SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रथमस्तवके ] क्षणभङ्गनिराकरणम् / 165 मैवम् / कम्पजनकाः शिशपाजनकविशेषा अपि सन्तस्तानतिपतन्ति, न तु वृक्षजनकविशेषाः शिंशपाजकास्तानिति नियामकाभावात् / शिशपाजनकास्तद्विशेषा एव कम्पकारिणस्तु न तथा, किन्वागन्तवः सहकारिण इति चेत् / एवं तहि तानासाद्य सदृशरूपा मपि केचित् कम्पकारिणेऽनासादितसहकारि. पस्तु न तथा, तथा च तद्वा तादृग्वेति न कश्चिद्विशेषः स्यात्। तस्माविरुद्धयो. बोधनी। इत्यर्थः / निराकरोति-मैवम्-इति / विशेषा एव केचित्स्वपरसामान्य व्यभिचरन्ति केचि. न्नेति न नियमहेतुरस्तीति / दर्शनं त्वन्यत्र नोदनादीनामस्वभावभूतानामेव सहकारित्वादुपपन्नमिति भावः / एवं नोदनादीनां स्वभावत्वे दूषिते प्रामाणिकं सहकारिवादमगत्यावलम्बतेशिंशपा-इति / तद्विशेषा एव=वृक्षजनकविशेषा एव, तथा शिंशपाया एव जनकविशेषाः, ततश्च सिद्धः कम्पशिंशपयोविशेष इति पूर्वोक्तमेव निराकरणं स्मारयति-एवं तर्हि-इति / सहशरूपा जातिभेदसामर्थ्य विरहिण इत्यर्थः / न तथा-न कम्पकारिण इत्यर्थः / जात्यभेदेऽपि व्य. तिभेदादेव सिध्यति क्षणिकत्वमित्यत्राह-तथा व-इति। एकजातीयस्यैव सहकारिलाभात् कार्य. जनकत्वाङ्गीकारे सति पूर्वैव शिंशपाव्यक्तिः सहकारिसंनिधानात् कम्पहेतुर्वा भवेत् , स्वोत्पत्त्यनन्तरमेव न दृष्टा पूर्वव्यक्तिः, तज्जातीया तत्संतानान्तःपातिनी स्वन्या सहकारिसमवधानात कार्यजननीह भवेदिस्यत्र न कश्चिद्विशेषः उभयत्रापि सहकार्यायत्तत्वात्कार्यकारणस्य; तथा च न क्षणिकत्वसिद्धिरिति / तदेवं विरुद्धयोरेव क्वचित्समावेशे क्वचिदपि बिरोधासिद्धविपक्षे बाधका. भावात् स्वभावहेतुर्ने सिभ्यतीत्युक्ते तस्य विपक्षे बाधकमाशङ्कथ यथा तन्न सिम्यति तथोक्तम् / इदानी प्रकृतमुसंहरति-तस्मात्-इति / ननु नीलमुत्पलं चलतीत्यादौ विरुद्धानामपरापरभूतानामेव नीलत्वादिसामान्यादीनां समावेशो दृश्यते / न च तत्र परापरभावः, नीलस्य परत्वे रक्त. मुत्पलं न स्यात् , उत्पलस्य परत्वे नीलं नीलीपुष्पं न स्यात् , न च नास्ति विरोधः ? कुर्वत्त्व प्रकाशः। तामेव शिंशपासामप्रीमेवेत्यर्थः / आशयमुद्घाटयति / कम्पजनका इति। शिशपाजन- . काना कारणानां विशेषाः / तान् शिंशपाजनकान् , वृक्ष जनकाना कारणानां विशेषाः। तान् = वृक्षजनकानित्यर्थः / तद्विशेषाः वृक्षजनकविशेषा इत्यर्थः / एवं तीति / तज्जातीय एव सहकारिलाभालाभाभ्यां कार्यजननाजनने इति कुतः क्षणिकस्वमित्यर्थः / वैजापनिराकरणमुपसंहरति / स्यादिति भावः / कम्पजनका इति / अस्मन्मते चलनं नोदनं मूर्तद्रव्यं च परस्परं भिन्न सहकारिवादश्चास्तीति शिंशपासामग्यनन्तभूता चलनसामग्री सम्भवति। तव तु मते शिंशपैव चलनास्मिका उत्तरव्यक्तिः, शिंशपैव नोदनास्मि का पूर्वव्यक्तिरिति चलनकार्य प्रति कुर्वदूपत्वविशे. पापन्ना नोदनात्मिका शिंशपेव कारणमिति चलनसामग्री शिंशपासामग्न्यन्तभूतव भवतीति कम्पजनकाः शिंशपाजनकविशेषतया केनचित् प्लक्षादिजनकविशेषतया शिशपादिकम्पमात्रदर्शि. ना गृहीता अपि कायें शिंशपाद्यात्मककम्पे वैजास्यस्य स्वयानङ्गीकारात् / कम्पसामान्यजनकाः प्लक्षात्मककम्प कार्यजननस्थले पश्चाद् दृष्टे शिंशपाजनकविशेषानतिपतन्तीत्यभ्युपेयम् / तथा वृक्षशिशपास्थले कुतो न स्यात् दर्शनं नियामकमिति चेत् , तत्र न द्रक्ष्यते इत्यत्र का प्रत्याशेस्यस्योकप्रायस्वादिति भावः / अथ न्यायमते कथमेवं न शङ्केति चेन / व्यभिचारादर्शनसहकृ. तेनान्वयव्य तिरेकेण इष्टजात्यवच्छेदेन कार्यकारणभावे परिच्छिन्ने तज्जातिविरहनिबन्धनवाद.
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy