________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् / . 185 गुष्टजातीयस्येतिशङ्कया न तदुत्पत्तिसिद्धिः। दृष्टजातीयमाकस्मिकं स्वादिति चेन्न / तत्राऽपि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरोधात् / न काय॑स्व विशेषस्तत्प्रयुक्ततयोपलभ्यते, नापि कार्यसामान्यस्यान्यत् प्रयोजकं दृश्यत इति चेत् / तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः? कारणसा. बोधनी। कार्यप्रयोजकत्वेनाभ्युपगमः, तर्हि तद्वदेव कार्येऽप्यनुपलम्यमान एव कश्चिज्जातिभेदः स्यात् यस्य वह्वयादिकारणापेक्षा, न तु दृष्टधूमादिजातीयस्य वह्वयायपेक्षेति शङ्कावकाशात् न प्रतिवन्धनिबन्धन तदुत्पत्तिः सिष्यति, तत्=कार्यलिङ्ग कानुमानेनेति भावः। दृष्ट-इति / यदि घूमायवान्तरजातिभेदे वह्नयादेरुपयोगः, तर्हि दृश्यमानं धूमादिजातीयमहेतुकं स्यात् , ततः कार्यऽवान्तरजातिशङ्कानवकाशेति / न इति / वहयादेर्धमावान्तरजातिभेदोपयोगेऽपि न धूमा. दिजातीयस्याकस्मिकत्वविरोधः, तत्रापि वढ्यादेरन्यदेव किञ्चिदनुपलभ्यमानं प्रयोजक भविष्य. तीत्यप्रामाणिकमेवाभ्युपगच्छतः किं नाम दुर्लभमिति भावः। न कार्यस्य विशेषः-इति / धूमादिगतविशेषो न वह्नयादिप्रयुक्ततयोपलभ्यते, नापि कार्यमात्रस्य धूमादिजातीयस्यान्यत् प्रयोजक दृश्यते, तेनानुपलभ्यमानयोः प्रयोज्यप्रयोजकत्वकल्पनमेव विरोध इति / तत्किम्-इति / वहयादिकारणगतो विशेषो धूमादिसामान्यप्रयोजको नोपलभ्यते। वह्नयादिविशेषस्य धूमादिप्र. योजकत्वे वयादिसामान्यस्यान्यत्प्रयोजनं वक्तव्यमर्थक्रियाविरहिणः सत्त्वानुपपत्तेः। तच्च नोपलभ्यते, तेन समानस्तादृशो विरोध इत्यनुपलभ्यमानोऽपि कारणगतो विशेषः शविष्यते प्रकाशः। भवल आकस्मिकत्वं स्यात् / तथा च कादाचित्कत्वव्याघात इत्यत आह / गुण्टेति / कारणं विना कार्यस्योक्तदोषो, न तु दृष्टजातीयं विनेति तत्र कारणान्तरं स्यादित्याह / तत्रापीति / न कार्यस्येति / कारणविशेषप्रयोज्यं कार्यस्य वैजात्यं, दृष्टजातीयस्य च प्रयोजकान्तरं योग्यानुपलब्धिवाधितमित्यर्थः / तत्किमिति / कुर्वपत्वमपि न कार्य प्रति कारणतावच्छेदक स्टम् , न चोपस्थितकारणतावच्छेदकरूपस्य प्रयोज्यान्तरमिति तदपि तथेत्यर्थः / न चेष्टापत्तिः / तेन रूपेणार्थक्रियारहितत्वात् त्वन्मते प्रामाणिकत्वं न स्यादित्यर्थः / अथ निश्चयेन प्रकाशिका। तदपि तथेति / कुर्वपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः / ननु यदि बीजवावच्छिन्नस्य न प्रयोज्यान्तरं दृश्यते तदामास्तु, अस्माकमिटमेव तदित्याशस्थाहान चेष्टापत्तिरिति।कश्चित्तु अस्तु बीजत्वमेवाकुरप्रयोजकमित्याशङ्कायो न चेष्टापत्तिरिति फक्किका तथा सति तेन रूपेण कुर्वत्पेन प्रामाणिकत्वं न स्यादित्युत्तरप्रतीकार्थ इत्याह / विरोधोऽसामानाधिकरण्यम् / न च जातिसकर मकरन्दः। तदपि तथेति / कुर्वद्रूपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः / न चेष्टापत्तिरिति / उपस्थितबीजत्वायेवाकुरादिप्रयोजकमस्त्वित्यर्थः। तेनेति / बीजवादिनेत्यर्थः / तथा च ताह. प्रवृत्योपयिकस्वरूपयोग्यतात्मककारणतायां कार्यप्रसनवारणे यथा •न विशेषस्तथाऽभेदेऽपि न विशेष इत्यर्थः / न तदुत्पतिसिद्धिरिति / कारणत्वेन निर्णीतहष्टजातोयकार्योत्पत्तिनिर्णय इत्यर्थः / तथा च धूमसामान्यलिङ्गेन वह्वयनुमितेरपलापः। विशेषस्त्वनिर्णीत एवेति न लिङ्गताव. च्छेदकत्वयोग्य इति भावः / तत्प्रयुक्ततयेति / दृष्टजातीयकार्यप्रयोजकतया गृहीतस्य कल्पितवैजास्यवतः सकारणस्य प्रयुक्ततयेत्यर्थः / अन्यदिति / कल्पितविशेषवतः कारणादन्यदित्यर्थः / 24 न्या०कु०