपाधिश्चेत्यतोऽन्यस्या. तद्वत्पदार्थस्वाभावात् , भावे वा, स एव कारणं स्यात् / भत्रोच्यते पूर्वभावो हि हेतुत्वं मीयते येन केन चित् / . व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि // 19 // भवेदेवं यद्यन्वयव्यतिरेकावेव कारणत्वम् / किन्तु कार्यानियतः पूर्वभावः। बोधनी। ष्टस्य व्यतिरेकः सम्भतीत्याशङ्कयाह-लोपाधेः-इति / कुत इत्यत्राह-तथाभूतस्य-इति / नित्यविभोः कारगत्व इवोपाधित्वसम्बन्धेऽप्ययोग्यत्वादिति / तदेवोपपादयति-जनित इति / तेन नित्यविभुना जनित उपाधिस्तस्य सम्बन्धी स्यात् नित्यो वेति / पूर्ववत्-इति / नित्यविभोयतिरेकासम्भवः कार्यजनन इबोपाधिजननेऽपि तुल्य इति। पूर्ववदेवेति। तज्जनितत्वमिवोपाधेस्तत्सम्बन्धित्वमपि तदन्वयव्यतिरेकाभ्यामवसेयमन्वयमात्रस्य सर्वात्मसाधारण्यात् / तेना. स्यैवायमात्मन इत्यासाधारणसम्बन्धित्वमपि व्यतिरेकाभावे दुरवधारणमिति / यद्वा, नित्यत्वेऽप्युपाधेस्तत्सम्बन्धस्यानित्यत्वादारमनैव जनयितव्यत्वाच्चोपाधिस्वरूपजननवत्सम्बन्धजननमपि न सम्भवतीत्युक्तं पूर्ववदेवेति / अस्तूपाधिस्तत्सम्बन्धश्च तथाप्युपाधेरेव व्यतिरेकः स्यात् न त्वात्मन इत्याह-तथापि-इति / उपाधिव्यतिरेकाव्यतिरेकयोस्तद्वत आत्मनः सर्वत्र सर्वदा. न्वयाविशेषादिति / अथवा नित्योऽप्युपाधिापको वा स्यादव्यापको वेति विकल्पं हृदि निधाय व्यापकत्वे दोष उक्तः पूर्ववदेव-इति / निरुपाधिकसमयवदेवेत्यर्थः / अव्यापकत्वे दोषमाहतथापि च-इति / शङ्कते-तद्वतः इति / विशेषणस्योपाधयतिरेके विशिष्टः तद्वानेव व्यतिरिच्यत इति / दूषयति-न-इति / उपाधिमानुपाधिश्चेत्यतो द्वयान्यस्य तद्वतो विशिष्टस्य पदा. र्थान्तरस्य नैयायिकैरनभ्युपगमादिति / तद्वतः पदार्थान्तरस्य भावेऽपि व्यतिरेकवतः तस्यैव कारगत्वं स्यानात्मनो व्यतिरेकाभावादित्याह-भावे वा-इति // ____ अत्रोच्यत-इति / न तावदन्वयव्यतिरेकावेब.कारणं, नापि तावेव तन्निश्चयोपायः। किं तर्हि ? कार्यानियतः पूर्वभावः कारणत्वं, निश्चीयते च धर्मिग्राहकप्रमाणादिनापि / तस्मान्नित्यविभोरपि कारणत्वसोपाधित्वनिश्चयो सम्भवतः / एवमनभ्युपगमे ज्ञानादिकार्यलिङ्गेनात्मादेः समवायिकार. णस्य प्रतीतिर्न स्यात् , इति व्याचष्टे-भवेदेवम्-इति / व्यतिरेकहीनस्यात्मनो न कारण भवेद्यदि तावेव कारणत्वं स्यादिति / किं तर्हि कारणत्वमित्यत्राह-किन्तु-इति / येन केनचि. प्रकाशः। ननु केवलस्य व्यतिरेकामावेऽपि शरीराद्युपहितस्य तस्य स्यादित्याह-न च सोपाधेरिति / नित्यविभोस्तदयोग्यत्वादित्यर्थः / तत्र विकल्प्य हेतुमाह। जनितो होति / अन्त्येऽपि व्या. पकोऽव्यापको वेति द्रष्टव्यम् / पूर्ववदिति / उपाधिजनकत्वप्राहकव्यतिरेकामावस्तुल्य एवे. त्यर्थः / द्वितीयस्याथे दोषमाह-पूर्वदिति / नित्यविभोरुपाधेरपि व्यतिरेकाभाव इत्यर्थः / नित्याव्यापकोपाधिपक्षे दोषमाह-तथापि चेति / विशेष्यवति विशिष्टाभावस्य विशेषणाभावे पर्यवसानादित्यर्थः / तद्वतः उपाधिमतः / स एव विशिष्ट एव, न तु विशेष्यात्मेत्यर्थः / येन केन चिदिति / नान्वयव्यतिरेकाभ्यामेवेत्यर्थः। व्यापकस्थापीत्यत्र हेतुत्वमित्यनुष. प्रकाशिका। 'नान्वयव्यतिरेकाभ्यामेवेति / न हि व्यतिरेकगर्भकारणता न वा व्यतिरेकगर्भप्राहकनियतेति भावः / धम्मिधारन्यथा न होत्यत्र हिशब्द हेत्वर्थक दृष्ट्वा साध्यं पूरयति / हेतुत्वमित्यनुषजनीयमिति / अन्वयव्यतिरेकवज्जातीयत्वं यथा व्याख्यातमतिप्रसक्तमत