________________ 184 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 16 कारिकाव्याख्यायां विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना // 16 // न हि करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्यभ्युपगगे क्षणिकत्वसिद्धिः। तथैकन्यक्तावविरोधात् , तद्वा तादृग्वेति न कश्चिविशेष इति न्यायात् / ततस्तावनादृत्य वैजात्यमप्राणिकमेवाभ्युपेयम् / एवञ्च कारणवत् काययेऽपि किश्चिद् वैजात्यं स्याद् यस्य कारणापेक्षा न तु बोधनी। नया कार्यादिलिङ्गकमनुमानमेवोच्छिद्येत / नन्वनुमानोच्छेदोऽस्माकं चार्वाकाणामिष्ट एवेत्यत आह-विना तेन-इति / न ह्यनुमानेन विना क्षणिकत्वसिद्धिः प्रमाणान्तराभावात् / नन्वस्ति प्रत्यक्षमित्यत्राह-नाध्यक्षम्-इति / कुत इत्यत्राह-निश्चयं विना-इति / निश्चयो विकल्पस्तेन विना न निर्विकल्पमानं कचिदपि प्रमाणं, निश्चयश्चात्र नास्तीति।। व्याचष्टे-न हि-इति / तन्त्रं प्रधानम् प्रयोजकमिति यावत् / कथं न सिद्धियोवता साजात्येऽपि करणाकरणलक्षणविरुद्धधर्मसंसर्गाद् व्यक्तिभेदः सिण्यतीत्यत्राह--तथा-इति / एकजातीयवदेकस्यामपि व्यक्तौ सहकारिवशेन करणाकरणयोरविरोधादिति / तद्वा इति / तत् = पूर्वकालवर्तिबीजं, तादक = तज्जातीयव्यक्त्यन्तरम् , यथा तज्जातीयस्यैव सतः करणाकरणे तथैकस्या एव व्यक्तेर्भविष्यत इत्यर्थः / उपसंहरति-ततः इति / तौ = प्रामाणिको सहकारिलाभालाभौ, अप्रामाणिकमिति वक्ष्यमाणोपय गितयोक्तम् , अमभ्युपग. न्तव्यं क्षणिकस्वसिद्धय इति शेषः / अस्तु वैजात्यमिष्टमेव हि नस्तदित्यत्र न तस्मिन्ननुमा भवेदित्येतदुपपादयितुमुपक्रमते ~एवम्-इति / यदि कारणेऽनुपलभ्यमानस्यैव वैजात्यस्य प्रकाशः। . र्थस्यैव सतः कार्यजननाजननयोः सहकारिसाहित्यतभावाभ्यामेवोपपत्तेः। तस्मिद्भवैजात्ये च प्रति क्वाप्यनुमितिनं स्यात् , उपस्थितं कारणगतरूपं परिहृत्यानुपलभ्यमानरूपान्तरेण कारणत्वे कार्येऽ. प्युपस्थितरूपमपहायानुपलभ्यमानरूपान्तरेण कार्यत्वशङ्कया कार्यकारणभावाप्रहात् / तेन चानु. मानेन विना न तत्सिद्धः, क्षणिकत्वसिद्धिरित्यर्थः / न च प्रत्याक्षादेव क्षणिकत्वसिद्धिरित्याह / नाध्यक्षमिति / मध्यक्ष निर्विकल्पकम् / निश्चयः सविकल्पकम् / क्षणिकत्व निश्चयाभावान तदुन्नेयं क्षणिकत्वनिर्विकल्प कमित्यर्थः तज्जातीस्येति / पूर्वाविशिष्टतज्जातीयस्यैवेत्यर्थः / तथैकेति / यैव पूर्वव्यक्तिः सहकारिवैधुर्यात् कार्यमा कार्षीत् सैव तत्प्राप्तौ करोतीत्यत्र विरो. धाभावादित्यर्थः / ननु दृष्टतज्जातीयाऽपि व्यक्तिस्तदन्यैवेत्यत आह / तति / तत् = यदेव पूर्वकालवृत्ति तदेवोत्तरकालवृत्ति / तादृग्वैजात्यशून्यमन्यदित्यर्थः / ननु दृष्ट जातीयस्य कारणं विना करणाकरणयोकार्यजनकत्वाजकत्वप्रयुक्ततयाऽभ्पुपगतयोः कार्योत्पादनानुत्पादनयोः / तज्जातीयस्य% बीजस्वेन जनककुर्वद्रूपजातीयस्य, अनेन स्वरूपजनकत्वं प्रदर्शितम् / अर्थक्रियाकारिणः अर्थक्रियाकारितास्वरूपयोग्यतालिका कुसूलस्थस्य कुवेद्रूपस्य चावशिष्टव तथापि न काचित् क्षतिः, स्वरूपयोग्यत्वेऽपि कार्यप्रसङ्गस्य सहकारिविरहादुपपत्तेरित्याशयः। क्षणि. कत्वसिविरिति / कुसूलावस्थितिमारम्याङ्कुराव्यवहितपूर्वपर्यन्तमेकबीजव्यक्त्यभ्युपगमे कार्यप्रसङ्गविपर्ययौ स्यातामिात क्षणिकत्वं सिध्यति तो चेत् सहकारिलाभालाभाभ्यामुपपन्नौ कुनः क्षणि. कत्वमित्याशयः / तथेति / यथैकजातीयस्य स्वरूपयोग्यत्वेऽपि कार्यजननाजननयोरविरोधः सह. कारिलाभालाभाभ्याम् तथेत्यर्थः / एकव्यक्ती कुसूलस्थाभिन्नायामपि कुर्वद्रूपव्यक्तौ / भावरो. धातू कार्योत्पादकत्वानुत्पादकत्वयोरविरोधात् / कश्चिविशेष इति / मेदेऽप्येकजातीयत्वोपगमे