________________ 192 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 16 कारिकाव्याख्यायो परस्परपरिहारवत्याने समावेशः स्यात्। दृश्यते तावदिदमिति चेत्। गोत्वाश्वस्व योरपि न द्रक्ष्यते इति का प्रत्याशा ? तथा च गतमनुपलब्धिलिङ्गेनाऽपि / क्वचिदपि बोधनी। म्पकारिणः शिंशपात्वात् कम्पकारिणो वैजात्यमभ्युपगन्तव्यम् , ततश्च कम्पजनकाजनकयोः शिंचपातदवान्तरविशेषयोरसमावेशप्रसङ्गः। तयोरपि परस्पराभावस्वादिति / यद्वा, कार्ययोः परस्परपरिहारेण स्थितेः सामप्रीविरोध इति तत्कार्ययोरित्यनेनाशङ्कय यदि कचित्परस्परपरिहारदर्शनेन सामप्रीविरोधमुन्नीय कार्ययोः सर्वदा सर्वत्रासमावेशः कल्प्येत तर्हि कम्पशिंशपयोः कदा. चिदसमावेशदर्शनात् सर्वदा सर्वत्रासमावेशप्रसङ्ग इति परिहारमाह-तर्हि-इति। दृश्यत इति / परस्परपरिहारेऽपि कम्पशिंशपयोः समावेशो दृश्यते न तु गोत्वाश्वत्वयोरिति नाप्रसङ्गातिप्रसङ्गाविति / गोत्वाश्वत्वयोरिति / परस्परपरिहारवतोरपि क्वचित्समावेशदर्शनादत्रापि तत्सं. भावना दुष्परिहरेति / एवं तावज्जनकाजनकयोः समावेशाङ्गीकारे सर्वत्र गवाश्वादिविरुद्धसमा. वेशसंभावना निष्प्रत्यूहं प्रवर्तत इति स्थितम् / एवं भूमिकामारचय्य तत्र विवक्षितमनुमाना. भावं निवेशयति-तथा च-इति / कार्यलिङ्गवदनुपलब्धिलिङ्गकेनापि गतमिति। तथा चेति परामृष्टं हेतुं स्पष्टयति-काचिदपि-इति / एषा हि बौद्धपरिभाषा अनुपलब्धिरसद्वयवहारयो. ग्यत्वं प्रतिबन्धबलेनानुमापयति / प्रतिबन्धश्चानुपलब्धेः सद्वयवहारविरोधास्सिद्धयति यथाह न गोत्वमस्ति अश्वत्वादिति गोत्वविरुद्धाश्वत्वोपलब्धिरूपा गोत्वानुपलब्धिर्गोस्वाभावं गमयतीति / तत्र यदि विरुद्धयोरपि समावेशः स्यात् तदानुपलब्धेरपि सद्वयवहारयोग्यत्वसमावेशसंभवेनासवयवहारयोग्यतया प्रतिबन्धासिद्धेर्गतमनुपलब्धिलिङ्गकमिति / अत एव स्वभावहेतुरपि निरस्त प्रकाशः। स्थितेरित्मर्थः / दर्शनादर्शनकृत एव समावेशासमावेश इत्याह / दृश्यत इमि। यथा तयोर. न्योन्यपरीहारस्थितयोरपि क्वचित्समावेशस्तथा तादृशयोर्गोत्वाश्वत्वयोरपि समावेशः स्यादित्या. शङ्कयेतेत्याह / गोत्बेति / गोत्वाश्वत्वयोः समावेशे दूषणमाह / तथा चेति / गोत्वाश्वत्वयोः समावेशेन विरोधासिद्धौ गोत्वस्याश्वत्वविरुद्धस्योपलब्भ्याऽश्वस्वाभावानुमानं न स्यात् / तथा च कार्यलिङ्गकमनुमानं गतमिति प्रागुक्तं, सम्प्रत्यनेनापि गतमित्यर्थः / क्वचिदपीति / अन्यत्र समावेशसंशयादिति भावः / एवं च वृक्षं विना शिंशपाऽनुपलब्धिरूपविपक्षबाधकनिश्खेयं शिशपाया वक्षस्वभावत्वमपि न निश्चीयेत / शिशपांत्वमपि वृक्षत्वं व्यभिचरेदिति शङ्कायाः स. जायते / अश्वस्याप्ययं स्वभावो यद्गोस्वपरिहारेणैव जायत इति स्वभावादेव यावत्कार्ययोधर्मपरि हारनियम इति कुतो धर्मयोः समावेशसम्भव इति भावः। परिहारवत्योरिति / परिहारः परस्परधर्मयोः कम्पत्वशिंशपात्वयो!ध्यः / समावेशः स्यादिति / न च तयोरसमावेशः कम्प त्वस्य क्रियाधर्मस्वादिष्ट इति वाच्यम् / गुणक्रियाद्रव्याणां भेदस्य तैरनभ्युपगमेन कम्पात्मकशिशपालक्षणक्षणिकव्यक्ती समावेशस्य सम्भवादिष्टापत्तेरयोगात् / ___ कम्पत्वशिशपात्वयोः समावेशदर्शनात् परस्परपरिहारो न स्वभावः कम्पशिशपयोः किं तु सामग्रीसमावेशासमावेशनिबन्धनः / गवाश्वयोस्तु स्वभाव एव समावेशदर्शनात् स्वभावत्यागो न कस्यापीष्ट इति शकते / दृश्यत इति / अनुपलधिलिङ्गेनापीति / अनुपलब्धिर्लिङ्गज्ञापकं यत्र तथा चातुपलब्धिमूलकेनेत्यर्थः। गोत्वेनाश्वत्वाभावानुमाने विरोधप्रहो मूकम् तत्रापि गोत्ववत्यश्वत्वानुपलब्धिमूकमिति भावः।