________________ 188 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाखलौ [ 16 कारिकाव्याख्यायो भावात् / व्यावर्त्यभेदाभावेन विरोधानवकाशे भेदानुपपत्तेः / बोधनी। एवेत्याह-व्यावत्य-इति / अपोह्यभेदेनापोहाना विरोधस्ततश्च तेषां भेद इत्यपोहवादः / तत्र प्रकाशः। शब्दोच्छेदप्रसङ्गाद् बाधकाच्चेति भावः / प्रमाणाभावमेवाह। व्यावत्येति / यथा वृक्षत्वशिंशपात्वयोव्वय॑भेदाद्विरोधः, एकस्य ह्यवृक्षमात्रं व्यावय॑म् , अन्यस्य वृक्षविशेषोऽ. पि पनसादिः / न तथा बुद्धित्वज्ञानस्वयोव्योवय॑भेद इत्यर्थः / ननु समाविष्टयोर्जात्योर्न परापरभावनियमः। घटस्वसुवर्णस्वयोर्व्यभिचारात् / न चोपष्टम्भकपार्थिवभागवृत्त्येव घटत्वं, न सुवर्णवृत्तीति वाच्यम् / एवमपि काष्ठपाषाणघटादावप्रतीकारात् / नाऽपि माद एव घटे घटत्वम् , अन्यत्र तु तथाविधसंस्थानवत्त्वगुणयोगाद् गौणो घट. व्यवहारः / मुख्यत्वस्य विनियन्तुमशक्यत्वात् / अथ संस्थानवृत्त्येव घटत्वं, न द्रव्यवृत्तीति न तयोः समावेशः, संस्थानं हि अवयववृत्तिः संयोग एव / युक्तं चैतत् / कथमन्यथा तस्मिन्नेव सुवणे तसंस्थानसत्वासत्त्वाभ्यां घटतदभावव्यवहार इति / तन्न / तत्राप्यन्यतरकर्मजत्वादिना सङ्करप्रसशात् / गुणगतजातौ न साङ्कर्यदोष इति मतनि/जमेव / __ अत्राहुः / सुवर्णत्वादिव्याप्यं नानैव घटत्वम् / न चैवं सुवर्णादिघटेष्वनुगतव्यवहारो न स्याद् , घटत्वस्य प्रत्येकविश्रान्तत्वेन व्यक्तिस्थानीयत्वादिति वाच्यम् / भिन्नजातीयघटेषु ताहशसंस्थानवत्वेनोपाधिना तथा व्यवहारात् / तर्हि संस्थानवृत्त्येवान्यतरकर्मजत्वादिव्याप्यं नानव प्रकाशिका। नोति / पर्यायेति / व्यावय॑भेदाद विरोध इति / व्यापकजातिसंगृहीतस्य कस्यचित् प्रतिक्षेप एवं व्याप्यजात्या तयोविरोध इति ध्येयम् / मुख्यत्वस्येति। मार्दघटमध्यस्थिते सौ. वर्णघटमानयेति व्यवहारवत् सौवर्णघटमध्यस्थिते माई घटमानयेति विशेषादिति भावः / तत्राप्यन्यतरेति / संयोगकर्मजन्यतावच्छेदकजात्या सङ्कर इति भावः / गवाश्वाकारकरम्वितवस्तू. पलम्भापत्तिर्जातिसङ्करे बाधिका ज च रूपरसयोः साकारत्वं अवयवसंस्थानस्याकारत्वा. दित्याशयेन गुणगतजातौ न साङ्कयंदोष इति प्रवादस्तं निषेधति / इति मतं निर्वीजमे. वेति / रूपरसात्मकवस्तूपलम्भापत्तेर्गुणगतजातावपि बाधकत्वादिति भावः / तादृशसंस्था. नवत्त्वेनेति / संस्थानञ्च घटसमानाधिकरणमेकजातीयमेव, अन्यतरकर्मजत्वादिकन्तु तद्व्याप्यं नाना / तत्रानुगतव्यवहारस्यान्यतरकर्मजस्वादिना संभवात् / न च संस्थानवृत्त्येकजाती मानाभावः घटोऽयं धटोऽयमिति नानाजातीयघटीयपरम्परासम्बन्धेनानुगतव्यवहारोपपादकस्वात् / न च तथा सति द्रव्यवृत्तिनानाजातेः सुवर्णस्वादिव्याप्यायाः स्वीकारे किं प्रमाणमिति वाच्यम् / महानीलो घट इति प्रयोगस्य साक्षात्सम्बन्धधर्मेणोपपत्तो परम्परासम्बन्धनिमित्तकत्वाकल्पनात् / अत एव च घटपदस्य नानार्थत्वमप्यनन्यगतिकत्वात् / अन्यथाक्षादिपदेऽप्यन्या न्यत्वं निमित्तमादायैकार्थत्वं किं न कल्प्यते तादृशी न प्रतीतिरिति तु प्रकृतेऽपि तुल्यम् / तहीति / यद्यपि संस्थानवृत्त्येकैव जातिरित्युक्तम् / तथापि जातित्रयस्वीकारेऽपि सुवर्णत्वादि. मकरन्दः / इह विवक्षित इति बोध्यम् / न चोपष्टम्भकेति / समाविष्टस्वमेव नानयोरिति भावः / ननु संस्थानवृत्तित्वेऽपि कथं न द्रव्यवृत्तित्वमत आह / संस्थानं हीति / संस्थानत्तित्वे युक्तिमाह / युक्तञ्चैतदिति / गुणगतजाताविति / तद्दोषताप्रयोजकस्य बीजस्य तुल्यत्वादिति भावः। तादशेति / यद्यप्यवयवसंयोगात्मकसंस्थानं नावयविनि, तथापि परम्परासम्बन्धेन तद्वत्त्वं बोध्यम् / अत एव तदेकार्थसमवायिद्रव्यत्वं तत्त्वमिति वक्ष्यतीति भावः / एवञ्च घटपदप्रव