________________ प्रथमस्तवके ] क्षणभङ्गनिराकरणम् / ... 167 नाञ्च भिन्नाश्रयत्वात् / तथा च कुतः क्षणिकत्वम् ? / वैजात्याभ्युपगमे च कुतोऽ. नुमानवा ? / मा भूदनुमानमिति चेन्न / तेन हि विना न तत् सिद्धयेत् / न हि क्षणिकत्वे प्रत्यक्षमस्ति / तथा निश्चयाभावात्, गृहोतनिश्चित एवार्थे तस्य प्रामाण्यात्, अन्यथाऽतिप्रसङ्गात् / / ननु वर्तमानः क्षणोऽध्यक्षगोचरः। न चाऽसौ पूर्वापरवर्त्तमानक्षणात्मा। ततो वर्तमानत्वनिश्चय एव भेदनिश्चय इति चेत् / किमत्र तदभिमतमायुज्मतः ? यदि धर्येव नीलादिर्न किञ्चिदनुपपन्नम् / तस्य स्थैर्याऽस्थैर्यसाधारण्यात् / अथ धर्मः / तद्भेदनिश्चयेऽपि धम्मिणः किमायातम् ? तस्य ततोऽन्यत्वात् / वर्तमाना बोधनी। रयति-तथा च-इति / अस्तु तर्हि समावेश इत्याशङ्कय महता प्रबन्धेनोपपादितमनुमानभप्रमुपसंहरति-वैजात्य-इति / विना तेन न तत्सिद्धिरित्येतच्छङ्कापूर्वकं व्याचष्टे-मा भूत्इति / कुतः प्रमाणान्तरात्तस्य क्षणिकत्वसिद्धिरिति / ननु प्रत्यक्षमेव तत्र प्रमाणमित्यत्र नाध्यक्ष निश्चथं विनेत्वेतदुत्तरयति-न हि-इति / क्षणिकमेतदिति निश्चयस्य विकल्पस्याभावादिति / मा भूद्विकल्पः, निर्विकल्पकमध्यक्षं तत्र प्रमाणमित्यत्राह-गृहीत-इति। निर्विकल्पकेन गृहीते ' विकल्पिते चार्थे तस्य प्रत्यक्षस्य प्रामाण्यादिति विपर्यये बाधकमाह-अन्यथा-इति / ___ यद्यनिश्चित एवार्थे प्रत्यक्षं प्रमाणं स्यात् किमिति बक्षणिकत्व एव तत्प्रमाणं न स्यात् इति चोदयति-ननु-इति / द्वितीयप्रत्यक्ष तावद्धर्मिणं घटोऽयमिति वर्तमानत्वविशिष्टमेवाव. गाहते, वर्तमानस्य चातीतानागतात्मकत्वविरोधात् / तेन वर्तमानत्वं निश्चाययदेव प्रत्यक्ष धर्मिणः पूर्वापराभ्यां भेदं निश्चाययतीति क्षणिकत्वे प्रमाणमिति विकल्पं दूषयितुं पृच्छतितत्-इति / तद् वर्तमानत्वं किमित्यभिमतं, किं नीलादिधर्मिस्वरूपमेव, अथवा तद्धर्म कालविशेष. संबन्ध इति भावः / द्वितीये दूषणमाह-प्रथ-इति / तस्य वर्तमानत्वधर्मस्यातीतानागतत्वाभ्यां भेदनिश्चयेऽपि धर्मिणो नीलादेन भेदः सिध्यति / तस्य धर्मिणस्ततो धर्मादन्यत्वादिति / बौद्धः स्वाभिसन्धिमुद्घाटयति / वत्मान-इति / न वयं धर्मिमात्रनिश्चयाद्धर्मभेदनिश्चयावा धर्मिणो प्रकाशः। चेति / द्रव्यादिव्यक्तिगतत्वेनैकाश्रयत्वाभावादित्यर्थः / तथा चेति / परापरभावाभावेन वैजात्याभावादित्यर्थः / तथापि तत्स्वीकारे दण्डमाह। वैजात्येति / तथेति / नीलमिदमितिवत् क्षणिकमिति निश्चयाभावादित्यर्थः / तथाप्यध्यक्षं निर्विकल्पकं तथा स्यात् तत एव प्रकृतसिद्धेरि. स्यत आह। गृहीतेति / निर्विकल्पकस्य सविकल्पकोन्नेयत्वात् तदसिद्धौ निर्विकल्पकसत्ताया मानाभावादित्पर्थः। ... नन्वयं घट इत्यनुभवोऽस्ति / स च घट इति धर्मिणम् , अयमिति वतमानत्वं विषयीक. रोतीति वर्तमानत्वनिश्चय एव क्षणिकत्वनिश्चय इति तदुनीतमध्यक्षमस्त्येवेत्यत आह / . नन्विति / वर्तमानत्वं किं घट एव, तद्धर्मो वा ? आये तदवच्छिन्न एव कालस्तस्य वर्तमानः कालः स च तस्य स्थैर्येऽपि सम्भवति, एकक्षणात्मकत्वं तस्य घटस्यासिद्धमेव / अन्त्ये, प्रकाशिका। इति। वर्तमानत्वनिश्चय एवेति। अतीतानागतक्षणागोचरं क्षणगोचरं प्रत्यक्षमेव क्षणिकत्वे मानमिति भावः / एकक्षणात्मकत्वमिति / परमसूक्ष्मागां क्षणानामप्रत्यक्षत्वात् स्थूल एव कालोपाधिर्वर्तमानतया प्रत्यक्षे भासत इत्युपेयम् / तादृशी च सा स्थैय्ये साधारणीति भावः / ननु गृहीतेति / निर्विकल्पकविषयेत्यर्थः / निश्चितेति =सविकल्पकविषयेत्यर्थः /