________________ प्रथमस्तवके ] .. अपूर्वस्य चेतनधर्मत्यव्यवस्थापनम् / 181 वासनासक्रमो नास्ति न च गत्यन्तरं स्थिरे "15 // न हि भूतानां समुदायपर्यवसितं चैतन्यम् / प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वदिवसानुभूतम्यास्मरणप्रङ्गात् / नापि प्रत्येकपर्यवसितं, करचरणाद्यवयवापाये तदनुभूतस्य स्मरणायोगात् / नापि मृगमद सिनेव वस्त्रादिषु संसर्गादन्यवासनाऽन्यत्र संक्रामति मात्रानुभूतस्य गभस्थेनभ्रूणेन स्मरणप्रसङ्गात् / न चोपादानोपादेयभावनियमो गतिः। स्थिरपक्षे परमारणूनां तदभावात् / खण्डावयविनं बोधनी। विनि संक्रामति विच्छिन्नावयवगता च तिष्ठत्स्ववयवेष्विति / अत्राह-वासनासंक्रमःइति। 'सर्गादेव वासनायाः संक्रमणे संक्रान्तमातृवासनेन गर्भस्थेन मात्रानुभूतस्य स्मरणप्रसङ्गः / ननूपादानोपादेयभावस्तु नियामिका गतिर्भविष्यति / न ह्यवयवि नाम किञ्चिदस्ति, किन्तु प्रतिक्षणभङ्गुराः परमाणव एव तत्त्वम् / तेन पूर्वैः परमाणुभिरुत्तरेषामुपादीयमानत्वमस्ति / मातृभू. णयोस्तु तदभावानातिप्रसङ्ग इत्याह-न च-इति / न च स्थिरपक्षे परमाणूना नित्यत्वेनोपादेय. भावोऽस्तीत्यायपादस्य निगदव्याख्यातत्वाद् द्वितीयं व्याचष्टे-न हि-इति / द्वितीयव्या. ख्याने स्वाद्यस्यैव विवरणं द्वितीयमेवार्थान्तरेण व्याचष्टे-नापि इति / द्वितीयव्याख्याने तु द्वितीयमिदानी व्याचष्टे-नापि-इति / तृतीयं व्याचष्टे-नापि मृगमद-इति / तुरीयं व्याच. हे-न च-इति / मा भूत्परमाणूनामुपादानोपादेयभावः, अवयवावयविनोस्तु भविष्यतीत्याशकोह-खण्डावयविनम्-इति / न ह्यनुभवितारो विच्छिन्ना अवयवाः खण्डावयविनमार प्रकाशः। ननूपादानवासनाया उपादेये संक्रमः स्यादित्यत आह / न चेति / स्थिरे स्थिरपक्षे, परमाणू. ' नामनुपादेयत्वाद् विच्छिन्नकरादीनां खण्डावयविनं प्रत्यनुपादानत्वादिस्यर्थः / प्रतिदिनमिति / आहारपारणतिविशेषस्य तद्धतोरन्यान्यस्वादित्यर्थः / ननु करे मे सुखं, पादे मे दुःखमित्यनुभवादनुभवव्यधिकरणस्य सुखादेरनभ्युपगमात् करायेवानुभवितृ स्यादित्यत आह / नापीत / कराद्यपाये तदनुभूतास्मरणापातादित्यर्थः / मात्रेति / मातृगर्भस्थयोभियः संसोदित्यर्थः / ननु उपादानं यदनुभवितृ तद्वासना तदुपादेये संक्रामतीति करादिवासना तदपगमे तदुपादेये संक्रामति, न च मातृभ्रूणयोस्तथात्वमित्यत आह न चेति / खण्डति / अवस्थितावयवसंयोगेभ्य एव खण्डावयव्युत्पादादित्यर्थः। न च परमाणनामेव चैतन्यं, तद्गुणानामतीन्द्रियत्वेन ज्ञानादेरप्यतीन्द्रियत्वापत्तेः। शरीरान्वयादेश्व प्रकाशिका। स्थिरपक्षे इति / क्षणिकतापक्षे पूर्वपरमाणुपुजात्तदुत्तरपरमाणुपुश्चोत्पत्तिरिति भवतूपादेये उपादानवासनासंक्रमः, स्थिरपक्षे तदभावान स्यादित्यर्थः / विच्छिन्नेति / तथा च तत्करावच्छेदेनानुभूतं तदपगमे नानुभूयतेति भावः। तद्गुणानामिति / इदमापाततः, वस्तुतः अत एव नोक्तव्यभिचारोऽपीति वाच्यम् / स्वरूपदृष्टान्तासिद्धयोरापत्तेः / अन्योन्याभावस्यात्यन्ता. भावेऽत्यन्यताभावस्यान्योन्याभावेऽवृत्तेः / सदातनेत्यपि व्यर्थम् / स्वरूपयोग्यप्रागभावध्वंसयो. रप्यव्याप्यवृत्तित्वेन प्रागभावप्रध्वंसत्वयोरपि साध्यसत्त्वादिति चेन्मैवम् / सदातनाभाववृत्त्यभाव. विभाजकोपाधित्वादिति विवक्षितस्वात् / न चैवमपि दृष्टान्तासिद्धिः, चतुर्द्धा अभावविभागस्य, स पुनश्चतुर्दूत्यनेन करणात् / संयोगप्रागभावादेव्योप्यवृत्तित्वाभ्युपगमेन सदातनपदं, तदनभ्युपगमे त्वनादेयमेवेति तत्त्वम् // 14 // स्थिरपक्ष इति / क्षणिकतापक्षे बाल्ययुवशरीरयोः परमाणुपुखात्मकतयोपादानोपादेयभावे तद्वासनासंक्रमः स्यात् / स्थिरपक्षे तदभावान स्यादित्यर्थः। विच्छिन्नेति / तथा च तद्वास मकरन्दः /