________________ प्रथमस्तवके ] कारणत्वस्य स्वाभाविकत्वव्यवस्थापनम् / 201 नन्वेतत् कारणत्वं यदि स्वभावो भावस्य नीलादिवत् तदा सर्वसाधारणं स्यात् / न हि नीलं किश्चित् प्रत्यनीलम् / अथोपाधिकं, तदा उपाधेरपि स्वाभावि. कत्वे तथात्वप्रसङ्गः / औपाधिकत्वे त्वमवस्था / अथाऽसाधारणत्वमप्यस्य स्व. भाव एव, तत उत्पत्तेरारभ्य कुर्यात् , स्थिरस्यैकस्वभावत्वादिति चेत् / उच्यते हेतुशक्तिमनाहत्य नीलाद्यपि न वस्तु सत् // तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम् // 18 // बोधनी। संप्रति चार्वाकः स्थिरपक्षे कारणत्वानुपपत्त्या प्रत्यबतिष्ठते-ननु-इति / स्थिरस्य भाव. स्य कारणत्वं यदि स्वभावतः स्वतःसिद्ध यथा नीलस्य नीलत्वं तर्हि तद्वत्साधारणं स्यात् , तत्र चैकस्मारकारणात्सर्वकार्योत्पत्तिः प्रसज्यत इति नीलादीनां साधारण्यं दर्शयति-न हि-इति / शकते-मथ-इति / औपाधिकत्वे ह्यसाधारण्यमुपपद्यते यथा तस्यैव नीलस्य प्रत्यक्षत्वादेरिति / विकल्प्य निराचष्टे-तदा उपाधेः-इति / येनोपाधिना भावः कारणं भवति स चोपाधिर्मावस्य स्वभावो वा स्यादौंपाधिको वा ? पूर्वत्र पूर्ववत्तस्यापि तथात्वं साधारण्यं प्रसज्येत, उत्तरत्र तस्यापि तथात्वप्रसादनवस्था, तस्मात्पारमार्थिकनीलादिवैधात्काल्पनिकोऽयं . कार्यकारपभाव इति / अथेति / यथा कारणत्वमस्य स्वभावः तथा किंचिदेव कार्य प्रति न पर्वमिति कारणत्ववदसाधारण्यमप्यस्य स्वभावः, ततश्च नोक्तप्रसङ्ग इति / तर्हि यं यं कार्यविशेष प्रति कारणत्वमस्य स्वतः सिद्धं तं तं सर्वदा कुर्यात्स्थिरस्यैकस्वभावत्वात्कालभेदेन स्वभावभेदा. नुपपत्तेरित्याशयेनाह-उत्पत्तेः-इति / उच्यत-इति / हेतुशक्किं कारणत्वमनास्त्य पारमार्थिकरवेनाभ्युपगम्यमानं नीलाद्यपि वस्तु न पारमार्थिक सद्भवति कुतश्चित्कारणापलब्धस्वरूपं पारमार्थिकं स्यात् / इतरथा नित्यत्वेनासत्वप्रसङ्गात् / तेन नीलादेः पारमार्थिकत्वं वदता कारणस्यापि पारमार्थिकत्वं वक्तव्यम् , अन्यथा नीलादेरप्यपारमार्थिकत्वापत्तेः, तथा च कथं तद्वैधयेण कारणत्वस्यापारमार्थिकत्वं सिम्येदिति / प्रतिनियतमेव कारणत्वं भावानां स्वभावः / न च तत्र कार्यविशेषाणां सततोत्पादकत्वप्रसा इत्याह-तद्युक्तम्-इति / तेस्तैः सहकारिभिर्युक्तं तत्त. कारणं तत्र तत्रान्वयव्यतिरेकवत्सु कार्यविशेषेषु शक्तं, तस्मात्कार्यविशेषाणामेव सहकारिक्रम. वशात् क्रमेणैवोत्पत्तिरुपपन्नेति / कथं तर्हि पारमार्थिकत्वे कारणवस्य नीलादिवैधयं तत्राहइति-इति / कार्यविशेषनियतं सहकार्यधीनं च कारणत्वं किं न साधारण, साधारणमेव सस्त. भोपलम्भनियमात् / न हि नीलादेरन्यत्साधारण्यम् / अतो न नीलादिवैधय कारणत्वस्येति / प्रकाशः। तदेवमलौकिक परको कसाधनं सिद्धम् / तत्र शकते- नन्विति / यथा नीलं सर्वेण निरूप्यमाणं नीलं, तथा सर्वेण निरूप्यमाणं कारणं स्यादित्यर्थः। तथात्वं-सर्वसाधारण्यम् / औपाधिकत्व इत्यत्रोपाधेरित्यनुषजनीयम् / अथेति / नियतकार्यप्र. तियोगिककारणत्वमेव स्वभाव इत्यर्थः। तत इति / यस्य स्वाभाविक तत्तदुत्पत्तित एवारभ्येति बीजस्य बीजवमिवाडरकारित्वमप्युत्पत्तित एव स्यादित्यर्थः। ततः कारणत्वमस्य न साधारणमसारणं वेति भावः॥ परस्य कार्यकारणभावस्य साधारणत्वापादनेन हेतुशक्तिरेव निरस्यत्वेन मता। तथा च नीलायपि परमार्थसन्न स्यात् / नित्यत्वप्रसङ्गात् / ततो बेधम्यधान्ताभावात्वत्पक्षो न सिद्धयतोत्याह-हेतुशक्तिमिति / तद्युक्तमिति / सहकारियुक्तम् / तत्र-कार्ये तत्कारणं शक्तं = निर्वर्तकमिति सरेव प्रतीयत इति सर्वसाधारण्यमस्त्येव / नीलादेरपि तदेव सर्वसाधारण्यमित्यर्थः / प्रकाशिका। . कारणं स्यादिति / तथा च सर्व सर्वत्र कारण स्यादित्यर्थः / ततः कारणत्वमिति। . 26 न्या०००