________________ प्रथमस्तवके ] क्षणभङ्गनिराकरणम् / 163 विरोधासिद्धः। ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः। नम्वस्ति तत् / तथा हि / वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री, सा, वृक्षमतिपत्य भवन्ती स्वकारणमेवातिपतेत् / एवं, शाखादिमन्मात्रानुबन्धी वृक्षव्यवहारः तद्विशेषानुवन्धी च शिंशपाव्यवहारः, स कथं तमतिपत्याऽऽत्मानमा. सादयेदिति चेत् / एवं तहि शिंशपासामग्यन्तर्भूता चलनसामग्री, ततस्तामतिपत्य चलनादिरूपता भवन्ती स्वकारणमेवातिपतेत् / तथा, शाखादिमद्विशेषानु. बन्धी शिशपाव्यवहारस्तद्विशेषानुबन्धीच चलनव्यवहारः। स कथं तमतिपत्या. मानमासादयेदिति तुल्यम् / बोधनी। इत्याह-तत:-इति / तादात्म्येन प्रतिबद्धो हेतुः स्वभावः, यथा शिंशपात्वं वृक्षत्वस्य / क्वचिदपि विरोधासिद्धाववृक्षेऽपि शिंशपात्वसमावेशसम्भवात्तस्य प्रतिबन्धो नास्तीति / स्वभावहेतोर्विपक्षे बाधकमाशङ्कतेननु-इति / वृक्षसामग्रयन्त ता शिंशपासामग्री तदविनाभूता तत्कारणिकेति यावत् / ततश्चा. वृक्षे वृक्षसामप्रयभावेन स्वभावसामग्रथमावास्छिशपा न भवति / तेनावृक्षलक्षणे विपक्षेऽपि शिंशपात्वस्य सामग्यभावो बाधकमित्यर्थः / शिंशपाव्यवहारेण वृक्षव्यवहारे साध्येऽप्येतदेव विपक्षे बाधकमित्याह-एवम्-इति / यदि च शिंशपाव्यवहारो वृक्षव्यवहारमतिपतेत् तत. स्तयोः सामान्यविशेषभावो न स्यादिति भावः / यद्यप्यत्र क्वचिदपि विरोधासिद्धौ शिशपातयः वहारयोवृक्षतद्वयवहारातिपातेऽपि न विरोध इत्यपि परिहारः संभवी तथापि परिहारवैभवादन्यथा परिहरति-एवं तहि-हति / एवं विधस्य विपक्षे बाधकस्य तुल्यत्वाच्छिशपास्वादान्तरजातिविशेषेण कम्पकारित्वेन शिंशपात्वानुमानं तद्वयवहारेण शिंशपाव्यवहारानुमान प्रसज्येत / न च तच्छक्यं शिंशपात्वानन्तभूतस्य पलाशादेरपि कम्पजनकत्वादिति / प्रकाशः। स्वादित्याह / तत इति / विपक्षे बाधकान्तरमाह। . नन्वस्तीति / तदु-विपक्षे बाधकम् / शिंशपात्वेन वृक्षत्वं साध्यं, वृक्षन्यववहारो वा ! उभयत्र कार्यकारणभावो विपक्षे बाधक इत्यर्थः / तथा च चलपत्रता शिशपात्वं, तद्वयवहारश्च शिशपाव्यवहारं न व्यभिचरेदित्याह / एवं तहीति / न च शिंशपासामग्यन्तवर्तिन्येव चलपत्रतासामग्री, किन्तु तद्भिन्न वेत्याह / ततो विपक्षे बाधकादिति / यश्चान्वयव्यतिरेकेण कार्यकारणभावः शिशपावृक्षसामग्यो गृहीतः, स च सहकारिनियमानादरेण त्वया तिरस्कृतः कुर्वद्रूपत्वेनातीन्द्रियेण कार्यदर्शनकसमधिगम्येन कारणता चावृक्षसामग्न्याः कदाचित् क्वचिच्छिशपोत्पत्तिदर्शनसम्भावनयाऽवृक्षसामग्री साधारणतया सम्भाविता सत्यवृक्षमूलभूतामपि शिंशपां सम्भावयतीत्यत इति ततः शब्दार्थः / उक्तयुक्त्या विरुद्धजातीनां समावेशशङ्कायो कार्यकारणभावमात्रोच्छेदसम्भावनात इति वार्थः। स्वभावहेतुरिति / वृक्षत्वानुमापकत्वेन सम्प्रतिपन्नस्य वृक्षस्वभावशिंशपात्वस्य व्यभिचारशङ्कयाऽनुमापकत्वासम्भवात्। शिंशपेति / शिशपादीत्यर्थः / चलनादिसामग्रीति / वन्मतप्रसिद्धति शेषः। अतिपत्येति / शिशपात्मकचलनस्थले प्लक्षसामग्या प्लक्षात्मकचलनस्थले शिंशपासामग्य अतिपतनेऽपि यथा चलनरूपताया आत्मलाभः, तथा वृक्षमामाध्यतिपातेऽपि शिंशपाया आत्मलाभः 25 न्या० कु०