________________ प्रथमस्तवके ] . मपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् / 177 भिचारादिति किमनेनाप्रस्तुतेन ? / यदि च बुद्धिनित्या, मनिोक्षप्रसङ्गः, पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् / मथ विलीयते, ततो नानादेविलय इत्यादिमत्त्वे तदनुत्पत्तिदशायां को नियन्ता ? प्रकृतेः साधारण्यात् तथा चासं: सारः / पूर्वपूर्वबुद्धिवासनानुवृत्तेः साधारण्येऽप्यसाधारणीति चेत् / बुद्धिनिवृत्तावपि तद्धर्मवासनाऽनुवृत्तिरित्यपदर्शनम् / सौक्षम्यान्न दोष इति चेत् / मुक्तावपि पुनः प्रवृत्तिप्रसङ्गः / निरधिकारित्वान्नवमिति चेत् / तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्था बोधनी। साधर्म्य वैधर्म्यनिरूपणेनेत्याह-किमनेन-इति। तदेवं कृतिचैतन्ययोः सामानाधिकरण्यस्यावाधितत्वाच्चेतिता च स एव न इति सुस्थम् / तृतीयपादं सोपस्कारं व्याचष्टे-यदि चइति / तुरीयं व्याचष्टे-अथ इति / को नियन्ता ? नियतशरीरादिपरिग्रहे बुद्धविलीनत्वाद्विद्यमानस्य चात्मनो निरतिशयत्वादिति / तर्हि नित्या प्रकृतिरेव नियन्त्री भविष्यतीत्यत्राह-प्रकृते:-इति / निरतिशयत्वेन तस्याः सर्वपुरुषसाधारणत्वादिति / नियन्तुरभावे किं स्यादत आहतथा च-इति। ननु विलीयमाना बुद्धिः स्वगतां धर्माधर्मरूपवासनां प्रकृतावाधाय विलीयते, मतो बुद्धयाहितवासनानुवृत्तेः प्रकृतिरसाधारणी स्यादित्याह-पूर्वबुद्धि-इति / नायं धर्मधर्मिणोस्तादात्म्यवादिनः सौख्यस्य सिद्धान्त इत्याह-बुद्धि-इति / ननु स्थूलरूपनिवृत्तावपि सूक्ष्मरूपा बुद्धिरवतिष्ठते, ततः सर्वथा विनाशाभावादतः तदाश्रयवासनानुवृत्ते पसिद्धान्तदोष इत्याह-सौक्ष्म्यात्-इति / यदि सूक्ष्मरूपास्थितयैव बुद्धया भोगनियमो भवेत् तर्हि मुक्तावपि तथावस्थितयैव तया भोगप्रसङ्ग इत्याह-मुक्तावपि-इति / नन्वनुवर्तमानापि बुद्धिर्मुक्ती कर्म वासनारहितत्वान्न पुनः संसारहेतुरित्याह-निरधिकारित्वात्-इति / यदि सत्यामपि बुद्धावधिकारायत्तः संसारः, अत एवाप्रसुप्तस्वभावात् तत्तत्कार्यपरिणामोन्मुखी बुद्धिरेव प्रकृतिरस्तु, तथाधिकारवत्त्या बुद्धरेव तत्तदभिमानादिव्यापारमाश्रित्याहङ्कारादिव्यपदेशोऽस्तु, किं व्यापारबद्धर्मिभेदकल्पनाप्रयासेनेत्याह-तहि-इति / प्रकृत्यादिशब्दानामेकार्थत्वे तद्भेदप्रतिपादक थागमो विरुध्येत "अजामेकाम्" इत्यादिः / तथा "दशमन्वन्तराणीह तिष्ठन्तीन्द्रिय चिन्तकाः / भौतिकास्तु शतं पूर्ण सहस्रं चाभिमानिकाः / बौद्धा दशसहस्रं हि तिष्ठन्ति विगतज्वराः” इति / प्रकाशः। पुंसः सर्वदेति / पुरुषस्य निरुपाध्यवस्थानात्मको मोक्षो न स्यात् / बुद्धनित्यत्वेन सदा तदुपधानादित्यर्थः / अथेति / बुद्धरनुत्पन्नाया न वंस इति तदुत्पत्तिकाले नियमकाभावानियत. बुद्धयुत्पाद एव न स्यादिति न संसार इत्यर्थः / ननु प्रकृतेः साधारण्येऽपि पूर्वप्रध्वस्तबुद्धिर्वासनायोगादसाधारणी नियामिका स्यादित्याह / पूर्वेति / सांख्यमते धर्मधर्मिणोरभेदादस्माकं चाऽऽश्र. यनाशस्यःकार्यनाशकत्वाद्धर्मिनाशेऽपि न धर्मावस्थानमित्याह / बुद्धीति / सौम्यादिति / सूक्ष्मबुद्धिरनुवर्तत एवेति न तन्नाश इत्यर्थः / मुक्तावपीति बुद्धेः सूक्ष्माया अनुवृत्तेः संसारापत्तिरित्यर्थः / यावत्संसारं विलीनाया अपि बुद्धासनानुवृत्तिलक्षणोऽधिकारोऽस्ति, मुक्तौ तु सोऽपि नास्तीति न पुनः संसार इत्याह / निरधिकारत्वादिति / यद्येवं, तदा संसारिदशायो साधिकारा, मुक्तौ तु प्रसुप्तस्वभावा प्रवृत्त्यजनिका बुद्धिरेव ज्ञानाद्याश्रयभूता प्रकृतिपदवाच्याs. स्तु, कृतं प्रकृत्यायार्थान्तरकल्पनयेत्याह / तौति एवं सति प्रकृयादि प्रतिपादक मागर्म सा. 23 न्या० कु०