________________ 180 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [15 कारिकावतरणिकायो ___ स्थादेतत् / नित्यविभुभोक्तृसद्भावे सर्वमेतदेवं स्यात् , स एव कुतः, भूता. नामेव चेतनत्वात् / कायाकारपरिणतानि भूतानि तथा, मन्वयव्यतिरेकाभ्यां तथोपलब्धेः, कर्मज्ञानवासने तु सर्वत्र प्रतिभूतनियते अनुवत्तियेते, यतो भोगप्रतिसन्धाननियम इति चेत् / उच्यतेनान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् / बोधनी। ___ एवं सौख्यं निरस्यापूर्वस्यात्मधर्मत्वे साधिते पुनरपि चार्वाकः प्रत्यवतिष्ठते-स्यादेतत्-इति / यदि भोक्ता नित्यो विभुश्च स्यात् ततस्तस्य सर्वदेहप्राप्त्यविशेषाद् भूतगतैरतिशयैने भोगनियमः स्यादित्यात्मसमवायोऽपूर्वस्य स्यात्, तावृशस्तु भोक्ता कुतः प्रमाणात् सिध्येत् / न कुतश्चिदित्यर्थः / ननु ज्ञानसमवायिकारणत्वेनानुमास्यत इत्यत्राह-भूतानामिति / भूताना. मेव चेतनत्वे घटादेरपि तत्त्वप्रसङ्गमाशङ्कय विशिनष्टि-कायाकार-इति / तानि भूतानि तथा चेतनानीत्यर्थः / भूतत्वाविशेषे कुतोऽयं विवेक इत्यत्राह-मन्वय-इति / यथा सुराकारपरिणता. नामेव भूतानां मदशक्तिर्नान्येषां तथैतदपि / तदुक्तं सूत्रकारेण "मदशक्तिवद् विज्ञानम्" इति / यदि शरीरादिव्यतिरिक्तः चेतनो न स्यात् तहि किमाश्रयावदृष्टसंस्कारौभोग प्रतिसंघानं च नियच्छतस्तत्राह--कर्म-इति / स्मृतिहेतुः संस्कारो ज्ञानवासना, सा तावदनुभवसामानाधिकरण्यात् तदाधारेषु वय॑त इति / कर्मजनिती धर्माधौं कर्मवासना, सा तावन्नास्त्येव / यद्यपि स्यात् तथापि भूतानामेव कर्तृत्वात्तेष्वेव नियता वत्स्यंत-इत्युच्यत इति / / ___ अन्यैरनुभूतं नान्यः स्मरतीति तावदविवादम् / अनेनात्मनः शरीरादिव्य तिरेके प्रमाणम. भिसंधत्ते, स्मृतिः पूर्वापरप्रत्ययाभ्यां सहैकर्तृका, ताभ्यो सहैककर्तृत्वेन प्रतिसंधीयमानत्वात् , न यदेवं, न तदेवं यथा देवदत्तस्य स्मृतिर्यज्ञदत्तस्य पूर्वापरप्रत्ययाभ्यां न प्रतिसंधीयते न तथा. चेयं तस्मान्न तथेति / ततः किमित्यत आह-नकम्-इति / न तावच्छरीरावयविसमवेतं चैतन्यं, तस्यावस्थाभेदेष्वन्यत्वात् तत्र पूर्वानुभूतस्योत्तरावस्थायामस्मरणप्रसङ्गः। तर्हि करचरणाद्यन्यतमावयवसमवेतं भविष्यतीति / अत्राप्येतदेवावतिष्ठते नैकमवयवभूतं चैतन्यं तस्यावयवस्य कदाचिाद्वच्छेदात् / तत्र च तदनुभूतस्यावयवान्तरेणास्मरणप्रसङ्गः / यद्वा, आद्यपादेनावयवि. चैतन्यस्य निरासः, द्वितीयेनावयवचैतन्यस्येति / ननु पूर्वावयविगता , वासनोत्तरस्मिन्नवय प्रकाशः। स्यादेतदिति / भूतचैतन्थेऽपि प्रकृतसिद्धौ नित्यविभुभोक्तृनिरासपरेयं शङ्केति / अथैवं घटादिरपि चेतनः स्यादित्यत आह / कायेति / अन्वयेति / अन्वयव्यतिरेकाभ्यां शरीरस्य ज्ञानहेतुत्वे सिद्ध समवायिकारणमपि तदेव कल्प्यते / तदन्यस्मिन् मानाभावाद् , गौरोऽहं जानामीत्यनुभवाच्चेति भावः / ननु शरीरस्याऽनुभवितृत्वे कर्तृत्वे च तन्नाशादन्यस्य भोक्तृत्वे प्रतिसंधातृत्वे चातिप्रसङ्ग इत्यत आह / कमज्ञानेति / कमज्ञानाभ्यां जनिते वासने अष्टसं. स्कारो। यत इति / यत्कायसन्ताने कर्म, तत्कायसन्ताने भोगो, यत्कायसन्तानेऽनुभवस्तत्कायसन्ताने स्मृतिरित्यर्थः / __ नान्यदृष्टमिति / एवं बालशरीरेणाऽनुभूतस्य युवशरीरेण स्मरणं न स्यात् , तयो. भेंदात् / अन्यानुभूतस्यान्येन स्मरणेऽतिप्रसङ्गात् / न च बाल्ययौवनयोरेकं भूतं शरीरम् / अपकेमाद् = विनश्वरस्वभावत्वात् / न चान्यवासनाऽन्यत्र संक्रामति, अतिप्रसङ्गादित्यर्थः / प्रकाशिका / प्रहातसिद्धाविति। कालान्तरफलानुकूलादृष्टस्यैव प्रकृतत्वादिति भावः। .