________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् / 183 किन्तु सादृश्यतिरस्कृतत्वाद् द्रागेव न विकल्प्यते, कार्यदर्शनादध्यवसीयते म. न्यातिशग्रवत् / तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धान. नियमादयोऽप्युपपद्यन्ते। क्षणिकत्वसिद्धावेवमेतत् , तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् / मपि चन वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् / बोधनी। त्वप्रसनात् न व्यतिरिच्यत इति वक्तव्यम् , तदा च सहकारिसमवधानाद्भावान्तरमेव जायत इति स्यादित्यत्र क्षणभङ्गसिद्धिरिति / एवं तर्हि पूर्वबीजवैलक्षण्येनोत्तरं बीजमनुभूयतेत्यत आहकिन्तु इति / भिन्नो भावः सादृश्यतिरस्कृतभेदत्वादापाततः तथा न विकल्प्यते न निर्धीयते वर्तमानक्षणावगाहिना तु निर्विकल्पकेनानुभूयत एवेत्यर्थः / पश्चाद्वा निश्चयः कुतस्त्य इत्यत्राहकार्यदर्शनात्-इति / कुसूलस्थाद्विलक्षणभावानुत्पादे तद्वदेवानारम्भप्रसङ्गात् क्षित्यादिभिरकुरसमर्थ भावान्तरं जायत इति निश्चिनुमः / मन्त्यातिशयवत्-इति / यथा स्थिरवादि. नोऽपि जनकावस्थायामजनकावस्थातोऽतिशय कार्यदर्शनादवसीयते / यद्वा अन्त्योऽतिशयः सामग्री, सा यथा कासेंकसमधिगया तथातिशयोऽपीति / यद्वा, अन्त्यातिशयो घटादेरन्यो विजातीयः कपालादिसंतानः, स यथा प्रत्यक्षेणावसीयते तथा प्रतिक्षणभङ्गोऽपि विलक्षणकार्यदर्शनान्निश्चीयत इति / अस्तु क्षणभन्नः, प्रकृते किमायातमित्यत्राह-तथा च-इति / भूतानामुपादानोपादेयभावनिवमेन प्रतिसंधानभोगनियमोपपत्तिरिति / सिद्धान्त्याह क्षणिकत्व इति / अन्यत्रइति / अन्यत्र आत्मतत्त्वविवेके / न तावता श्रोतृणां सन्तोष इत्यत्रापि किञ्चिदाह-मपि-इति। . यथन्कुरानारम्भकाद् बीजात्तदारम्भकस्य वैजात्यं कुर्वद्रूपं नाङ्गीक्रियेत तर्हि क्षणिकत्वं न सिध्येत् / एकजातीयत्वे हि तयोः सहकारिलाभालाभाभ्यामेवारम्भानारम्भनियमो वक्तव्यः, तस्य चैकस्यामेव ब्यक्तौ सुवचत्वान्न क्षणिकत्वसिद्धिरिति भावः / अस्तु तर्हि वैजात्यमित्यत्राह-न तस्मिन्-इति / तस्मिन्नप्रामाणिक एव वैजात्येऽङ्गीक्रियमाणे कारणवत् कार्येऽपि वैजात्यसंभाव प्रकाशः। स्वभावादित्यर्थः / किं त्विति / सादृश्यवशात् तथाभूतोऽपि न तथात्वेनापाततो निश्चीयत इत्यर्थः / तत् किमनिश्चय एव, नेत्याह / कार्येति / स्थैर्ये सहकार्यपेक्षानुपपत्तेः पूर्वापरकालयोः कार्यदर्शनादर्शनाभ्यामतिशयोऽवसीयत इत्यर्थः। मन्त्यातिशय:= सामग्री / सामग्रीवत् कार्यकसमधिगम्यस्वान्नानुपलम्भमात्रेण निराक्रियत इति भावः। प्रकृतेन सामयति / तथा चेति। . न जात्यमिति / असमर्थव्यावृत्तकुवैद्रूपत्वं विना, न तत्क्षणिकत्वम् / अन्यथा सम. प्रकाशिका। स्येति ध्येयम् / मतिरिच्यत इति मूलस्य विविस्य न गृह्यत इति व्याख्या विवेकावधिमाह / असमर्थेति / एवं च विविच्य न गृह्यत इत्यत्र न चेत्यस्य सम्बन्धे विविच्य गृह्यते एवे. त्यर्थपर्यवसाने पूर्वोक्तापादने इष्टापत्तिरिति भावः / आपातत इति / निश्चायकाभावादिति भावः / सादृश्यस्यानिश्चयहेतोरप्रेऽपि सत्त्वात् कथं निश्चय इत्याशयेनाह / तत्किमिति / केति / यद्यपि क्रमयोगपद्ययोः प्रत्येकं मिलिततया वा नार्थक्रियाव्यापकत्वं, तथापि तदन्यतर. वेन व्यापकत्वम् / अर्थक्रियाकारिणि क्रमकारित्वयुगपत्कारित्वान्यतरनियमादिति बोध्यम् / अतिरिच्यत इत्यस्यैव विविच्य न गृह्यत इत्यर्थः / तत्र, न चेति सम्बन्धे विविच्य गृह्यत एवातिशय इत्यर्थपर्यवसाने सातिशयव्यक्त्युत्पादो गृयेतेत्यत्रेष्टापत्तिरिति भावः।मापातत इति / निश्चायका. भावादिति भावः / सादृश्यस्याग्रेऽपि सत्त्वान्निश्चायकाभावस्तुल्य इत्याशयेनाह / तत्किमिति / मकरन्दः।