________________ 164 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 16 कारिकाव्याख्या _ नोदनाद्यागन्तुकनिबन्धनं चलनत्वं,न तु तद्विशेषमात्राधीनमिति चेत् / यदि नोदनादयः स्वभावभूतास्ततस्तद्विशेषा एव, अथास्वभावभूतास्ततः सहकारिण एव, ततस्तानासाद्य निविशेषेव शिंशपा चलनस्वभावानारभते इति, तथा च कुतः क्षणिकत्वसिद्धिः? / स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भव. न्तीति चेत् / एवन्तर्हि वृक्षसामन्यामागन्तुकसहकार्यनुप्रवेशादेव शिंशपाऽपि जायते इति न कश्चिद्विशेषः / एवमेतत्, किन्तु शिंशपाजनकास्तरुसामग्रीमुपा. दायैव, चलनजनकास्तु न तामेव किन्तु मूर्त्तमात्रम् , तथा दर्शनादिति चेत् / बोधनी। नोदनादि-इति। यथा वृक्षसामप्रीविशेषः शिंशपासामग्री, नैवं शिशपासामप्रयन्तर्भता कम्पसामग्री, किन्तु नोदनाभिघाताद्यागन्तुकहेतुकत्वाच्चलत्वस्य शिंशपात्वातिपातेऽपि न कश्चिद्विरोध इति / एतद्विकल्प्य निराचष्टे-यदि-इति / किं नोदनादयो भवन्मतानुरोधेन शिंशपास्वभावभूता भवेयुः, अस्मन्मतानुरोधेनास्वभावभूता वा ? पूर्वत्र शिंशपाविशेषा एव नोदनादयः, अशिंशपायाः शिंशपास्वभावत्वायोगात्, तत्र च पूर्वोक्तं शिशपातुल्यत्वं तदवस्थमेव / उतरत्र कम्पजनने शिंशपायाः सहकारिणो नोदनादयः स्युरिति / सन्तु सहकारिणः का नो हानिरित्यत्राह-तत:इति / निर्विशेषेव जातिभेदं व्यक्तिभेदं विनेति यावत् / चलस्वभावान्चलनात्मकान स्वभा. वान् धर्मान् , चलनात्मिकाः क्रिया इत्यर्थः / पुनः शङ्कते-स्वभावभता:-इति / स्वभावभूताःशिंशपायाः स्वभावभूता एव नोदनादयः ते चागन्तुकनोदकादिसहकारिसंनिधानाधीनजन्मानः, ततश्चागन्तुकसहकार्यनुप्रवेशाच्चलनजननस्वभावं शिशपान्तरं जायत इति क्षणिकत्वं सिद्धयति, सिद्धयति चाशिंशपाया अपि चलद्रूपत्वं नोदनाद्यागन्तुकसहकारिणां पलाशादावपि संभवादिति / तर्हि शिंशपाया अपि वृक्षातिपातः स्यादित्याह-एवं तहि-इति / शङ्कते-एवम्-इति / एव. मविशेषे सत्येतत्त्वदुक्तं स्यात् , किंतु विशेषोऽस्तीत्यर्थः। यथा वृक्षसामप्रथामागन्तुकशिंशपाबीजवादिसहकार्यनुप्रवेशात् शिंशपोत्पत्तिरित्येतत्सत्यं, तथाप्ययं विशेषोऽस्तीति तमेव विशेषमाह-शिशपा-इति / उपादायैव शिंशपा जनयन्तीति शेषः / न तामेव शिशपासामग्रीमुपादायैव चलत्वं जनयन्ति किन्तु मूतमात्रमुपादाय, पलाशादीनामपि कम्पदर्शनात् / शिंश. पासामग्री तरुसामी न व्यभिचरति, चलसामग्री तु शिंशपासामग्री व्यभिचरतीति विशेष प्रकाशः। नोदनेति / नोदनादयः किं शिंशपाविशेषा एव, तद्विशेषजनका वा ? द्वयमपि नास्ती. त्याह / यदोति / तथा च तेषां तथाभूतानामेव शिंशपाव्यभिचारे शिंशपा वृक्षं व्यभिचरेदिति भावः / ननु सदृशरूपेषु उपादानकारणेषु सत्सु सम्भूयमात्रकारिणो नोदनादय इत्यत आह / अथेति / भावस्य समर्थकस्वभावत्वेऽपि कार्यकरणाकरणयोः सहकारिलाभा. लाभप्रयुक्तत्वात् प्रसातद्विपर्यययोरभावे प्रतिबन्धासिद्धरनुमानात् कुतः क्षणिकत्वमित्याह / तथा चेति / शिंशपायाः स्वभावभूता अपि नोदनादय आगन्तुकसहकार्यनुप्रवेशाज्जायमानाः शिंशा विना भविष्यन्तीत्याह / स्वभावेति। एवं वृक्षस्वभावभूता शिंशपाऽऽ. गन्तुकसहकारिवशेन जायमाना वृक्षं विनाऽपि स्यादिति गूढाशय आह। एवं तीति / बाशयमविद्वान् शङ्कते / एवमिति / किन्त्विति / भागन्तुका अपि तद्वयाप्या एवेत्यर्थः / प्रकाशिका। नादनादय इति / संयोगस्यानजीकारात् सकम्पशिशपापूर्ववत्तिशिशपा नोदनपदेनोच्यते /