________________ 187 प्रथमस्तवके ].. अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् / यवस्थापनम्। एवं, विधिरूपयोावृत्तिरूपयार्वा जात्याविरोधे सति न समावेशः, समाविष्टयोश्च परापरभावनियमः, भन्यूनानतिरिक्तवृत्तिजातिद्वयकल्पनायां प्रमाणा - बोधनी। कार्यबिरुद्धव्याप्तोपलब्धयश्चेति चतस्रः। तत्र चानुपलब्धिकार्यप्रतिषेधसामर्थ्यादुपलब्धीनामप्यनुपलब्धिव्यवहारः / सर्वासामासां न कार्यगतातीन्द्रियविशेषनिषेधे सामर्थ्यम् / अतीन्द्रियेण सह विरोधित्वकार्यकारणत्वव्याप्यव्यापकत्वानामशक्यनिश्चेयत्वादित्यर्थः / एवं वैजात्यानीकारे कार्यलिगकमनुमानं न सिध्यतीत्युक्तम् / इदानीमनुपलब्धिलिङ्गक स्वभावहेतुकं च यथा न सिध्यति तथा दर्शयितुं भूमिकामारचयन् जात्याभ्युपगमे बाधकान्तरमाह-एवम्-इति / यथातथा वा भवतु जातिस्वरूपं, सर्वथा तु तस्य कुर्वत्त्वजातिभेदस्य बोजत्वेन स हैकस्या व्यक्ती न समावेशः संभवति / कुर्वत्त्वाकुर्वत्त्व. योविरोधाद् यदि समावेशः स्यात्ततस्तस्य शालित्वं प्रति परत्वं वा स्याद् वृक्षस्ववत् , अपरत्वं वा स्याच्छिंशपात्ववदिति / न चोभयमपि संभवति, परत्वे शालिजातीयं सर्वमपि कार्य कुर्यात् , अपरत्वे खशालिजातीयमङकुरं न कुर्यादिति भावः / अत्र परापरभूतयोर्जात्योरसमावेश एव साध्यः, समाविष्टयोस्तु परापरभावः प्रसादुक्त इति / उत्तरस्मिन्साध्ये हेतुमाह-मन्यूनइति / अनुवृत्ताकारावभासिनी हि प्रतीतिर्जातिसद्भावे प्रमाणम् / तस्याश्चैकयैव जात्योपपत्तौ न तावरस्वेव पिण्डेषु जात्यन्तरे प्रमाणमस्तीति / व्यावृत्तिरूपयोरपि जात्योः समावेशे परापरभाव * प्रकाशः। वेत्रात्ये जातिसङ्करं बाधकान्तरमाह एवमिति / विधिरूपयोरिति स्वमते, व्यावृत्तिरूपयोरिति परमते / विरोध: परस्पराभा. वसहवृत्तित्वम् / कुर्वद्रूपत्वस्य शालित्वव्याप्यत्वे यवबीजे तदभावः / व्यापकत्वे कुशूलस्वशाली तदभावः स्यादिति परस्परव्यभिचारे तयोरेकत्र समावेशो न स्यादित्यर्थः / भन्यूनेति / पर्याय प्रकाशिका / स्थले तच्छङ्कितमत आह / विरोधः परस्परेति। कुर्वद्रूपत्वस्येति / अङ्कुरकुर्वद्र परवस्येत्यर्थः। एकत्र समावेश इति / क्षेत्रपतितशालिबीज इत्यर्थः / ननु समाविष्टयोः परापरभावनियम इति मूलमयुक्तं घटत्वकलशत्वयोयभिचारात् परापरभावस्य न्यूनाधिकवृत्तित्वरूपत्वादित्याशङ्कायो मानाभावेन तादृशजात्यभावप्रतिपादकं मूलमन्यूनेत्यादि तत्र बाधकमपि हेतुत्वेन समुच्चि मकरन्दः। विरोध एव नास्ति, सामानाधिकरण्यादित्यत आह। विरोध इति / पर्यायेति / सर्वत्र प्रवृत्तिनिमित्तभेदसम्भवेनैकप्रवृत्तिनिमित्तकत्वाभावादिति मावः / अनुगतबुद्धिबलात्तेषु नियामक सिद्धय. रुलाघवादेकमेव सिद्धयतीति नान्यूनानतिरिक्तव्यक्तिकजातिद्वयस्वीकार इत्यपि द्रष्टव्यम्। विरोध इति / यद्यप्यत्र विरोधो न सामानाधिकरण्याभावो, नापि परस्परात्यन्ताभावववृत्तित्वं, तयोर्व्याप्यव्यापकभावाभ्युपगमात् / तथाप्यन्यूनानतिरिक्तव्यक्तिव्यतिरिक्तत्वाभाव एव स जात्योरिति / अनुगतप्रत्ययानुरोधेनाखण्डतया कल्पितयोरित्यर्थः। तेन तेषां जातिपरि. भाषाऽभावेऽपि न क्षतिः / उपाधिश्च नाखण्डोऽनुगतः सप्तपदार्थवादिनामपि हीष्ट इत्याशयः। विरोधे परस्परपरिहारेण वृत्तौ सत्याम् /