________________ 202 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखलौ [ 19 कारिकावतरणिकाय सर्वसाधाणनीलादिवैधर्येण काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नोलादि पारमार्थिक मेवाभ्युपगन्तव्यम् / अन्यथा, तद्वधर्येण हेतुफलभावस्यापारमार्थिकत्वानुपपत्तेः / न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पार मार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् / तस्मादस्य पारमार्थिकत्वेऽपरमपि तथा, न वोभयमपीति / कथमेकमने परस्परविरुद्धं कायं कुर्यात् , तत्स्वभावत्वादिति यदि, तदोत्पत्तेरारभ्य कुर्यादविशेषादित्यपि न युक्तम् / तत्तत्सहकारिसाचिव्ये त. त्तत्कायं करोतीति स्वभावव्यवस्थापनात् / इदश्च साधारणमेव, सर्वैरेव तथोप. लम्भात् / न हि नीलादेरप्यन्यत् साधारण्यमिति // 18 // स्यादेतत् / अस्तु स्थिरं, तथापि नित्यविभोर्न कारणत्वमुपपद्यते। तथा ह्यन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण / अतिप्रसङ्गात् / न च नित्यविभूनां व्यतिरेकसम्भवः / न च सोपाधेरसावस्त्येवेति साम्प्रतम् , तथाभू बोधनी। तत्र पूर्वाद्धं व्याख्यातुं तावद्वस्तुसत्त्वं नीलादेरवश्याजीकार्य यथा तथाह-सर्व-इति / अनुपन्यस्तस्यापि कार्यभावस्य कारणत्वमतुल्ययोगक्षेमत्वाद्वा कारणवस्य संबन्धिरूपत्वेन तत्स्वरूपा. न्तर्गतत्वाद्वोपादानमित्यस्तु पारमार्थिको नीलादिस्ततः किमित्यत आह-न'च-इति / किमित्ये. वमित्यत्राह-नित्यत्व-इति। नित्यस्यार्थक्रियाविरहादसत्त्वमेव स्यात् , न च नित्यत्वं कादाचित्कत्वादिति भावः / अत्रार्थतः सिद्धमुपसंहरति-तस्मात् इति / अस्य-नीलादेः अपरमपिकारणत्वमपि / तथा=पारमार्थिकम् / न चोभयमपि पारमार्यिकं स्यादिति तृतीयपादं व्याचि. ख्यासुस्तन्निराकरणीयां शङ्कामुत्थाप्य निराकरणं प्रतिजानीते कथमित्यादिना न युक्तमित्यन्तेन / अन्तरा पूर्वपक्ष्येव सिद्धान्तिनो मतमाशङ्कच निराकरोति-तत्स्वभावत्वादित्यादिना / अवि. शेषात्कार्यकारणस्वभावस्योत्पत्तिप्रमृत्यविशेषात्तथैव व्याचष्टे-तत्तत्-इति / तुरीयपादं व्याचष्टेइदं च-इति / इतिशब्दव्याख्यानम् / नन्वस्तु सर्वेरुपलम्भः, न तन्नीलादीनां साधारण्यं किन्तु सर्वान् प्रति तत्त्वं, कारणत्वस्य तु नैवविधं साधारण्यमस्ति नियमस्योक्तत्वादित्यत्राह-न हि-इति / न तावन्नीलादेः सर्वदेशकालव्यापित्वं साधारण्यमस्त्यव्यापकत्वादनित्यत्वाच्च / न च सर्वान्प्रत्यपि नीलरवमित्यपि संभवति / नीलत्वस्य कारणत्ववत्प्रतियोग्यपेक्षनिरूपणीयत्वाभावात् / ततः सर्वैः सर्वदा तथोपलम्भादेव साधारण्यम् , इदं च कारणत्वेऽप्यविशिष्टमिति // 18 // एवं तावत् क्षणिकत्वप्रतिक्षेपेण स्थिरत्वसमर्थनम् / न च गत्यन्तरं स्थिर इत्येतस्मिन्व्यव. स्थिते भूतचैतन्यासम्भवात्तद्वयतिरिक्तश्चेतन इति सिद्धम् / तत्राह-स्यादेतत्-इति। भवतु भूतं स्थिरं मा भूच्चैतन्यं तथापि भवदभिमतस्य नित्यविभोरात्मनः कारणत्वं नोपपद्यते, येनास्य ज्ञातृत्वं भोकत्वमित्यादिकं सर्वमुपपद्यतेति भावः / किमिति नोपपद्य इत्यत्राह-तथा हि-इति / अतिप्रसङ्गात्कार्यमानं प्रत्येव नित्यविभूना कारणत्वप्रसङ्गादिति भावः / ततः किमित्यत्राह-न च-इति / व्यतिरेको हि देशतः कालतो वा स्यादिति केवलस्यासम्भवेऽपि शरीराद्युपाधिविशि प्रकाशः। मस्य-नीलादेः।मपरमपि-कार्यकारणस्वरूपमपि / इदश्चेति। तथा चेष्टापादनमिति भावः॥१८॥ नन्वेवमदृष्टस्यात्मवृत्तित्वेऽपि नात्मा समवायिकारणं, नाप्यन्यदिति तदभावादसमवाय्यावपिन कारणमिति तन्नित्यत्वेन न यागादिजन्यत्वं, नाऽपि भोगनियामकत्वमित्यभिप्रेत्याहस्यादेतदिति / न चेति / नित्यस्वेन न कालतो व्यतिरेको, विभुत्वेन न देशत इत्यथः / प्रकाशिका। तथा च कारणत्वमसदेवेति भावः // 18 //