________________ 196 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 16 कारिकाव्याख्यायो / रसमावेश एव, समाविष्टयोश्च परापरभाव एव / भनेवम्भूतानां द्रव्यगुणकम्मादिभावेन उपाधित्त्वमात्रम् / तेषान्तु विरुद्धानां न समावेशा व्यक्तिभेदात् / जाती बोधनी। बोजस्वयोरविरोधप्रसङ्गात् , तत्कथमयं नियम इत्याह-भनेवम्-इति। अनेवंभूतानो विरोधे सति समाविष्टानां समावेशे सत्यपरापरभूतानां च द्रव्यगुणकर्मस्वरूपेणोपाधित्वमात्रं, न सामाम्यरूपेण समाविष्टत्वम् / तथा हि नीलगुणयोगात् नीलमुत्पलं न तु नीलत्वयोगात् , तथा द्रव्य. संबन्धाद् द्रव्यं नीलं न तु द्रव्यत्वयोगादिति / एवं चलनयोगात् चलं न तु चलत्वयोगादिति / जात्यात्मकानां तु सामान्यानां विरोधे सति न समावेश इतोमं तात्पर्यगोचरमर्थ पृथक्कृत्याहतेषां तु-इति / कुत इत्यत माह-व्यक्तिभेदात्-इति / सामान्यव्यजकानामाश्रयाणां भेदा• दिति / भियन्ता व्यञ्जकानि किमायातमसमावेशस्य तत्राह-जातीनाम्-इति / व्यक्त्याश्रयस्वाज्जातीनां तद्भेदेन तदाश्रयाणां जातीनां च न समावेशः। तस्माविरुद्धानां नीलत्वोत्पळत्वचलस्वादीनां गुणद्रव्यकर्मव्यक्तिसमवेतत्वेन नैकव्यक्तिसमावेशः, समाविष्टानां गुणादिव्यक्तीनां न विरोध इत्यर्थः / मा भूत्तर्हि कुर्वत्त्ववीजत्वयोः समावेश इत्यत्र न वैजात्यं विनेत्येतदेव स्मा. प्रकाशः तस्मादिति / अनेवमिति / येषां न विरोधो न वा परापरभावः, तेषां सहभावमात्राद् व्यवस्थितानां भूतत्वकार्यस्खमूर्तत्वानां द्रव्यादिभावेन द्रव्यादिरूपतया उपाधिमात्रत्वं, न तु जातिरूपत्वमित्यर्थः / ननु द्रव्यत्वगुणत्वादीनां कथमित्यत आह। तेषामिति / तेषां द्रव्यत्वादीनां कुतो न समावेश इत्यत आह / व्यक्तिभेदात्-व्यञकाश्रयभेदादित्यर्थ / एतदेव स्पष्टयति / जातीनां प्रकाशिका। कम्पभिन्नशिंशपाजनककारणं वेत्यर्थः / न जातिरूपत्वमिति / ननु परस्परात्यन्ताभाव. समानाधिकरणयोरेकत्र समावेशे तदतज्जातीयताविरोधभङ्ग एव विपक्षवाधकः / साम्योपा. ध्योरपि तादृशयोः समावेशे समान एवेति कथं नोपाधिसाङ्कयं दोषाय / अत्राहुः। उपाधिः परम्परासम्बन्धेन जातिरेवेत्युपाधिविरोधः परम्परासम्बन्धेन जातिविरोध एव पर्यवसितः स चासंभवी परम्परासम्बन्धेन सर्वजातीनां सर्वत्र वृत्त्या विरोधोदाहरणाभावात् / एवञ्च साक्षात्सम्बन्धेनैव तदतज्जातीयत्वं विरुद्धत्वं न तु परम्परासम्बन्धेनापीति जात्योरेव तादृशयोन सहभावो न तूपाध्योरपीति / न चैवं घटाभावत्वपटाभावत्वयोरपि समावेशः स्यादिति वाच्यम् / केनचित् सम्बन्धेन विरोषसिद्धावपि सामान्यतः परम्परासम्बन्धेन विरोधाषिद्धेः। स च विरोधप्रयोजकी. भृतः सम्बन्धः प्रतीतिबलकल्पनीय इति / जात्योस्तु तादृशयोः समवायेन सामान्यत एव विरोध कारणत्वस्यान्यत्र परिच्छेदसम्भवात् / अधिकाशङ्काया व्याघातेन प्रागेव निरस्तत्वात् / तव तु मते सहकारिवादानभ्युपगमात् , जातेः कारणतायामिव तद्विरहस्याकारणतायामप्यप्रयोजकत्व. प्रसङ्गात् / प्रयोजकतया कल्पितस्य कुर्वद्रूपत्वस्याभावोऽन्यजातीये प्रत्यक्षेण न हि निश्चयः कार्याभावेनैव तनिर्णये परस्पराश्रयप्रसमात् / अन्यजातीयात् कार्योत्पत्तिसम्भावनाया दुरित्वादिति / अनेवम्भूतानाम् = भूतत्वमूर्त्तत्वकार्यस्वादीनामित्यर्थः / विरुद्धानाम् = परस्परपरिहारवताम् / व्यक्तिभेदातव्यञ्जकाश्रयभेदात् /