________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् / 176 सिद्धः / न च सामानाधिकरण्यादभेदोऽपि, तद्धि समानशब्दवाच्यत्वम् , एकज्ञानगोचरत्वम् , एकाधिकरणत्वम्, आधाराधेयभावः, विशेष्यत्वं, सम्बन्धमा वा, भेद एव भेदेऽपि चोपपद्यमानं नाभेदंस्पृशतीति / तस्मात् सर्वमवदातम् // 14 // बोधनी। धकमिस्याह-न च-इति / अनेकापेक्षया हि किञ्चिदेकं साधारणं भवति, न त्वेकस्यैवैकम् / सुगममन्यत / न चातिप्रसङ्गः. कार्यकारणाभिधेयाभिधायकविषयविषयिभाववत स्वभावत एव सामा. नाधिकरण्यनियमोपपत्तेरिति भावः / तस्मादात्मनो ज्ञानाद्यनित्यधर्मकत्वे दोषकणोऽपि नास्तीत्युपसंहरति-तस्मात्सर्वमवदातम्-इति // 14 // * प्रकाशः। दित्यर्थः / ननु धर्मधर्मिणोरत्यन्नभेदोऽसिद्धः / नीलः पट इति सामानाधिकरण्यबुद्धिरतिभिन्नाभिन्नाभ्यां व्यावर्तमाना धर्मधमिणो दाभेदी साधयति / अन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति सदातनाभावमात्रवृत्तिधर्मत्वात् अत्यन्ताभावत्ववदित्यनुमानमप्यत्रेत्यत आह / न चेति / आयं द्वयं सामानाधिकरण्यं भेदेऽपि, अन्त्यत्रयं भेद एव, सम्बन्धमात्रमपि यद्येककारणकत्वादि तदा भेदेऽ. पि, नोचेद्भेद एव उपपद्यत इति नाभेदस्ततः सिद्धयतीत्यर्थः / अथ नीलपटयोरभेदबुद्धिरेव सा. मानाधिकरण्यधीस्तदाऽसिद्धिः / नीलः पट इति प्रतीत्या तयोः सम्बन्धस्यैव विषयीकरणात् / अन्यथा नीलिमा पट इत्यपि बुद्धथापत्तिः / शब्दप्रयोगस्यापि मतुब्लोपादभेदोपचाराद्वोपपत्तेः / वस्तुतो विरुद्धयोरेकत्र भावाभावाववच्छेदभेदेनैव. प्रतीयते / न चात्र सोऽस्ति / अनुमानमप्यनुकूलताभावेन व्याघातरूपप्रतिकूलतर्केण च प्रतिहतमिति संक्षेपः // 14 // प्रकाशिका। टयोरभेदसिद्धौ तदृष्टान्तेन धर्मधम्भिावादेव प्रकृतेऽभेदः साध्य इत्याशयवानाशङ्कते / ननु धम्मम्मिणोरिति / भन्योन्याभावत्वमिति / यद्यपि संयोगवदन्योन्याभावाव्याप्य. वृत्तितामादायार्थान्तरत्वम् / तथापि व्याप्यवृत्तिधर्भावच्छिन्न प्रतियोगिताकस्वसमानाधिकरणात्यन्ताभावप्रतियोगिवृत्तित्वमव्याप्यवृत्तित्वं प्रकृते विवक्षितमिति नोक्तदोषः। संयोगात्यन्ताभावे च व्याप्यवृत्त्येव संयोगस्वं प्रतियोगितावच्छेदकमिति न दृष्टान्तासिद्धिः। सदातनेति / सदातनाभाववृत्त्यभावविभाजकधर्मत्वादित्यर्थः / तेन यथाश्रुते घटात्यन्ताभावत्वे व्यभिचारः, मात्रपदं च व्यर्थ प्रमेयत्वादावपि साध्यसत्त्वात् मात्रपदस्य कारार्थकत्वे स्वरूपासिद्धिदृष्टान्तसिद्धी इति दूषणस्यानवकाशः / सदातनेत्यादिविशेषणं च संयोगप्रागभावध्वंसयोव्याप्यवृत्ति. स्वपक्षे, अन्यथात्वदेयमेव / अभावपदं चाकाशत्वादौ व्यभिचारवारणाय मुख्याभावपरं स पुनश्च तुर्द्धति शास्त्रेणाभावविभागान स्वरूपासिद्धिरिति स्मर्त्तव्यम् / आद्य त्रयमिति / अधिकरणक्यस्यापि भेदाभेदसाधारणत्वादिति भावः / अन्त्यं प्रयमिति / सम्बन्धत्वमात्रपक्षेऽपि कार्यकारणभावादिकमर्थमादाय भेदत्रयस्यैव प्राप्तेरिति भावः / क्वचित् पाठः आद्यं द्वयमिति / तत्रैकाधिकरणत्वं समानाधिकरणस्वं साम्यं च तदधिकरणत्वासाधारणधर्माघटितमिति भेदनियतमिति भावः। एवं च अन्त्यस्वेन तृतीयचतुर्थपञ्चमरूपं विवक्षितम् / षष्ठं तु स्वयमेव विकल्प्य दूषयिष्यतीति ध्येयम् / मतुब्लोपादिति / लुप्तस्मृतो मतुबेवार्थप्रत्यायको नीलपदे वा नील. सम्बन्धिनि लक्षणेत्यर्थः / / 4 // मकरन्दः। सदातनाभावमात्रवृत्तिधर्मत्वादिति / ननु घटात्यन्ताभावत्वादौ व्यभिचारः, मात्रपदश्च व्यर्थम् प्रमेयत्वादावपि साज्यसत्त्वात् / न च मात्रपदं न व्यवच्छेदार्थकं, किन्तु यावदर्थकम् /