________________ 168 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाअलौ [ 17 कारिकावतरणिकायां / पर्चमानत्वमेकस्य विरुद्धमिति चेत् / यदि सदसत्त्वं तत् , तन्न / अनभ्युपगमात् / ताद्रूप्येणैव प्रत्यभिज्ञानात् / सदसत्संबन्धश्चेत, किमसङ्गतं ? शानवत्तदुपपत्तेः / क्रमेणानेकसंबन्ध एकस्यानुपपन्न इति चेत् / न / उपसर्पणप्रत्ययक्रमेणैव तस्याऽ. प्युपपत्तेः / प्रत्यभिज्ञानमप्रमाणमिति चेत् / अस्ति तावदतो निरूपणोयं, क्षण. प्रत्ययस्तु भ्रान्तोऽपि नास्तीति विशेषः // 16 // ___स्यादेतत् / मा भूदध्यक्षमनुमानं वा क्षणिकत्वे, तथापि सन्देहोऽस्तु / एता. बोधनी। भेदं ब्रूमः, किन्तु वर्तमानत्वावर्तमानत्वलक्षणविरुद्धधर्मसंसर्गादिति दूषयति-यदि-इति / सद. सत्त्वरूपं ताबद्वर्तमानत्वावत्तंमानत्वमेकस्य धमिणो नाभ्युपगच्छाम इति / कुत इत्याहताप्येण-इति / शङ्कते-सदसत्-इति / सता वर्तमानेन कालेन संबन्धो वर्तमानत्वम् , असताऽतीतेनानागतेन बाऽवर्तमानत्वमिति किमसंगतमिति / यथा प्रत्यभिज्ञानमेकमेव बर्तमानत्वं सच्च बिषयीकरोति असच्चातीतत्वम् , यथा वा अघटं भूतलमिति ज्ञानं भावाभावी, तथैक एव धर्मी सदसद्भ्यो संभन्स्यते, को विरोध इति / नन्वस्तु युगपदेकस्यानेकसंबन्धो न . तु क्रमेण, तथा हि यद्येकसम्बन्धक्षणे भावः संबन्भ्यन्तरेणापि संबधुं समर्थः, तर्हि तदानीमेव तेनापि संबध्येत, समर्थस्य क्षेपायोगात् / असमर्थश्चेन्न पश्चादपि / तदन्यदेव पश्चात्संबण्यत इति सिद्धः क्षणभङ्ग इत्याशयेन शङ्कते क्रमेण-इति / प्रत्यभिज्ञया तावदेकत्वं प्रतीयत इत्युक्तं, न चैकस्याने कसंवन्धोऽनुपपन्न इति केवलमत्र सम्बन्धक्रमे कारणं वक्तव्यं, तच्च संबन्धिसन्निधापकानां क्रम एवेत्याह-उपसण-इति / ननु प्रत्यभिज्ञायाः प्रामाण्ये सति सर्वमेतदेवं स्यात् , तदेवासिद्धमित्याह-प्रत्यभिज्ञानम्-इति / मा भूत् प्रामाण्यसिद्धिस्तथापि भवन्तं वि. जयामह इत्याह-अस्ति तावत्-इति / स्थैयसाधकं प्रत्यभिज्ञानं तावदस्ति, अन्यथा धर्मिण एवासिद्धौ तत्राप्रामाण्यविधानायोगात् / तेन धर्ममात्रप्रामाण्यमेव तस्य निरूपणीयम् / क्षणि. कत्वे तु प्रमाणाभासोऽपि नास्तीति // 16 // ___एवं सौगतसमयसिद्धक्षणिकरवालम्बिनि चार्वाकस्य प्रत्यवस्थाने दूषिते स एवान्यथा प्रत्यवतिष्ठते-स्यादेतत्-इति / न खलु क्षणिकत्वे प्रमाणाभावमात्रेण स्थिरत्वं सिद्ध्यति किन्तु संदेह एव, तवापि भुतचैतन्यसंभावनया न तद्वयतिरिक्तश्चेतनः सिद्ध्यतीत्युच्यत इति / किमयं सन्देहः प्रकाशः। धर्मभेदेऽपि न तद्धर्मिभेद इत्याह / किमत्रेति / तादृप्येणैवेति / द्वितीयादिक्षणेऽपि प्रत्य. भिज्ञानाद् वर्तमानत्वमेवेत्यर्थः। ननु पूर्वापराभ्यां सदसत्क्षणाभ्यो सम्बन्ध एकस्य विरुद्ध इत्याह / सदसदिति / सदसद्विषयेकज्ञाने तदुभयसम्बन्धो यथा न विरुद्धयते तथा बाह्येऽ. पीत्याह / ज्ञानवदिति / ज्ञाने तदुभयसम्बन्ध एकदैवेति न विरुद्धः / क्रमिकस्तु विरुद्ध इत्या. ह। क्रमेणेति / तत्सम्बन्धकारणक्रमादेव सोऽप्यविरुद्ध इत्याह / उपसर्पणेति / प्रत्ययः-कारणम् / ताद्रूप्येणैव प्रत्यभिज्ञानादित्याक्षिपति / प्रत्यभिज्ञानमिति / विरुद्धधर्मवद्विषयस्वादिति भावः / परिहरति / अस्तीति / प्रमाणत्वाप्रमाणत्वाभ्यामिति शेषः / वस्तुतो विरुद्धधर्माध्यासा. भावात् प्रमाणत्वमपि निरूपितमेवेति भावः / तदनेन स्थैर्य प्रमाणमुक्तम् // 16 // प्रकाशिका / सम्बन्धकारणेति व्याख्याने प्रत्ययेति मूलविरुद्धमत आह / प्रत्ययः कारणमिति / प्रत्यभिज्ञा. नमप्रमाणमित्यत्र हेतुं पूरयति / विरुद्धेति / सन्देहेऽपि स्थैर्य्यासिद्धिरेवेत्यत आह / वस्तुत इति / विरुद्धयोरसंसर्गात् संसृष्टयोश्चाविरोधादिति भावः // 16 //