________________ 200 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअली [ 17 कारिकाव्याख्याया स्य तदधीनत्वात् / कोटिद्वयस्य चादृष्टस्यानुपस्थाने का सन्देहार्थः ? तदर्शने च कथं सर्वथा तदसिद्धिः?।। एतेनाप्रामाणिकस्तयाहार इति निरस्तम् / सूर्वथा प्रामाण्यासिद्धौ तस्याप्य. सिद्धः / प्रकृते प्रामाण्यसन्देहो लूनपुनर्जातकेशादौ व्यभिचारदर्शनादिति चेत्। न एकत्वनिश्चयस्य त्वयाऽपीष्टत्वात् / अनिष्टौ वा न किञ्चित सिद्धयेत्। सिद्धयतु यत्र विरुद्धधर्मविरह इति चेत् , तेनैव स्थिरत्वमपि निश्चीयते / स इह सन्दिह्यत इति चेत् , तुल्यमेतत् क्वचिनिश्चयोऽपि कश्चिदिति चेत् , समः समाधिः॥१७॥ बोधनी। यथा निश्चयः प्रामाण्वाधीनस्तथा संदेहोऽपीति / इतश्च सर्वथा प्रामाण्यासिद्धौ सन्देहो न सिध्येदित्याह-कोटिद्वयस्य-इति / निदर्शनं निश्चयः भवतु दर्शनं, तेन चोपस्याप्यता कोटिद्वयं, को विरोध इत्यत्राह- तदर्शने च इति / कोटिद्वयनिश्चयार्थमपि संदेहः प्रामाण्यमपेक्षत इत्यर्थः / यद्वा, कासाचिज ज्ञानव्यक्तीनी प्रामाण्यं कासचिच्चाप्राण्यं दृष्टवतः कस्याचिरप्रमाण. मप्रमाणं वेति संदेहः स्यात् / सर्वथा प्रामाण्यासिद्धौ कोटिद्वयानुपस्थानात्संदेहो न सिध्यतीति कथं प्रामाण्यमात्रस्य सन्देहप्रस्तत्वे प्रमाणव्यवहारो लौकिकानामित्यत्र यत्प्रति विधानं चार्वाकस्य, अप्रा: माणिकः प्रमाणव्यवहार इति / तदपि पूर्वोक्तव्याघातेन निरस्तमित्याह एतेन-इति / व्याघातमेव स्फुटयति-सर्वथा-इति / अप्रामाणिकोऽयं व्यवहार इत्यस्यापि प्रमाणसिद्धत्वादिति / एवम् 'सन्देहगोचरः सर्व कस्य चिन्न कथंचन / प्रतिष्ठामिति वादोऽयं चार्वाकस्य निराकृतः // इति / अथोत्तरमर्थ व्याख्यास्यस्तं निराकरणीयं विशेषतः प्रामाण्यसन्देहं सहेतुकमाशहतेप्रकृते-इति / व्याचष्टे-न-इति / तथाप्ये कस्मिन्क्षणे भावस्यैकत्व निश्चयोऽस्ति / तत्रैकोऽयमित्यबाधिताकारं ज्ञानमेव शरणं, तच्च कालभेदेऽपि समानमिति भावः / विपक्षे दण्डमाहअष्टिो -इति / एकस्तावन्न सिण्यति, तदविद्धौ नानेकोऽपीति शङ्कते-सिद्धयत-इति / यत्रैकस्मिन् क्षणिके भावे विरुद्धधर्मसंसर्गो नास्ति स एकः सिद्धयतु विरुद्धधर्मसंसृष्टविषयं प्रत्यभिज्ञानं प्रमाणं, न प्रत्यभिज्ञानमात्रम् / स्थिरे तु विरुद्धधर्मसंसर्गोऽस्तीति भावः / तेनैव-इति / तेन विरुद्धधर्मसंसर्गविरहेण पूर्वमुपपादितेनेति शङ्कते-सा-इति / विरुद्धधर्मविरहः स्थिरेऽपि संदिग्ध इति त्वयोपपादितेऽपि मया संसर्गस्यापायमानत्वाद्विप्रतिपत्तेः संशयगोचरः स्यादिति भावः / यदि निश्चितेऽपि संदेहस्तहि क्षणेऽपि विरुद्धधमासंसगः संदिग्धः स्यादित्याहतुल्यम्-इति / यदि क्षणिकस्यैक्यानिश्चये न किंचित्सिभ्येदिति तण तत्र निश्चयः, तर्हि स्थिरस्याप्यभावे सर्वस्यादृष्टगोचरत्वात् क्वचित्प्रवृत्तिः कुतश्चिन्निवृत्तिव न स्यादिति सर्वलोकयात्रो. च्छेदप्रसनोऽत्रापि सम इत्याह-क्वचित-इति // 17 // प्रकाशः। पकत्वात् तेन विना सन्देहानुपपरीरित्यर्थः / यद्वा, सन्देहनिश्चयस्याऽपि तदनुव्यवसायप्रामाण्यनिश्चयाधीनत्वादित्यर्थः / तदर्शने चेति / प्रामाण्यदर्शने चेत्यर्थः / प्रकृते स्थैर्यसाधकप्रत्यभिज्ञाने / न किञ्चिदिति / क्षणिकोऽप्येको न स्यादित्यर्थः / तुल्य. मिति / क्षणिकस्याप्येकरवे सन्देह इत्यर्थः / क्वचिदिति / यत्र न विरुद्धधर्मसंसर्ग इत्यर्थः / सम इति / स्थिरेऽपि तदभाव एवेत्यर्थः // 17 // प्रकाशिका। याधीनत्वादित् / इति सन्मुखव्याख्याने सुगमे वक्रव्याख्यानं निवाजमित्यरुचेराह / यद्वति // 14 // तदधीनत्वात् = सन्देहव्यापकत्वात् / व्यापकाभावे व्याप्य स्यसंदेस्याप्यभावात् / यद्वा संदेहनिश्चयस्यापि तदनुव्यवसायप्रामाण्यनिश्चयाधीनत्वादित्यर्थः / उक्तव्यवहारे प्रामाणिकत्वस्यापीत्यर्थः /