________________ 186 व्याख्यात्रयोपेतप्रकाशबोधनीयु न्यायकुसुमाखलौ [ 16 कारिकाव्याख्यायां मान्यस्य वान्यत् प्रयोज्यान्तरं दृश्यते ? यतो विवक्षितसिद्धिः स्यात् / शङ्का तूभ. यत्रापि सुलभेति / कार्यजन्माजन्मभ्यामुन्नीयत इति चेत् / न / सहकारिला. भालाभाभ्यामेवोपपत्तेः। उन्नीयतां वा, कार्येषु शङ्किष्यते, निषेधकाभावात् / न हि धूमस्य विशेषं दहनप्रयोज्यं प्रतिषेधुं स्वभावानुपलब्धिः प्रभवति, कार्गकनिश्चेयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः। कायस्य चातीन्द्रियशपि सम्भवात् / अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति / / बोधनी। निषेधकाभावादित्याशय सा तर्हि कार्यगतविशेषे सुलभेत्याह-शङ्का तु-इति / यद्वा, कार्यगतविशेषे शङ्कामात्रमेव न तु निश्चयोऽनुपलम्भादित्याशङ्कय कारणगतेऽपि शङ्कामात्रमेवेत्याहशङ्का तु इति / कार्य-इति / ननु मा भूत्कारणगतो विशेषः प्रत्यक्षः, तथापि न तत्र शङ्कामात्रं, किं तर्हि कुसूलस्थालवालस्थयोः कार्यारम्भानारम्भाभ्यामनुमीयतेऽस्ति वैजात्यमिति। न-इति / कार्यजन्माजन्मनोरन्यथासिद्धत्वान्न ताभ्यां वैजात्यं सिद्धथतीत्यभ्युपेत्याह-उन्नीयताम-इति / निश्चीयता कारणगतो विशेषः, कार्यगतविशेषस्व निश्चयाभावेऽपि शङ्कोत्पद्यते, साधकवत् बाधकस्याप्यभावाद्। अनुपलब्धस्यैव कारणगतस्य कल्पनादर्शनाच्च शकोपपते: शङ्कामात्रेणापि प्रतिबन्धमूलं तदुत्पत्तिन सिध्यतीति भावः / कार्यगतविशेषं स्वरूपानुपलब्धिरेव निषेत्स्यतीत्यत आह-ज हि इति / किमिति न प्रभवति तत्राह-कार्य-इति / शङ्कयमानस्य कार्यगतविशेषस्यातीन्द्रियस्वेन कार्यलिङ्गेन निश्चेतव्यत्वात् कार्यानुपलब्ध्यैवानिश्चयोपपत्तेरिति / अस्तु तर्हि कार्यानुपलब्ध्या तत्प्रतिषेधोऽत आह-कार्यस्य इति / कार्यगतविशेषव. तत्कार्यमपि किञ्चिदतीन्द्रियमस्तीति संभावनायो कार्यानुपलब्धिः, तं प्रतिषेधति-अत इति / मत एव, यत एव स्वभावानुपलब्धि प्रभवति अत एवेत्यर्थः / सन्ति हि षोडशानुपलब्धयःस्वभावानुपलब्धिः स्वभावविरुद्धकार्यानुपलब्धिः स्वभावविरुद्धव्याप्तोपलब्धिरिति चतस्रः, कार्या. नुपलब्धितद्विरुद्धकार्यविरुद्धव्याप्तोपलब्धयश्चेति चतस्रः, तथा व्यापकानुपलब्धिस्तद्विरुद्धविरुद्ध. प्रकाशः। नोच्यते, अपि तु शङ्कयते तत्राह / शङ्का विति / ननु न कारणवैजात्यं शङ्कपते, येन तत्कार्येऽपि वैजात्यशङ्का स्यात् / किं स्वनुमानसिद्धम् / तथा हि यदि यः प्रागजनकः स एवोत्तरकालमनुवर्तते तदा कथं ततः कार्यजन्म / जनकस्य वा तत्पूर्व सत्त्वे कथं पूर्वमजननमिति कार्यजननाजननाभ्यां पूर्वोत्तरयोजात्यमनुमीयत इति शङ्कते। कार्येति / जननाजन. नयोरन्यथाऽप्युपपत्तेर्नानुपलभ्यमानवैजात्यानुमानमिति परिहरति / सहकारोति / निषेधकेति / साधकत्येव बाधकस्याप्यभावादित्यर्थः / नन्वनुपलब्धिरेव बाधिकेत्याह। न हीति / स्वभावानुपलब्धिः = योग्यानुपलब्धिः / वैजात्यस्याऽयोग्यत्वादित्यर्थः / कारौंकेति / सतोऽवि वैजात्यस्य व्यजकतत्कार्यानुपलब्धौ वाऽनुपलब्ध्युपपत्तेः। कार्यानुपलब्ध्या हि कारणं न निश्चीयते, न तु तदभावो निश्चीयते व्यभिचारादिति भावः / ननु धूमकायदर्शनेऽपि न धूम. वैजात्यं दृश्यत इत्यत आह / कार्यस्य चेति / धूमकार्यमन्द्रियकमेवेत्यत्र नियामकाभावादती. न्द्रियमपि तदस्तीति तत्प्रयोजकधर्मवैजात्यशङ्का स्यादित्यर्थः / अत एवेति / व्यापकानुपलब्धिरपि न तन्निषेधिकेत्यर्थः / उक्तशङ्कया तदुत्पत्त्यायनिश्चयेन व्यापकत्वानिश्चयादिति भावः / शेष्टापत्तौ तवापसिद्धान्त इति भावः / यद्वा कुवद्रूपत्वेनेत्यर्थः / तथा चानेन रूपेणार्थक्रियारहितत्वाभ्युपगमात् तव कुर्वदूरूपत्वं प्रामाणिकं न स्यादिति भावः। ननु शालिवकुर्वद्रूपत्वयो. मकरन्द: